Brahman

प्रश्नोपनिषद् - प्रथमः प्रश्नः

(Prashna Upanishad - First Question)

From Atharva Veda

The Prashna Upanishad is a classical Vedic text belonging to the Atharva Veda, structured as a dialogue between Sage Pippalada and six seekers of ultimate truth. The first question explores the origin of all living beings, attributing creation to the duality of Prana and Rayi. By studying this sacred text, aspirants gain profound metaphysical insights into the nature of existence, time, and the creative force of the universe. Reciting or contemplating these verses fosters intellectual clarity, spiritual wisdom, and a deep understanding of the manifest and unmanifest reality governed by the Supreme Brahman.

प्रथमः प्रश्नः
ओ-न्नमः परमात्मने । हरिः ओम् ॥
सुकेशा च भारद्वाज-श्शैब्यश्च सत्यकाम-स्सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः पर-म्ब्रह्मान्वेषमाणाः एष ह वै तत्सर्वं-वँक्ष्यतीति ते ह समित्पाणयो भगवन्त-म्पिप्पलादमुपसन्नाः ॥1॥
तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया सं​वँत्सरं सं​वँत्स्यथ यथाकाम-म्प्रश्ना-न्पृच्छत यदि विज्ञास्याम-स्सर्वं ह वो वक्षाम इति ॥2॥
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥3॥
तस्मै स होवाच-
प्रजाकामो वै प्रजापति-स्स तपो-ऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते।
रयि-ञ्च प्राणञ्चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥4॥
आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः रयिर्वा एत-थ्सर्वं-यँन्मूर्त-ञ्चामूर्त-ञ्च तस्मान्मूर्तिरेव रयिः ॥5॥
अथादित्य उदयन् य-त्प्राची-न्दिश-म्प्रविशति तेन प्राच्या-न्प्राणा-न्रश्मिषु सन्निधत्ते।
यद्दक्षिणां-यँ-त्प्रतीचीं-यँदुदीचीं-यँदधो यदूर्ध्वं-यँदन्तरा दिशो यत्सर्व-म्प्रकाशयति तेन सर्वा-न्प्राणा-न्रश्मिषु सन्निधत्ते ॥6॥
स एष वैश्वानरो विश्वरूपः प्राणो-ऽग्निरुदयते।
तदेतद् ऋचा-ऽभ्युक्तम् ॥7॥
विश्वरूपं हरिण-ञ्जातवेदस-म्परायण-ञ्ज्योतिरेक-न्तपन्तम्।
सहस्ररश्मि-श्शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥8॥
सं​वँत्सरो वै प्रजापतिः तस्यायने दक्षिणञ्चोत्तर-ञ्च।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते।
तस्मादेत ऋषयः प्रजाकामा दक्षिण-म्प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः ॥9॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते।
एतद्वै प्राणानामायतनमेतदमृतमभयमेत-त्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः ॥10॥
पञ्चपाद-म्पितर-न्द्वादशाकृति-न्दिव आहुः परे अर्धे पुरीषिणम्।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥11॥
मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयि-श्शुक्लः प्राणस्तस्मादेत ऋषय-श्शुक्ल इष्ट-ङ्कुर्वन्तीतर इतरस्मिन्न् ॥12॥
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः।
प्राणं-वाँ एते प्रस्कन्दन्ति ये दिवा रत्या सं​युँज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या सं​युँज्यन्ते ॥13॥
अन्नं-वैँ प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥14॥
तद्ये ह वै तत्प्रजापतिव्रत-ञ्चरन्ति ते मिथुनमुत्पादयन्ते।
तेषामेवैष ब्रह्मलोको येषा-न्तपो ब्रह्मचर्यं-येँषु सत्य-म्प्रतिष्ठितम् ॥15॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृत-न्न माया चेति ॥16॥

Explore More