Lord Narasimha

श्रीलक्ष्मीनृसिंहकरावलम्बस्तोत्रम्

(Sri Lakshmi Narasimha Karavalamba Stotram)

Adi Shankaracharya

Sri Lakshmi Narasimha Karavalamba Stotram is a very powerful hymn composed by Adi Shankaracharya in praise of Lord Narasimha, the half-lion half-man incarnation of Lord Vishnu. The hymn requests Lord Narasimha to extend his hand ('Karavalamba') for protection and rescue from the ocean of worldly existence (Samsara).

श्रीलक्ष्मीनृसिंहकरुणारस अथवा करावलम्बस्तोत्रम्

श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १॥
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २॥
संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३॥
संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४॥
संसारसागरविशालकरालकाल-
नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५॥
संसारवृक्षमघबीजमनन्तकर्म-
शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलितं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६॥
संसारसर्पविषदिग्धमहोग्रतीव्र-
दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७॥
संसारदावदहनाकरभीकरोग्र-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८॥
संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९॥
संसारभीकरकरीन्द्रकराभिघात-
निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १०॥
अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११॥
लक्ष्मीपते कमलनाभ सुरेश विष्णो
वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष ।
ब्रह्मण्य केशव जनार्दन वासुदेव
देवेश देहि कृपणस्य करावलम्बम् ॥ १२॥
यन्माययार्जितवपुःप्रचुरप्रवाह-
मग्नार्थमत्र निवहोरुकरावलम्बम् ।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं सुखकरं भुवि शङ्करेण ॥ १३॥
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४॥
बद्ध्वा गले यमभटा बहु तर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५॥
एकेन चक्रमपरेण करेण शङ्ख-
मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६॥
प्रह्लादनारदपराशरपुण्डरीक-
व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरुक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १७॥
संसारयूथ गजसंहतिसिंहदंष्ट्रा
भीतस्य दुष्टमैदैत्य भयङ्करेण ।
प्राणप्रयाण भवभीति निवारणेन
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १८॥
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १९॥
आद्यन्तशून्यमजमव्ययमप्रमेय-
मादित्यरुद्रनिगमादिनुतप्रभावम् ।
त्वाम्भोधिजास्य मधुलोलुपमत्तभृङ्गीं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २०॥
वाराह-राम-नरसिंह-रमादिकान्ता
क्रीडाविलोलविधिशूलिसूरप्रवन्द्य! ।
हंसात्मकं परमहंस विहारलीलं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २१॥
स्वामी नृसिंहः सकलं नृसिंहः
माता नृसिंहश्च पिता नृसिंहः ।
भ्राता नृसिंहश्च सखा नृसिंहः
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २२॥
प्रह्लादमानससरोजवासभृङ्ग!
गङ्गातरङ्गधवळाङ्ग रमास्थिताङ्क! ।
शृङ्गार सुन्दरकिरीटलसद्वराङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २३॥
श्री शङ्करार्य रचितं सततं मनुष्यः
स्तोत्रं पठेदिह तु सर्वगुणप्रपन्नम् ।
सद्योविमुक्तकलुषो मुनिवर्यगण्यो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २४॥
श्रीमन् नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादिवृश्चिक-जलाग्नि-भुजङ्ग-रोग
क्लेशव्ययाम हरये गुरवे नमस्ते ॥ २५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
लक्ष्मीनृसिंहकरुणारसस्तोत्रं अथवा
लक्ष्मीनृसिंहकरावलम्बस्तोत्रं सम्पूर्णम् ॥

Explore More