माता नृसिंहः पिता नृसिंहः ।
भ्राता नृसिंहः सखा नृसिंहः ॥
भ्राता नृसिंहः सखा नृसिंहः ॥
विद्या नृसिंहः द्रविणं नृसिंहः ।
स्वामी नृसिंहः सकलं नृसिंहः ॥
स्वामी नृसिंहः सकलं नृसिंहः ॥
इतो नृसिंहः परतो नृसिंहः ।
यतो नृसिंहस्ततो नृसिंहः ॥ (यतोयतो याहि / यामि ततो नरसिंहः)
यतो नृसिंहस्ततो नृसिंहः ॥ (यतोयतो याहि / यामि ततो नरसिंहः)
नृसिंहदेवात्परो न कश्चित् ।
(बहिर्नृसिंहो हृदये नृसिंहो)
तस्मान्नृसिंहं शरणं प्रपद्ये ॥ (नृसिंहमादिं)
(बहिर्नृसिंहो हृदये नृसिंहो)
तस्मान्नृसिंहं शरणं प्रपद्ये ॥ (नृसिंहमादिं)
इति श्रीनृसिंहप्रपत्तिः समाप्ता ।