मेधासूक्तम्
ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृताथ्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय । ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना ।
त्वया जुष्टा नुदमाना दुरुक्तान् बृहद्वदेम विदथे सुवीराः ।
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया ।
त्वया जुष्टश्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे ॥

मेधां म इन्द्रो ददातु मेधां देवी सरस्वती ।
मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा ।
अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः ।
दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषताꣳ स्वाहा ॥

आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ।
ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ताम् ।
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु
मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु
मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ।

ॐ महादेव्यै च विद्महे ब्रह्मपत्नी च धीमहि । तन्नो वाणी प्रचोदयात् ।
ॐ हंस हंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् ।

ॐ शान्तिः शान्तिः शान्तिः ॥