Lord Krishna

गीतगोविन्दं चतुर्थः सर्गः - स्निग्ध मधुसूदनः

(Gita Govinda Canto 4 - Snigdha Madhusudana)

Jayadeva

Composed by the 12th-century poet Jayadeva, the Gita Govinda is a masterpiece of Sanskrit lyrical poetry describing the divine love between Radha and Lord Krishna. The fourth canto, Snigdha Madhusudana, depicts the intense longing and emotional turmoil of Radha as she waits for her beloved. Through its exquisite verses, the text explores the philosophy of Madhura Bhakti, where individual longing transforms into union with the Divine. Chanting or meditating upon these verses is believed to evoke deep spiritual devotion, cleanse the heart of worldly attachments, and grant the practitioner a profound realization of unconditional divine grace.

॥ चतुर्थः सर्गः ॥

॥ स्निग्धमधुसूदनः ॥
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ 25 ॥
॥ गीतं 8 ॥
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥
वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ 4 ॥
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥
प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ 7 ॥
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥
आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥
॥ गीतं 9 ॥
स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥ 1 ॥
सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥ 2 ॥
श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ 3 ॥
दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ 4 ॥
नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ 5 ॥
त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ 6 ॥
हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ 7 ॥
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥
सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ 27 ॥
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ 28 ॥
कन्दर्पज्वरसञ्ज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति ।
किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥
॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥

Explore More