Lord Brahma

यज्ञोपवीत धारण

(Yagnopaveeta Dharana)

From Vedas

The Yagnopaveeta Dharana is a sacred Vedic ritual centered on the investiture of the holy thread, symbolizing the transition into a life of spiritual discipline and duty. Drawing its authority from the Vedas, the practice invokes the Gayatri Mantra to purify the seeker's mind and intellect. Through the chanting of mantras and the performance of Achamanam, the practitioner achieves inner and outer purity. This ritual serves as a foundational rite of passage, grounding the individual in dharma and establishing a direct, sanctified connection with the Divine, ultimately fostering moral clarity, spiritual growth, and dedication to Vedic wisdom.

"गायन्त-न्त्रायते इति गायत्री"
ओ-म्भूर्भुव॒स्सुवः॑ ॥
तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
1।
शरीर शुद्धि
श्लो॥ अपवित्रः पवित्रो वा सर्वावस्था᳚-ङ्गतो-ऽपिवा ।
य-स्स्मरे-त्पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥
2।
आचमनम्
ॐ आचम्य । ओ-ङ्केशवाय स्वाहा । ओ-न्नारायणाय स्वाहा । ओ-म्माधवाय स्वाहा । ओ-ङ्गोविन्दाय नमः । ॐ-विँष्णवे नमः । ओ-म्मधुसूदनाय नमः । ओ-न्त्रिविक्रमाय नमः । ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ओ-म्पद्मनाभाय नमः । ओ-न्दामोदराय नमः । ॐ सङ्कर्​षणाय नमः । ॐ-वाँसुदेवाय नमः । ओ-म्प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ओ-म्पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ओ-न्नारसिंहाय नमः । ॐ अच्युताय नमः । ओ-ञ्जनार्धनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीकृष्ण परब्रह्मणे नमो नमः ।
3। भूतोच्चाटन
उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः ।
ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ओ-म्भूर्भुवस्सुवः ।
4। प्राणायामम्
ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।
ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)
5। सङ्कल्पम्
ममोपात्त, दुरितक्षयद्वारा, श्री परमेश्वर प्रीत्यर्थम्, शुभे, शोभनेमुहूर्ते, महाविष्णोराज्ञया, प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्थे, श्वेतवराहकल्पे, वैवश्वतमन्वन्तरे, कलियुगे, प्रथमपादे, जम्भूद्वीपे, भरतवर्​षे, भरतखण्डे, अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन ------- सं​वँत्सरे ------ अयने ------- ऋतौ ------- मासे ------- पक्षे ------- तिधौ ------ वासरे -------- शुभनक्षत्रे (भारत देशः - जम्बू द्वीपे, भरत वर्​षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौञ्च द्वीपे, रमणक वर्​षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये) शुभयोगे शुभकरण एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ श्रीमान् -------- गोत्रस्य ------- नामधेयस्य (विवाहितानाम् - धर्मपत्नी समेतस्य) श्रीमतः गोत्रस्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थ-म्मम सकल श्रौतस्मार्त नित्यकर्मानुष्ठान योग्यताफलसिध्यर्थ-न्नूतन यज्ञोपवीतधारण-ङ्करिष्ये ।
6। यज्ञोपवीत धारण
यज्ञोपवीत प्राण प्रतिष्ठापन-ङ्करिष्ये।
श्लो॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चर-न्तमनुमते मृडया न-स्स्स्वस्ति ॥ ऋ.वे. - 10.59.6
अमृतं-वैँ प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।
7। यज्ञोपवीत मन्त्रम्
श्लो॥ यज्ञोपवीते तस्य मन्त्रस्य परमेष्टि परब्रह्मर्​षिः ।
परमात्म देवता, देवी गायत्रीच्छन्दः ।
यज्ञोपवीत धारणे विनियोगः ॥
8। यज्ञोपवीत धारण मन्त्रम्
श्लो॥ यज्ञोपवीत-म्परम-म्पवित्र-म्प्रजापतेर्यत्सहज-म्पुरस्तात् ।
आयुष्यमग्र्य-म्प्रतिमुञ्च शुभ्रं-यँज्ञोपवीत-म्बलमस्तु तेजः ॥
9। जीर्ण यज्ञोपवीत विसर्जन
श्लो॥ उपवीत-ञ्छिन्नतन्तु-ञ्जीर्ण-ङ्कश्मलदूषितं
विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥
ॐ शान्ति शान्ति शान्तिः
चतुस्सागर पर्यन्त-ङ्गो ब्राह्मणेभ्य-श्शुभ-म्भवतु ।
---------- प्रवरान्वित --------- गोत्रोत्पन्न --------- शर्म --------- अह-म्भो अभिवादये ।
समर्पण
यस्य स्मृत्या च नामोक्त्या तपस्सन्ध्या क्रियादिषु
न्यूनं
सम्पूर्णतां-याँति सद्यो वन्दे तमच्युतम् । मन्त्रहीन-ङ्क्रियाहीन-म्भक्तिहीनं रमापते यत्कृत-न्तु मया देव परिपूर्ण-न्तदस्तु मे ॥ अनेन यज्ञोपवीत धारणेन, श्री लक्ष्मीनारायण प्रेरणाय, श्री लक्ष्मीनारायण प्रीयन्तां-वँरदो भवतु । श्री कृष्णार्पणमस्तु ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्या‌உत्मना वा प्रकृते स्स्वभावात् । करोमि यद्यत्सकल-म्परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

Explore More