Goddess Lalita

श्रीललिता अष्टोत्तर शतनामावली

(Lalita Ashtottara Shatanama Stotram)

Traditional

Sri Lalitha Ashtottara Satanamavali is a sacred Sanskrit text comprising 108 names of Goddess Lalita Tripurasundari. Each name, beginning with 'Om' and ending with 'Namah', encapsulates a distinct attribute, cosmic power, or aspect of the goddess. Regular recitation of these 108 names is believed to bestow the blessings of Goddess Lalita, granting prosperity, wisdom, and spiritual liberation.

श्री ललिताष्टोत्तरशतनामावली
ओं ऐं ह्रीं श्रीम् ।
रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः ।
हिमाचलमहावंशपावनायै नमो नमः ।
शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः ।
लसन्मरकतस्वच्छविग्रहायै नमो नमः ।
महातिशयसौन्दर्यलावण्यायै नमो नमः ।
शशाङ्कशेखरप्राणवल्लभायै नमो नमः ।
सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः ।
वज्रमाणिक्यकटककिरीटायै नमो नमः ।
कस्तूरीतिलकोल्लासिनिटिलायै नमो नमः । 9
भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ।
विकचाम्भोरुहदललोचनायै नमो नमः ।
शरच्चाम्पेयपुष्पाभनासिकायै नमो नमः ।
लसत्काञ्चनताटङ्कयुगलायै नमो नमः ।
मणिदर्पणसङ्काशकपोलायै नमो नमः ।
ताम्बूलपूरितस्मेरवदनायै नमो नमः ।
सुपक्वदाडिमीबीजरदनायै नमो नमः ।
कम्बुपूगसमच्छायकन्धरायै नमो नमः ।
स्थूलमुक्ताफलोदारसुहारायै नमो नमः । 18
गिरीशबद्धमाङ्गल्यमङ्गलायै नमो नमः ।
पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः ।
पद्मकैरवमन्दारसुमालिन्यै नमो नमः ।
सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः ।
रमणीयचतुर्बाहुसंयुक्तायै नमो नमः ।
कनकाङ्गदकेयूरभूषितायै नमो नमः ।
बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः ।
बृहन्नितम्बविलसज्जघनायै नमो नमः ।
सौभाग्यजातशृङ्गारमध्यमायै नमो नमः । 27
दिव्यभूषणसन्दोहरञ्जितायै नमो नमः ।
पारिजातगुणाधिक्यपदाब्जायै नमो नमः ।
सुपद्मरागसङ्काशचरणायै नमो नमः ।
कामकोटिमहापद्मपीठस्थायै नमो नमः ।
श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः ।
सचामररमावाणीवीजितायै नमो नमः ।
भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ।
भूतेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमो नमः ।
अनङ्गजनकापाङ्गवीक्षणायै नमो नमः । 36
ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः ।
शचीमुख्यामरवधूसेवितायै नमो नमः ।
लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः ।
अमृतादिमहाशक्तिसंवृतायै नमो नमः ।
एकातपत्रसाम्राज्यदायिकायै नमो नमः ।
सनकादिसमाराध्यपादुकायै नमो नमः ।
देवर्षिभिःस्तूयमानवैभवायै नमो नमः ।
कलशोद्भवदुर्वासःपूजितायै नमो नमः ।
मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः । 45
चक्रराजमहायन्त्रमध्यवर्त्यै नमो नमः ।
चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः ।
शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः ।
मत्तहंसवधूमन्दगमनायै नमो नमः ।
वन्दारुजनसन्दोहवन्दितायै नमो नमः ।
अन्तर्मुखजनानन्दफलदायै नमो नमः ।
पतिव्रताङ्गनाभीष्टफलदायै नमो नमः ।
अव्याजकरुणापूरपूरितायै नमो नमः ।
नितान्तसच्चिदानन्दसंयुक्तायै नमो नमः । 54
सहस्रसूर्यसंयुक्तप्रकाशायै नमो नमः ।
रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः ।
हानिवृद्धिगुणाधिक्यरहितायै नमो नमः ।
महापद्माटवीमध्यनिवासायै नमो नमः ।
जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः ।
महापापौघपापानां विनाशिन्यै नमो नमः ।
दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः ।
समस्तदेवदनुजप्रेरकायै नमो नमः ।
समस्तहृदयाम्भोजनिलयायै नमो नमः । 63
अनाहतमहापद्ममन्दिरायै नमो नमः ।
सहस्रारसरोजातवासितायै नमो नमः ।
पुनरावृत्तिरहितपुरस्थायै नमो नमः ।
वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः ।
रमाभूमिसुताराध्यपदाब्जायै नमो नमः ।
लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः ।
सहस्ररतिसौन्दर्यशरीरायै नमो नमः ।
भावनामात्रसन्तुष्टहृदयायै नमो नमः ।
सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः । 72
श्रीलोचनकृतोल्लासफलदायै नमो नमः ।
श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः ।
दक्षाध्वरविनिर्भेदसाधनायै नमो नमः ।
श्रीनाथसोदरीभूतशोभितायै नमो नमः ।
चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः ।
सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः ।
नामपारायणाभीष्टफलदायै नमो नमः ।
सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः ।
श्रीषोडशाक्षरीमन्त्रमध्यगायै नमो नमः । 81
अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नमः ।
भक्तहंसपरीमुख्यवियोगायै नमो नमः ।
मातृमण्डलसंयुक्तललितायै नमो नमः ।
भण्डदैत्यमहासत्त्वनाशनायै नमो नमः ।
क्रूरभण्डशिरश्छेदनिपुणायै नमो नमः ।
धात्र्यच्युतसुराधीशसुखदायै नमो नमः ।
चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः ।
रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः ।
महिषासुरदोर्वीर्यनिग्रहायै नमो नमः । 90
अभ्रकेशमहोत्साहकारणायै नमो नमः ।
महेशयुक्तनटनतत्परायै नमो नमः ।
निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः ।
वृषभध्वजविज्ञानभावनायै नमो नमः ।
जन्ममृत्युजरारोगभञ्जनायै नमो नमः ।
विधेयमुक्तविज्ञानसिद्धिदायै नमो नमः ।
कामक्रोधादिषड्वर्गनाशनायै नमो नमः ।
राजराजार्चितपदसरोजायै नमो नमः ।
सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः । 99
श्रीवीरभक्तविज्ञाननिधानायै नमो नमः ।
अशेषदुष्टदनुजसूदनायै नमो नमः ।
साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः ।
हयमेधाग्रसम्पूज्यमहिमायै नमो नमः ।
दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः ।
सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः ।
नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः ।
महादेवसमायुक्तशरीरायै नमो नमः ।
महादेवरतौत्सुक्यमहादेव्यै नमो नमः । 108
इति श्रीललिताष्टोत्तरशतनामावली ।

Explore More