Brahman (The Absolute Reality)

कठोपनिषद् - अध्याय 2, वल्ली 3

(Kathopanishad - Chapter 2, Valli 3)

From Katha Upanishad (Yajurveda)

This text is the third section of the second chapter of the Katha Upanishad, part of the Krishna Yajurveda. It features the dialogue between young Nachiketa and Yama, the Lord of Death, regarding the nature of the Self. The verses vividly describe the cosmic Ashvattha tree, representing the manifest universe rooted in the eternal Brahman. By contemplating these profound metaphysical truths, the seeker gains clarity on the nature of immortality, the structure of existence, and the ultimate liberation from the cycle of birth and death, leading to supreme peace and transcendental wisdom.

अध्याय 2

वल्ली 3
ऊर्ध्वमूलो-ऽवाक्शाख एषो-ऽश्वत्थ-स्सनातनः।
तदेव शुक्र-न्तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिं​ल्लोँका-श्श्रिता-स्सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥1॥
यदिद-ङ्कि-ञ्च जगत्सर्व-म्प्राण एजति निस्सृतम्।
महद् भयं-वँज्रमुद्यतं-यँ एतद्विदुरमृतास्ते भवन्ति ॥2॥
भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥3॥
इह चेदशकद्बोद्धु-म्प्राक् शरीरस्य विस्रसः।
तत-स्सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥4॥
यथा-ऽऽदर्​शे तथा-ऽऽत्मनि यथा स्वप्ने तथा पितृलोके।
यथा-ऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥5॥
इन्द्रियाणा-म्पृथग्भावमुदयास्तमयौ च यत्।
पृथगुत्पद्यमानाना-म्मत्वा धीरो न शोचति ॥6॥
इन्द्रियेभ्यः पर-म्मनो मनस-स्सत्त्वमुत्तमम्।
सत्त्वादधि महानात्मा महतो-ऽव्यक्तमुत्तमम् ॥7॥
अव्यक्तात्तु परः पुरुषो व्यापको-ऽलिङ्ग एव च।
य-ञ्ज्ञात्वा मुच्यते जन्तुरमृतत्व-ञ्च गच्छति ॥8॥
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसा-ऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥9॥
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टते तामाहुः परमा-ङ्गतिम् ॥10॥
तां-योँगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥11॥
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतो-ऽन्यत्र कथ-न्तदुपलभ्यते ॥12॥
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥13॥
यदा सर्वे प्रमुच्यन्ते कामा ये-ऽस्य हृदि श्रिताः।
अथ मर्त्यो-ऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥14॥
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः।
अथ मर्त्यो-ऽमृतो भवत्येतावद्ध्यनुशासनम् ॥15॥
शत-ञ्चैका च हृदयस्य नाड्यस्तासा-म्मूर्धानमभिनिस्सृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥16॥
अङ्गुष्ठमात्रः पुरुषो-ऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीका-न्धैर्येण।
तं-विँद्याच्छुक्रममृत-न्तं-विँद्याच्छुक्रममृतमिति ॥17॥
मृत्युप्रोक्ता-न्नचिकेतो-ऽथ लब्ध्वा विद्यामेतां-योँगविधि-ञ्च कृत्स्नम्।
ब्रह्मप्राप्तो विरजो-ऽभूद्विमृत्यु-रन्यो-ऽप्येवं-योँ विदध्यात्ममेव ॥18॥

Explore More