Lord Subrahmanya / Murugan / Kartikeya

श्रीकार्तिकेय प्रज्ञाविवर्धन स्तोत्रम्

(Karthikeya Pragya Vivardhana Stotram)

Lord Skanda / Traditional

Karthikeya Pragya Vivardhana Stotram is a powerful hymn containing twenty-eight names of Lord Kartikeya. Reciting it is said to profoundly increase one's intelligence (pragya), wisdom, and eloquence.

प्रज्ञाविवर्धनम् कार्तिकेयस्तोत्रम्

श्रीगणेशाय नमः ।
स्कन्द उवाच
योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।
स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥ १॥
गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥ २॥
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥ ३॥
शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।
सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः ॥ ४॥
अष्टाविंशतिनामानि मदीयानीतियः पठेत् ।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥ ५॥
महामन्त्रमयानीति मम नामानुकीर्तनम् ।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ ६॥
॥ इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं
श्रीमत्कार्तिकेयस्तोत्रं सम्पूर्णम् ॥

Also Chanted For

Knowledge & Wisdom

Explore More