Lord Subrahmanya / Murugan

श्रीसुब्रह्मण्यषोडशनाम स्तोत्रम्

(Shri Subrahmanya Shodashanama Stotram)

Traditional

Shri Subrahmanya Shodashanama Stotram is a sacred hymn that recites the sixteen holy names of Lord Subrahmanya (Kartikeya). Chanting these names with devotion is believed to grant all desires, confer spiritual wisdom, and bring success, health, and prosperity.

श्रीसुब्रह्मण्यषोडशनामस्तोत्रम्

ध्यानम् -
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा ।
अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशम् ॥
ॐ प्रथमोज्ञानशक्त्यात्मा द्वितीयो स्कन्द एव च ।
अग्निगर्भस्तृतीयस्तु बाहुलेयश्चतुर्थकः ॥ १॥
गाङ्गेयः पञ्चमः प्रोक्तः षष्ठः शरवणोद्भवः । (पञ्चमोविद्यात्)
सप्तमः कार्तिकेयश्च कुमारश्चाष्टमस्तथा ॥ २॥ (कुमारस्यादथाष्टकः)
नवमः षण्मुखः प्रोक्तो दशमस्तारकान्तकः । (षण्मुखश्चैव दशमःकुक्कुटद्वजः)
एकादशश्च सेनानीः गुहो द्वादश एव च ॥ ३॥ (एकादशःशक्तिधरो)
त्रयोदशो ब्रह्मचारी शिवतेजाश्चतुर्दशः । (षाण्मातुर चतुर्दशः)
क्रौञ्चदारी पञ्चदशः षोडशः शिखिवाहनः ॥ ४॥ (क्रौञ्चभित् पञ्चदशकः)
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
बृहस्पतिसमो वाचि ब्रह्मतेजियुतो भवेत् ।
यद्यत्प्रार्थयते मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५॥
(alternative phalashrutiH
एतत् षोडशनामानि जपेत् सम्यक्सदादरम् ।
विवाहेदुर्गमे मार्गे दुर्जये च तथैवच ॥
कवित्वेच महाशस्त्रे विज्ञानार्थीफलंलभेत् ।
कन्यार्थी लभतेकन्या जयार्थी लभते जयम् ॥
पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनम् ।
आयुरारोग्य वश्यश्च धनधान्य सुखावहम् ॥
॥ इति श्री शङ्करसंहितायां शिवरहस्यखण्डे
श्री सुब्रह्मण्यषोडशनामस्तोत्रम् ॥)

Explore More