Goddess Saraswati

श्रीसरस्वती कवचम्

(Saraswati Kavacham)

From Rudrayamala Tantra

The Saraswati Kavacham, appearing in the Rudrayamala Tantra, is a potent protective armor dedicated to Goddess Saraswati, the embodiment of wisdom, speech, and the arts. Within the text, Lord Bhairava imparts this sacred stotra to Goddess Devi, characterizing it as a rare and efficacious hymn capable of bestowing immediate eloquence and profound intellectual attainment upon the practitioner. Devotees recite this Kavacham to remove obstacles in learning, sharpen memory, and invoke divine grace for success in academic and creative endeavors. It serves as both a meditative tool for cognitive clarity and a protective shield for those seeking mastery over language and knowledge.

श्रीसरस्वती कवचम्

भैरव उवाच-
श्रृणु देवि! प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
अतुल्यं वाक्प्रदं सद्यः कवचं देवदुर्लभम् ॥ १॥
यं धृत्वा वाक्पतिर्ब्रह्मा त्रैलोक्यं चामृतं पिबेत् ।
यमश्चापि धनेशश्च वरुणो यक्षराट् तथा ॥ २॥
त्रैलोक्यमोहनं नाम कवचं मन्त्रविग्रहम् ।
यस्य प्रसादात् कामेशः त्रैलोक्यं मोहयेत् क्षणात् ॥ ३॥
यमोऽपि वरुणश्चैव कुबेरोऽपि दिगीश्वराः ॥ ४॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः ।
शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ ५॥
दिगीश्वराश्च दिक्पाला यथावदनुभूतये ।
त्रैलोक्यमोहनं वक्ष्ये भोगमोक्षैकसाधनम् ॥ ६॥
सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् ।
त्रैलोक्यमोहनस्यास्य कवचस्य प्रकीर्तितः ॥ ७॥

विनियोगः

ऋषिः कण्वो विराट् छन्दो देवी सरस्वती शुभा ।
अस्य श्रीसरस्वती देवता, ह्रीं बीजं, ॐ शक्तिः, ऐं कीलकं,
त्रिवर्गफलसाधने विनियोगः ।

ऋष्यादिन्यासः

कण्वऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे ।
देवीसरस्वत्यै नमः हृदि । ह्रीं बीजाय नमः गुह्ये ।
ॐ शक्तये नमः नाभौ । ऐं कीलकाय नमः पादयोः ।
त्रिवर्गफलसाधने विनियोगाय नमः सर्वाङ्गे॥

कवचम्

ॐ ऐं ह्रीं ह्रीं पातु वाणी शिरो मे सर्वदा सती ।
ॐ ह्रीं सरस्वती देवी भालं पातु सदा मम ॥ ८॥
ॐ ह्रीं भ्रुवौ पातु दुर्गा दैत्यानां भयदायिनी ।
ॐ ऐं ह्रीं पातु नेत्रे सर्वमङ्गलमङ्गला ॥ ९॥
ॐ ह्रीं पातु श्रोत्रयुग्मं जगदभयकारिणी ।
ॐ ऐं नासा पातु नित्यं विद्या विद्यावरप्रदा ॥ १०॥
ॐ ह्रीं ऐं पातु वक्त्रं वाग्देवी भयनाशिनी ।
अं आं इं ईं पातु दन्तान् त्रिदन्तेश्वर पूजिताः ॥ ११॥
उं ऊं ऋं ॠं ऌं ॡं एं ऐं पातु ओष्ठौ च भारती ।
ओं औं अं अः पातु कण्ठं नीलकण्ठाङ्कवासिनी ॥ १२॥
कं खं गं घं ङं पायान्मे चांसौ देवेशपूजिता ।
चं छं जं झं ञं मे पातु वक्षो वक्षःस्थलाश्रया ॥ १३॥
टं ठं डं ढं णं पायान्मे पार्श्वौ पार्श्वनिवासिनी ।
तं थं दं धं नं मे पातु मध्ये लोकेशपूजिता ॥ १४॥
पं फं बं भं मं पायान्मे नाभिं ब्रह्मेशसेविता ।
यं रं लं वं पातु गुह्य नितम्बप्रियवादिनी ॥ १५॥
शं षं सं हं कटिं पातु देवी श्रीवगलामुखी ।
ऊरू ळं क्षं सदा पातु सर्वाविद्याप्रदा शिवा ॥ १६॥
सरस्वती पातु जङ्घे रमेश्वरप्रपूजिता ।
ॐ ह्रीं ऐं ह्रीं पातु पादौ पादपीठनिवासिनी ॥ १७॥
विस्मारितं च यत् स्थानं यद्देशो नाम वर्जितः ।
तत्सर्वं पातु वागेशी मूलविद्यामयी परा ॥ १८॥
पूर्वे मां पातु वाग्देवी वागेशी वह्निके च माम् ।
सरस्वती दक्षिणे च नैरृत्ये चानलप्रिया ॥ १९॥
पश्चिमे पातु वागीशा वायौ वेणामुखी तथा ।
उत्तरे पातु विद्या चैशान्यां विद्याधरी तथा ॥ २०॥
असिताङ्गो जलात् पातु पयसो रुरुभैरवः ।
चण्डश्च पातु वातान्मे क्रोधेशः पातु धावतः ॥ २१॥
उन्मत्तस्तिष्ठतः पातु भीषणश्चाग्रतोऽवतु ।
कपाली मार्गमध्ये च संहारश्च प्रवेशतः ॥ २२॥
पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु ।
शिरसः पादपर्यन्तं देवी सरस्वती मम ॥ २३॥

फलश्रुतिः

इतीदं कवचं वाणी मन्त्रगर्भं जयावहम् ।
त्रैलोक्यमोहनं नाम दारिद्र्यभयनाशनम् ॥ २४॥
सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनम् ।
विद्याप्रदं साधकानां मूलविद्यामयं परम् ॥ २५॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
यः पठेत् कवचं देवि! विवादे शत्रुसङ्कटे ॥ २६॥
वादिमुखं स्तम्भयित्वा विजयी गृहमेष्यति ।
पठनात् कवचस्यास्य राज्यकोपः प्रशाम्यति ॥ २७॥
त्रिवारं यः पठेद् रात्रो श्मशाने सिद्धिमाप्नुयात् ।
रसैर्भूजे लिखेद् वर्म रविवारे महेश्वरि! ॥ २८॥
अष्टगन्धेर्लाक्षया च धूपदीपादितर्पणैः ।
सुवर्णगुटिकां तत्स्थां पूजयेत् यन्त्रराजवत् ॥ २९॥
गुटिकैषा महारूपा शुभा सरस्वतीप्रदा ।
सर्वार्थसाधनी लोके यथाऽभीष्टफलप्रदा ॥ ३0॥
गुटिकेयं शुभा देव्या न देया यस्य कस्यचित् ।
इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ॥ ३१॥
विद्याप्रदं श्रीपदं च पुत्रपौत्रविवर्धनम् ।
आयुष्यकरं पुष्टिकरं श्रीकरं च यशः प्रदम् ॥ ३२॥
इतीदं कवचं देवि! त्रैलोक्यमोहनाभिधम ।
कवचं मन्त्रगर्भं तु त्रैलोक्य मोहनाभिधम् ॥ ३३॥
॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये सरस्वती कवचम् ॥

Also Chanted For

Peace & ProtectionKnowledge & Wisdom

Explore More