Brahman (The Absolute Reality)

कठोपनिषद् - अध्याय 1, वल्ली 3

(Kathopanishad - Chapter 1, Valli 3)

From Vedas (attributed to Maharshi Vedavyasa)

This section of the Kathopanishad features the profound dialogue between the young seeker Nachiketa and Yama, the Lord of Death. The opening verses introduce the metaphor of two souls residing in the heart, representing the individual self and the Supreme Brahman, often described as light and shadow. As one of the principal Upanishads, this text serves as a spiritual map for liberation. Chanting or studying these verses helps the seeker detach from worldly illusions, understand the eternal nature of the soul, and attain the highest state of self-realization and fearlessness.

अध्याय 1

वल्ली 3
ऋत-म्पिबन्तौ सुकृतस्य लोके गुहा-म्प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥1॥
य-स्सेतुरीजानानामक्षर-म्ब्रह्म यत्परम्।
अभय-न्तितीर्​षता-म्पार-न्नाचिकेतं शकेमहि ॥2॥
आत्मानं रथिनं-विँद्धि शरीरं रथमेव तु।
बुद्धि-न्तु सारथिं-विँद्धि मनः प्रग्रहमेव च ॥3॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्त-म्भोक्तेत्याहुर्मनीषिणः ॥4॥
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥5॥
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥6॥
यस्त्वविज्ञानवान्भवत्यमनस्क-स्सदा-ऽशुचिः।
न स तत्पदमाप्नोति संसार-ञ्चाधिगच्छति ॥7॥
यस्तु विज्ञानवान्भवति समनस्क-स्सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥8॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सो-ऽध्वनः पारमाप्नोति तद्विष्णोः परम-म्पदम् ॥9॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च पर-म्मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥10॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न पर-ङ्किञ्चित्सा काष्ठा सा परा गतिः ॥11॥
एष सर्वेषु भूतेषु गूढो-ऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्​शिभिः ॥12॥
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥13॥
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्ग-म्पथस्तत्कवयो वदन्ति ॥14॥
अशब्दमस्पर्​शमरूपमव्यय-न्तथा-ऽरस-न्नित्यमगन्धवच्च यत्।
अनाद्यनन्त-म्महतः पर-न्ध्रुव-न्निचाय्य तन्मृत्युमुखा-त्प्रमुच्यते ॥15॥
नाचिकेतमुपाख्यान-म्मृत्युप्रोक्तं सनातनम्।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥16॥
य इम-म्परम-ङ्गुह्यं श्रावयेद् ब्रह्मसंसदि।
प्रयत-श्श्राद्धकाले वा तदानन्त्याय कल्पते।
तदानन्त्याय कल्पत इति ॥17॥

Explore More