Lord Krishna

गीतगोविन्दं पञ्चमः सर्गः - साकाङ्क्ष पुण्डरीकाक्षः

(Gitagovinda Fifth Canto: Sakanksha Pundarikaksha)

Jayadeva

This segment of the Gitagovinda, composed by the 12th-century poet Jayadeva, depicts the intense longing of Lord Krishna for Radha during the Viraha phase. As Krishna expresses his separation and remorse, a messenger Sakhi conveys his message to Radha. This lyrical masterpiece, characterized by its deep aesthetic beauty and Bhakti sentiment, serves as a bridge between human love and divine realization. Chanting or meditating upon these verses helps the devotee cultivate intense devotion and emotional surrender, assisting them in overcoming the worldly suffering caused by separation from the divine presence in the heart.

॥ पञ्चमः सर्गः ॥

॥ साकाङ्क्षपुण्डरीकाक्षः ॥
अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥
॥ गीतं 10 ॥
वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥ 1 ॥
दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥
ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥
रणति पिकसमवाये प्रतिदिशमनुयाति ।
हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥
स्फुरति कलरवरावे स्मरति मणितमेव।
तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥
त्वदभिधशुभदमासं वदति नरि शृणोति ।
तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥
भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥
पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ 32 ॥
॥ गीतं 11 ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥
नाम समेतं कृतसङ्केतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ 2 ॥
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ 3 ॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ 4 ॥
उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥
विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ 33 ॥
त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥
सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥
राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।
स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥ 36 + 1 ॥
॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥

Explore More