Lord Kartikeya

श्रीसुब्रह्मण्यसहस्रनाम स्तोत्रम्

(Subrahmanya Sahasranama Stotram)

Traditional (Skanda Purana)

The thousand names of Lord Subrahmanya.

श्रीसुब्रह्मण्यसहस्रनामस्तोत्रम्
ऋषय ऊचुः -
सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ १ ॥
ज्ञानदानेन संसारसागरात्तारयस्व नः ।
कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ २ ॥
केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः ।
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥ ३ ॥
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।
श्रीसूत उवाच-
शृणुध्वम् ऋषयः सर्वे नैमिषारण्यवासिनः ॥ ४ ॥
तत्त्वज्ञानतपनिष्ठाः सर्वशास्त्रविशारदाः ।
स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ॥ ५ ॥
तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।
ऋषय ऊचुः -
किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥ ६ ॥
सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।
श्रीसूत उवाच-
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥ ७ ॥
साष्टाङ्गप्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृताञ्जिलरुपस्थितः ॥ ८ ॥
नारद उवाच-
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥ ९ ॥
धातस्त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे ।
उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे ॥ १० ॥
ब्रह्मोवाच -
शृणु वक्ष्यामि देवर्षे स्तवराजमिमं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ ११ ॥
सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि दिव्यानि दुःखरोगहराणि च ॥ १२ ॥
तानि नामानि वक्ष्यामि कृपया त्वयि नारद ।
जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि ॥ १३ ॥
इहामुत्र परं भोगं लभते नात्र संशयः ।
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥ १४ ॥
अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
ब्रह्मा ऋषिः ।
अनुष्टुप्छन्दः ।
सुब्रह्मण्यो देवता ।
शरजन्माक्षय इति बीजम् ।
शक्तिधरोऽक्षय इति शक्तिः ।
कार्तिकेय इति कीलकम् ।
क्रौञ्चभेदीत्यर्गलम् ।
शिखिवाहन इति कवचम् ।
षण्मुख इति ध्यानम् ।
श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदाय हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः ।
ॐ रं षड्कोणमध्यनिलयाय षड्कीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्नेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनय षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः ।
ॐ पं कृशानुसम्भवाय कवचिने कुकुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्यय अनामिकाभ्यां नमः ।
ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषद्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिहिताय कनिष्ठिकाभ्यां नमः ।
ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः -
ॐ शं ओंकारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः ।
ॐ रं षड्कोणमध्यनिलयाय षड्कीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्नेत्राय अभयवरदहस्ताय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय शिखायै वषट् ।
ॐ णं कृशानusम्भवाय कवचिने कुकुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्यय कवचाय हुम् ।
ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विष्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिहिताय नेत्रत्रयाय वौषट् ।
ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥
ॐ भूर्भुवस्सुवरों इति दिग्बन्धः ॥
ध्यानं -
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषड्कीटविलसत्केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं शत्रङ्गारसारोदयम् ॥
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥
पञ्चपूजा -
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अध्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
॥ अथ सुब्रह्मण्यसहस्रनामस्तोत्रम् ॥
ॐ अचिन्त्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः ।
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥ १ ॥
अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः ।
अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः ॥ २ ॥
अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।
अकल्पषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥ ३ ॥
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ।
अरिन्दमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥ ४ ॥
अचञ्चलोऽमरस्तुत्यो ह्यकलङ्कोऽमिताशनः ।
अभिभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ॥ ५ ॥
अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ।
आपद्दिनाशकस्त्वार्य आद्य आगमसंस्तुतः ॥ ६ ॥
आर्तसंरक्षणत्वाद्य आनन्दस्त्वार्यसेवितः ।
आश्रितेष्टार्थवरद आनन्द्यार्तफलप्रदः ॥ ७ ॥
आश्चर्यरूप आनन्द आपन्नार्तिविनाशनः ।
इभवक्रानुजस्त्वष्ट इभासुरहरात्मजः ॥ ८ ॥
इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः ।
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥ ९ ॥
इहामुत्रेष्टफलद इष्टदस्त्वन्द्रवन्दितः ।
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥ १० ॥
ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ।
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥ ११ ॥
उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।
उज्जृम्भ उद्धवश्रोय उदयश्चोग्रलोचनः ॥ १२ ॥
उन्मत्त उग्रशमन उद्वेगघ्नोऽगेश्वरः ।
उरप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥ १३ ॥
ऊर्ध्वरेताः सुतस्तूर्ध्वगतिदस्तूर्जपालकः ।
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥ १४ ॥
ऊर्जिवाानूर्जितोदार ऊर्जितोर्जितशासनः ।
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥ १५ ॥
ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः ।
ऋतम्भरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥ १६ ॥
लुलितोद्धारको लूतभवपाशप्रभञ्जनः ।
एणाङ्कधरसत्पुत्र एक एनोविनाशनः ॥ १७ ॥
ऐश्वर्यदश्चेन्द्रभोगी चैतिह्यश्चेन्द्रवन्दितः ।
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ १८ ॥
औदार्यशील औमेय औग्र औन्नतदायकः ।
औदार्य औषधकर औषधं चौषधाकरः ॥ १९ ॥
अंशुमाल्यंशुमालीड्य अम्बिकातनयोऽङ्गदः ।
अन्यकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः ॥ २० ॥
अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ।
अस्तमित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥ २१ ॥
कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ।
कामदः कारणं काम्यः कमनीयः कृपाकरः ॥ २२ ॥
काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः ।
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेषणः ॥ २३ ॥
कुङ्कुमाङ्गः क्रमहरः कुशलः कुक्कुटध्वजः ।
कुशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहत् ॥ २४ ॥
कामरूपः कल्पतरुः कान्तः कामितदायकः ।
कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥ २५ ॥
कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती ।
कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥ २६ ॥
ख्यातः खेटधरः खड्गी खड्गाङ्गी खलनिग्रहः ।
ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥ २७ ॥
खरतापहरः स्वस्थः खेचरः खेचराश्रयः ।
खण्डेन्दुमौलितनयः खेलः खेचरपालकः ॥ २८ ॥
खस्थलः खण्डितार्कश्च खेचरीजनपूजितः ।
गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ २९ ॥
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।
गतिप्रदो गुणनिधिः गम्भीरो गिरिजात्मजः ॥ ३० ॥
गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ।
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥ ३१ ॥
गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणाश्रयः ।
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥ ३२ ॥
गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ।
घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥ ३३ ॥
घण्टानादप्रियो घोषो घोराघौघविनाशनः ।
घनान्नन्दो धर्महन्ता घृणावान् घृष्टिपातकः ॥ ३४ ॥
घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः ।
घटितैश्वर्यसन्देहो घनार्थो घनसङ्गमः ॥ ३५ ॥
चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः ।
चिन्मयश्चित्स्वरूपश्च चिरानन्दश्चिरन्तनः ॥ ३६ ॥
चित्रकेलिश्चित्रतरश्चिन्तनीयश्चमत्कृतिः ।
चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥ ३७ ॥
चन्द्रार्ककोटिसदृशश्चन्द्रमौलितनूभवः ।
छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ॥ ३८ ॥
छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः ।
छादिताशेषसन्तापश्चरितामृतसागरः ॥ ३९ ॥
छन्नत्रैगुण्यरूपश्च छातेहरिछन्नसंशयः ।
छन्दोमयश्छन्दगामी छिन्नपाशश्छविश्छदः ॥ ४० ॥
जगद्धितो जगत्पूज्यो जगज्येष्ठो जगन्मयः ।
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ ४१ ॥
जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः ।
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ ४२ ॥
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्रियः ।
जम्भारिवन्द्यो जयदो जगन्मनोहरः ॥ ४३ ॥
जगदानन्दजनको जनजाड्यापहारकः ।
जपाकुसुमसंकाशो जनलोचनशोभनः ॥ ४४ ॥
जनेश्वरौ जितक्रोधो जनजन्मनिबर्हणः ।
जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः ॥ ४५ ॥
जितमायो जितक्रोधो जितसङ्गो जनप्रियः ।
झङ्झानिलमहावेगो झरिताशेषपातकः ॥ ४६ ॥
झङ्झरीकृतदैत्यौघो झल्लरीवाद्यसम्प्रियः ।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ४७ ॥
टङ्कारनृत्तविभवः टङ्कवज्रध्वजाङ्कितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ४८ ॥
डम्वरप्रभवो डम्भो डम्बो डमरुकप्रियः ।
डमरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥ ४९ ॥
ढकानादप्रीतिकरो ढालितासुरसङ्कुलः ।
ढौकितामरसन्दोहो ढुण्डिविघ्नेश्वरानुजः ॥ ५० ॥
तत्वज्ञस्तत्वगस्तीव्रस्तपोस्तपोमयः ।
त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ५१ ॥
त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ।
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोस्तपस्त्रिकालवित् ॥ ५२ ॥
स्तोता स्तव्यः स्तवप्रीत: स्तुतिः स्तोत्रं स्तुतिप्रियः ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ५३ ॥
स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ।
दान्तो दयापरो दाता दुरितघ्नो दुरासदः ॥ ५४ ॥
दर्शनीयो दयासारो देवदेवो दयानिधिः ।
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥ ५५ ॥
दुर्धरो दानशीलश्च द्वादशाक्षो द्विषद्भुजः ।
द्विषद्घ्नो द्विषद्बाहुर्दिनसन्तापनाशनः ॥ ५६ ॥
दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दम् ।
दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥ ५७ ॥
दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ।
दुर्लभो दुर्गमो दीक्षो दुष्येक्ष्यो दिव्यमण्डनः ॥ ५८ ॥
दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशाम्पतिः ।
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥ ५९ ॥
दम्भो दप्तश्च देवर्षिर्देवज्ञो दैवचिन्तकः ।
धुरन्धरो धर्मपरो धनदो धृतिवर्धनः ॥ ६० ॥
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ।
धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः ॥ ६१ ॥
धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद् ध्रुवः ।
धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः ॥ ६२ ॥
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।
निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥ ६३ ॥
निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।
नित्यानन्दो निरात्तङ्को निष्प्रपञ्चो निरामयः ॥ ६४ ॥
निरवद्यो निरीहश्च निर्दशो निर्मलात्मकः ।
नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः ॥ ६५ ॥
निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्धवः ।
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ ६६ ॥
नेता निधिर्नैकरूपो निराकारो नदीसुतः ।
पुलिन्दकन्यारमणः पुरुजितपरमप्रियः ॥ ६७॥
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ।
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥ ६८॥
पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः ।
परानन्दः परतरः पुण्यकीर्तिः पुरातनः ॥ ६९॥
प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ।
प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः ॥ ७०॥
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ।
प्रसन्नः परमस्पष्टः परः परिवृढः परः ॥ ७१॥
परमात्मा परब्रह्म परार्थः प्रियदर्शनः ।
पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥ ७२॥
पापहारी पाशधरः प्रमत्तासुरशिक्षकः ।
पावनः पावकः पूज्यः पूर्णानन्दः परात्परः ॥ ७३॥
पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ।
प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥ ७४॥
परब्रह्मस्वरूपश्च परमेश्वर्यकारणम् ।
परर्द्धिः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥ ७५॥
प्रज्ञापरः प्रकृतार्थः पृथुः पृथुपराक्रमः ।
फणीश्वरः फणिवरः फणामणिविभूषणः ॥ ७६॥
फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।
फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ ७७॥
बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली ।
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥ ७८॥
बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः ।
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ७९॥
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।
बृहद्दानुतनुद्भूतो बृहत्सेनो बिलेशयः ॥ ८०॥
बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः ।
बिलद्वारान्तरास्थो बृहच्छक्तिधनुर्धरः ॥ ८१ ॥
बालार्कद्युतिमान् बालो बृहद्रक्षा बृहद्धनुः ।
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ ८२ ॥
भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।
भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥ ८३ ॥
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।
भूतिदो भूतिकृद्भर्ता भूतात्मा भुवनेश्वरः ॥ ८४ ॥
भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः ।
भवतापप्रशमनो भोगवान् भूतभावनः ॥ ८५ ॥
भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ।
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ ८६ ॥
महासेनो महोदारो महाशक्तिर्महाद्युतिः ।
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥ ८७ ॥
महाभोगी महामायी मेधावी मेखली महान् ।
मुनिस्तुतो महामान्यो महानन्दो महायशाः ॥ ८८ ॥
महोजर्जितो माननिधिर्मनोरथफलप्रदः ।
महोदयो महापुण्यो महाबलपराक्रमः ॥ ८९ ॥
मानदो मतिदो माली मुक्तामालाविभूषणः ।
मनोहरो महामुख्यौ महर्द्धिमूर्तिमान्मुनिः ॥ ९० ॥
महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ।
मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥ ९१ ॥
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ।
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥ ९२ ॥
यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ।
यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः ॥ ९३ ॥
यातनाहितो योगी योगीशो योगिनां वरः ।
रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥ ९४ ॥
रञ्जनो रञ्जितो रागी रुचिरो रुद्रसम्भवः ।
रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ ९५ ॥
रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।
रत्नाङ्गधरो रत्नभूषणो रमणीयकः ॥ ९६ ॥
रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ ९७ ॥
राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः ।
रजनीशकलारम्यो रत्नकुण्डलमाण्डितः ॥ ९८ ॥
रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः ।
लोकैकनाथो लोकेशो ललितो लोकनायकः ॥ ९९ ॥
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ।
लोकबन्धुर्लोकधाता लोकत्रयमहाहितः ॥ १०० ॥
लोकचूडामणिलोकवन्द्यो लावण्यविग्रहः ।
लोकाध्यक्षस्तु लीलावान्ल्लोकोत्तरगुणान्वितः ॥ १०१ ॥
वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः ।
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ १०२ ॥
विपाशो विगततङ्को विचित्राङ्गो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १०३ ॥
वचस्करो व्यापकश्च विज्ञानी विनयान्वितः ।
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ १०४ ॥
वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ १०५ ॥
वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ १०६ ॥
वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः ।
विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥ १०७ ॥
वीरचूडामणिर्वीरो विगेशो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ १०८ ॥
वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ १०९ ॥
शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।
श्रीमान्दिष्टः शुचिः शुद्धः शाश्वतो श्रुतिसागरः ॥ ११० ॥
शरण्यः शुभदः शर्म शिष्टः शुभलक्षणः ।
शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥ १११ ॥
शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः ।
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥ ११२ ॥
षड्कस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ।
षड्ावरहितः षड्कः षडास्त्रस्मृतिपारगः ॥ ११३ ॥
षडर्गदाता षड्जीवः षडरिन्नः षडाश्रयः ।
षड्गिरीटधरः श्रीमान् षडाधारश्च षड्गमः ॥ ११४ ॥
षड्कोणमध्यनिलयः षण्डत्वपरिहारकः ।
सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः ॥ ११५ ॥
सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ।
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥ ११६ ॥
सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ।
सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥ ११७ ॥
सुधापतिः स्वयंज्योतिः स्वयम्भूः सर्वतोमुखः ।
समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ११८ ॥
सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ।
सम्भाव्यः सुमनाः सेव्यः सकलागमपारगः ॥ ११९ ॥
सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ।
सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः ॥ १२० ॥
सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः ।
सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥ १२१ ॥
सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ।
सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥ १२२ ॥
सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः ।
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥ १२३ ॥
हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।
हस्तचित्रायुधधरो हताघो हसिताननः ॥ १२४ ॥
हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।
हेमाद्रिभिद्धंसरूपो हुङ्कारहतकिल्बिषः ॥ १२५ ॥
हिमाद्रिजातानुजो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १२६ ॥
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो हरोद्भवः ॥ १२७ ॥
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ।
क्षेत्रपालः क्षमाधारः क्षमक्षेत्रः क्षमाकरः ॥ १२८ ॥
क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूः क्षमाश्रयः ।
क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥ १२९ ॥
क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकः ।
क्षितिभृन्नाथतनयामुखपङ्कजभास्करः ॥ १३० ॥
क्षताहितः क्षरः क्षन्ता क्षतदोषः क्षमानिधिः ।
क्षपिताखिलसन्तापः क्षपानाथसमाननः ॥ १३१ ॥
फलश्रुति -
इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १ ॥
स सद्यो मुच्यते पापैर्मनोवाकायसम्भवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ २ ॥
वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ ३ ॥
॥ इति श्रीस्कान्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे
षण्मुखसहस्रनामस्तोत्रं सम्पूर्णम् ॥
शङ्करसंहितायां शिवरहस्यखण्डे श्रीसुब्रह्मण्यमातृकामलिकासहस्रनामस्तोत्रं

Explore More