Lord Vishnu

श्री विष्णु पञ्जर स्तोत्रम्

(Shri Vishnu Panjara Stotram)

From Narada Pancharatra

The Shri Vishnu Panjara Stotram is a powerful protective hymn derived from the Narada Pancharatra. It functions as a spiritual armor, or panjara, designed to shield the practitioner from negative influences and dangers. By invoking the supreme energy of Lord Vishnu through structured mantra nyasa and meditative recitation, the devotee aligns their physical and spiritual self with divine protection. Regular chanting of this stotra is believed to grant mental peace, destroy obstacles, and provide deep security, ultimately fostering a profound connection with the preserver of the universe, Lord Vishnu.

ॐ अस्य श्रीविष्णुपञ्जरस्तोत्र महामन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐ ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः ।
नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐ ह्रीं कीलकं पादाग्रे । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति मन्त्रः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
इति अङ्गन्यासः ।
अहं बीजं प्राणायामं मन्त्रत्रयेण कुर्यात् ।
ध्यानम् ।
परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् ।
सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ 1 ॥
ॐ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् ।
उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥ 2 ॥
त्रिपुरं दहमानस्य हरस्य ब्रह्मणो हितम् ।
तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ 3 ॥
पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः ।
ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ 4 ॥
नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः ।
उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ 5 ॥
वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः ।
बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ 6 ॥
कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् ।
माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ 7 ॥
नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः ।
कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥ 8 ॥
श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् ।
पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ 9 ॥
दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु ।
पुरुषोत्तमो वारुण्यां वायव्यां च जनार्दनः ॥ 10 ॥
गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः ।
आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ 11 ॥
सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः ।
विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ 12 ॥
राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे ।
नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ 13 ॥
डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।
रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ 14 ॥
रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।
जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ 15 ॥
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥ 16 ॥
पन्थानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः ।
रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ 17 ॥
स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः ।
मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ 18 ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ 19 ॥
आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा ।
यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥ 20 ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ 21 ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ 22 ॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ 23 ॥
इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्रीविष्णुपञ्जरस्तोत्रम् ॥

Explore More