Brahman (The Supreme Reality)

तैत्तिरीय उपनिषद् - आनन्दवल्ली

(Taittiriya Upanishad - Anandavalli)

From Taittiriya Upanishad (Krishna Yajurveda)

Anandavalli, the second chapter of the Taittiriya Upanishad, is a profound philosophical treatise centered on the nature of Brahman as absolute bliss. It explores the five sheaths of the human self, guiding the seeker from the material body to the blissful core of existence. By chanting these verses, one transcends the limitations of worldly suffering, moving toward self-realization and ultimate liberation. It is highly valued for providing a systematic map of spiritual evolution, helping the practitioner attain inner peace and deep understanding of the unity between the individual soul and the universal consciousness.

(तै. आ. 8-1-1)
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ब्र॒ह्म॒विदा᳚प्नोति॒ परम्᳚ । तदे॒षा-ऽभ्यु॑क्ता । स॒त्य-ञ्ज्ञा॒नम॑न॒न्त-म्ब्रह्म॑ । यो वेद॒ निहि॑त॒-ङ्गुहा॑या-म्पर॒मे व्यो॑मन्न् । सो᳚-ऽश्नु॒ते सर्वा॒न्कामा᳚न्​थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्सम्भू॑तः । आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो-ऽन्नम्᳚ । अन्ना॒त्पुरु॑षः । स वा एष पुरुषो-ऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । अय-न्दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इद-म्पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति प्रथमो-ऽनुवाकः ॥ अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । सर्वं॒-वैँ ते-ऽन्न॑माप्नुवन्ति । ये-ऽन्न॒-म्ब्रह्मो॒पास॑ते । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । अन्ना᳚द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । अद्यते-ऽत्ति च॑ भूता॒नि । तस्मादन्न-न्तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्यो-ऽन्तर आत्मा᳚ प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ इति द्वितीयो-ऽनुवाकः ॥ प्रा॒ण-न्दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚थ्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒ण-म्ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ्सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚त्प्राण॒मयात् । अन्यो-ऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ इति तृतीयो-ऽनुवाकः ॥ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚न्मनो॒मयात् । अन्यो-ऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । ऋत-न्दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ इति चतुर्थो-ऽनुवाकः ॥ वि॒ज्ञानं॑-यँ॒ज्ञ-न्त॑नुते । कर्मा॑णि तनु॒ते-ऽपि॑ च । वि॒ज्ञान॑-न्दे॒वास्सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञान॒-म्ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्कामान्​थ्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । अन्यो-ऽन्तर आत्मा॑-ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ इति पञ्चमो-ऽनुवाकः ॥ अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेन-न्ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । अथातो॑-ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती(3) । आहो॑ वि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्चि॒थ्सम॑श्नु॒ता(3) उ॒ । सो॑-ऽकामयत । ब॒हुस्या॒-म्प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दग्ं सर्व॑मसृजत । यदि॒द-ङ्किञ्च॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्त॒-ञ्चानि॑रुक्त-ञ्च । नि॒लय॑न॒-ञ्चानि॑लयन-ञ्च । वि॒ज्ञान॒-ञ्चावि॑ज्ञान-ञ्च । सत्य-ञ्चानृत-ञ्च स॑त्यम॒भवत् । यदि॑द-ङ्कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ इति षष्ठो-ऽनुवाकः ॥ अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानग्ग् स्वय॑मकु॒रुत । तस्मात्तथ्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तथ्सु॒कृतम् । र॑सो वै॒ सः । रसग्ग् ह्येवायं-लँब्ध्वा-ऽऽन॑न्दी भ॒वति । को ह्येवान्या᳚त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवा-ऽऽन॑न्दया॒ति । य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्ये-ऽनात्म्ये-ऽनिरुक्ते-ऽनिलयने-ऽभयं प्रति॑ष्ठां-विँ॒न्दते । अथ सो-ऽभय-ङ्ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑र-ङ्कु॒रुते । अथ तस्य भ॑य-म्भ॒वति । तत्त्वेव भयं-विँदुषो-ऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ इति सप्तमो-ऽनुवाकः ॥ भी॒षा-ऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषा-ऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । सैषा-ऽऽनन्दस्य मीमाग्ं॑सा भ॒वति । युवा स्याथ्साधुयु॑वा-ऽध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येय-म्पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः । ते ये शत-म्मानुषा॑ आन॒न्दाः ॥ 1 ॥ स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्मनुष्यगन्धर्वाणा॑मान॒न्दाः । स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-न्देवगन्धर्वाणा॑मान॒न्दाः । स एकः पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजाना-न्देवाना॑मान॒न्दः ॥ 2 ॥ श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमाजानजाना-न्देवाना॑मान॒न्दाः । स एकः कर्मदेवाना-न्देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-ङ्कर्मदेवाना-न्देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-न्देवाना॑मान॒न्दाः । स एक इन्द्र॑स्या-ऽऽन॒न्दः ॥ 3 ॥ श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्या-ऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्प्रजापते॑रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ 4 ॥ स यश्चा॑य-म्पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒​विँत् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति । एत-म्प्राणमयमात्मानमुप॑सङ्क्रा॒मति । एत-म्मनोमयमात्मानमुप॑सङ्क्रा॒मति । एतं-विँज्ञानमयमात्मानमुप॑सङ्क्रा॒मति । एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति । तदप्येष श्लो॑को भ॒वति ॥ 5 ॥ इत्यष्टमो-ऽनुवाकः ॥ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति । एतग्ं ह वाव॑ न त॒पति । किमहग्ं साधु॑ नाक॒रवम् । किमह-म्पापमकर॑वमि॒ति । स य एवं-विँद्वानेते आत्मा॑नग्ग् स्पृ॒णुते । उ॒भे ह्ये॑वैष॒ एते आत्मा॑नग्ग् स्पृ॒णुते । य ए॒वं-वेँद॑ । इत्यु॑प॒निष॑त् ॥ 1 ॥ इति नवमो-ऽनुवाकः ॥ ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ ॥ हरिः॑ ओम् ॥ ॥ श्री कृष्णार्पणमस्तु ॥

Explore More