The Self (Atman)

उपदेश सारं (रमण महर्षि)

(Upadesa Saram)

Ramana Maharshi

Upadesa Saram, or The Essence of Instruction, is a profound philosophical poem composed by the sage Ramana Maharshi. Originally written in Tamil and later translated by the sage himself into Sanskrit, it distills the essence of Advaita Vedanta. The text guides the seeker through the paths of Karma, Bhakti, Yoga, and Jnana, ultimately concluding that surrender of the ego to the heart-self is the swiftest path to liberation. Chanting or contemplating these thirty verses helps quiet the mind, dissolve the sense of individuality, and brings the practitioner closer to the realization of their true, eternal nature.

कर्तुराज्ञया प्राप्यते फलम् ।
कर्म किं परं कर्म तज्जडम् ॥ 1 ॥
कृतिमहोदधौ पतनकारणम् ।
फलमशाश्वतं गतिनिरोधकम् ॥ 2 ॥
ईश्वरार्पितं नेच्छया कृतम् ।
चित्तशोधकं मुक्तिसाधकम् ॥ 3 ॥
कायवाङ्मनः कार्यमुत्तमम् ।
पूजनं जपश्चिन्तनं क्रमात् ॥ 4 ॥
जगत ईशधी युक्तसेवनम् ।
अष्टमूर्तिभृद्देवपूजनम् ॥ 5 ॥
उत्तमस्तवादुच्चमन्दतः ।
चित्तजं जपध्यानमुत्तमम् ॥ 6 ॥
आज्यधारया स्रोतसा समम् ।
सरलचिन्तनं विरलतः परम् ॥ 7 ॥
भेदभावनात् सोऽहमित्यसौ ।
भावनाऽभिदा पावनी मता ॥ 8 ॥
भावशून्यसद्भावसुस्थितिः ।
भावनाबलाद्भक्तिरुत्तमा ॥ 9 ॥
हृत्स्थले मनः स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम् ॥ 10 ॥
वायुरोधनाल्लीयते मनः ।
जालपक्षिवद्रोधसाधनम् ॥ 11 ॥
चित्तवायवश्चित्क्रियायुताः ।
शाखयोर्द्वयी शक्तिमूलका ॥ 12 ॥
लयविनाशने उभयरोधने ।
लयगतं पुनर्भवति नो मृतम् ॥ 13 ॥
प्राणबन्धनाल्लीनमानसम् ।
एकचिन्तनान्नाशमेत्यदः ॥ 14 ॥
नष्टमानसोत्कृष्टयोगिनः ।
कृत्यमस्ति किं स्वस्थितिं यतः ॥ 15 ॥
दृश्यवारितं चित्तमात्मनः ।
चित्त्वदर्शनं तत्त्वदर्शनम् ॥ 16 ॥
मानसं तु किं मार्गणे कृते ।
नैव मानसं मार्ग आर्जवात् ॥ 17 ॥
वृत्तयस्त्वहं वृत्तिमाश्रिताः ।
वृत्तयो मनो विद्ध्यहं मनः ॥ 18 ॥
अहमयं कुतो भवति चिन्वतः ।
अयि पतत्यहं निजविचारणम् ॥ 19 ॥
अहमि नाशभाज्यहमहन्तया ।
स्फुरति हृत्स्वयं परमपूर्णसत् ॥ 20 ॥
इदमहं पदाऽभिख्यमन्वहम् ।
अहमिलीनकेऽप्यलयसत्तया ॥ 21 ॥
विग्रहेन्द्रियप्राणधीतमः ।
नाहमेकसत्तज्जडं ह्यसत् ॥ 22 ॥
सत्त्वभासिका चित्क्ववेतरा ।
सत्तया हि चिच्चित्तया ह्यहम् ॥ 23 ॥
ईशजीवयोर्वेषधीभिदा ।
सत्स्वभावतो वस्तु केवलम् ॥ 24 ॥
वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः ॥ 25 ॥
आत्मसंस्थितिः स्वात्मदर्शनम् ।
आत्मनिर्द्वयादात्मनिष्ठता ॥ 26 ॥
ज्ञानवर्जिताऽज्ञानहीनचित् ।
ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ 27 ॥
किं स्वरूपमित्यात्मदर्शने ।
अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ 28 ॥
बन्धमुक्त्यतीतं परं सुखम् ।
विन्दतीह जीवस्तु दैविकः ॥ 29 ॥
अहमपेतकं निजविभानकम् ।
महदिदन्तपो रमनवागियम् ॥ 30 ॥

Explore More