Lord Narasimha

श्रीनृसिंहकवचम्

(Narasimha Kavacham)

Prahlada (from Brahmanda Purana)

Sri Narasimha Kavacham is a powerful protective armor (Kavacham) chanted by the great devotee Prahlada. Found in the Brahmanda Purana, it invokes the protection of Lord Narasimha for every part of the body and destroys all sins, fears, and obstacles.

श्री गणेशाय नमः ।
श्रीमद्दिव्यलक्ष्मीनृसिंहाय नमः ।
अथ श्रीलक्ष्मीनृसिंहकवचप्रारम्भः ।
ॐ अस्य श्रीलक्ष्मीनृसिंहकवचमालामन्त्रस्य व्यासप्रह्लाद ऋषिः शिरसि ।
श्रीलक्ष्मीनृसिंहो देवता हृदये ।
अनुष्टुप्छन्दः मुखे ।
सर्वव्यापी स्तम्भवासो बीजं नाभौ ।
श्रीः शक्तिः पादयोः ।
गुह्यरूपधृक् कीलकं सर्वाङ्गे ।
श्रीलक्ष्मीनृसिंहप्रसादसिध्यर्थे श्रीलक्ष्मीनृसिंहकवचस्तोत्रमन्त्रराजजपे विनियोगः ।
अथ करन्यासः ।
ॐ योगिहृत्पद्मवासाय अङ्गुष्ठाभ्यां नमः ।
ॐ लक्ष्मीनृसिंहाय तर्जनीभ्यां नमः ।
ॐ स्वप्रकाशाय मध्यमाभ्यां नमः ।
ॐ सहस्रशीर्षाय अनामिकाभ्यां नमः ।
ॐ सोमसूर्याग्निलोचनाय कनिष्ठिकाभ्यां नमः ।
ॐ दिव्यास्त्रशोभितभुजाय करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
ॐ योगिहृत्पद्मवासाय हृदयाय नमः ।
ॐ लक्ष्मीनृसिंहाय शिरसे स्वाहा ।
ॐ स्वप्रकाशाय शिखायै वषट् ।
ॐ सहस्रशीर्षाय कवचाय हुम् ।
ॐ सोमसूर्याग्निलोचनाय नेत्रत्रयाय वौषट् ।
ॐ दिव्यास्त्रशोभितभुजाय अस्त्राय फट् ।
ॐ भूर्भुवस्वरोम् ।
इति दिग्बन्धः ।
अथ ध्यानम् ।
कर्पूरधामबलं कटकाङ्गदादि-छत्रं त्रिनेत्रशशिशेखरमण्डितास्यम् ।
वामाङ्कसंस्थितरमानयनाभिरामं चक्राब्जशङ्खसगदं नृहरि नमामि ॥ ।
नमस्कृत्य गणाधीशं सर्वविघ्ननिवारणम् ।
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १॥
सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ २॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ ३॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ ४॥
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ ५॥
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः ।
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥ ६॥
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥ ७॥
सर्वगोऽपि स्तम्भवासः भालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ ८॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ ९॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥ १०॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ ११॥
करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ १२॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥ १४॥
ऊरु मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ १६॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ १७॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भीषणविग्रहः ॥ १८॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥ १९॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २०॥
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ २१॥
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ २२॥
वृश्चिकोरगसम्भूत विषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ २३॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ २४॥
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ २५॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ २६॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ २७॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ २८॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ २९॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ ३०॥
इति परमरहस्यसारमेतत्कवचवरं पठतीह यस्तु भक्त्या ।
स भवति धनधान्यपुत्र भोगी तनुविगमे समुपैति नारसिंहम् ॥ ३१॥
तप्तहाटककेशान्तज्वलत्पावकलोचन ।
वज्रायुधनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥ ३२॥
श्रीनृसिंहो दिव्यसिंहः सर्वाभीष्टप्रदायकः ।
एकवीरोऽद्भुतबलो मन्त्रयन्त्रकभञ्जनः ॥ ३३॥
भयं नास्ति भयं नास्ति नृसिंहपदसेवानात्।
सत्यं सत्यं वचो वच्मि शङ्करोऽहं त्रिलोचनः ॥ ३४॥
कुतो भीतिः कुतो मृत्युः कुतस्तस्य दरिद्रता ।
मृत्योर्मृत्युः रमानाथो यस्य नाथो नृकेसरी ॥ ३५॥
भर्जनं भवबीजानां वर्धनं सुखसम्पदाम् ।
तर्जनं यमदूतानां नृहरेर्नामगर्जनम् ॥ ३६॥
माता नृसिंहश्च पिता नृसिंहो भ्राता नृसिंहश्च सखा नृसिंहः
विद्या नृसिंहो द्रविणं नृसिंहः स्वामी नृसिंहः सकलं नृसिंहः ॥ ३७॥
यतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः ।
नृसिंहदेवादपरं न किञ्चित् ।
तस्मान्नृसिंहं शरणं प्रपद्ये ॥ ३८॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥ ३९॥
॥ इति श्रीब्रह्माण्डपुराणे नारदागस्तिसंवादे प्रह्लादप्रोक्तं
श्रीनृसिंहकवचं अथवा श्रीलक्ष्मीनृसिंहकवचं सम्पूर्णमस्तु ॥

Also Chanted For

Health & HealingPeace & Protection

Explore More