Lord Narasimha

श्री ऋणमोचन नृसिंह स्तोत्रम्

(Runavimochana Narasimha Stotram)

Sri Vadiraja Tirtha

Sri Runavimochana Narasimha Stotram is a very powerful hymn dedicated to Lord Narasimha. Chanting this stotram is believed to alleviate all forms of debts (runa) and bestow quick wealth, peace, and fearlessness.

देवताकार्यसिद्धयर्थं सभास्तम्भसमुद्भवम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ १॥
लक्ष्म्यालिङ्गितवामाङ्गं भक्तानां वरदायकम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ २॥
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ३॥
स्मरणात्सर्वपापघ्नं कद्रुजविषनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ४॥
सिंहनादेन महता दिग्दन्तिभयनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ५॥
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ६॥
क्रूरग्रहेः पीडितानां भक्तानामभयप्रदम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ७॥
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ८॥
य इदं पठते नित्यमृणमोचनसंज्ञितम् ।
अनृणीं जायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
ऋणमोचनस्तोत्रं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।

Also Chanted For

Health & Healing

Explore More