Brahman

प्रश्नोपनिषद् - षष्ठः प्रश्नः

(Prashna Upanishad - Sixth Question)

From Atharva Veda

This text constitutes the final chapter of the Prashna Upanishad, part of the Atharva Veda, where Sage Pippalada instructs the student Sukesha Bharadvaja. It explores the nature of the Purusha, the supreme being possessing sixteen parts, who resides within the human body. The dialogue emphasizes the pursuit of absolute truth, warning against the falsity that destroys one's roots. Studying this profound metaphysical inquiry helps the seeker realize the omnipresent, unchanging essence of the Self, leading to ultimate liberation from the cycle of birth and death, and bestowing deep spiritual clarity and inner peace.

षष्ठः प्रश्नः
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ -
भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैत-म्प्रश्नमपृच्छत -
षोडशकल-म्भारद्वाज पुरुषं-वेँत्थ। तमह-ङ्कुमारमब्रुव-न्नाहमिमं-वेँद यद्यहमिममवेदिष-ङ्कथ-न्ते नावक्ष्यमिति ।
समूलो वा एष परिशुष्यति यो-ऽनृतमभिवदति। तस्मान्नार्​हम्यनृतं-वँक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। त-न्त्वा पृच्छामि क्वासौ पुरुष इति ॥1॥
तस्मै स होवाच ।
इहैवान्तस्शरीरे सोम्य स पुरुषो यस्मिन्नेता-ष्षोडश कलाः प्रभवन्तीति ॥2॥
स ईक्षाञ्चक्रे। कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥3॥
स प्राणमसृजत। प्राणाच्छ्रद्धा-ङ्खं-वाँयुर्ज्योतिरापः पृथिवीन्द्रिय-म्मनो-ऽन्नमन्नाद्वीर्य-न्तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥4॥
स यथेमा नद्य-स्स्यन्दमाना-स्समुद्रायणा-स्समुद्र-म्प्राप्यास्त-ङ्गच्छन्ति भिद्येते तासा-न्नामरूपे समुद्र इत्येव-म्प्रोच्यते।
एवमेवास्य परिद्रष्टुरिमा-ष्षोडश कलाः पुरुषायणाः पुरुष-म्प्राप्यास्त-ङ्गच्छन्ति भिद्येते चासा-न्नामरूपे पुरुष इत्येव-म्प्रोच्यते स एषो-ऽकलो-ऽमृतो भवति तदेष श्लोकः ॥5॥
अरा इव रथनाभौ कला यस्मि-न्प्रतिष्ठिताः।
तं-वेँद्य-म्पुरुषं-वेँद यथा मा वो मृत्युः परिव्यथा इति ॥6॥
तान् होवाचैतावदेवाहमेत-त्पर-म्ब्रह्म वेद। नातः परमस्तीति ॥7॥
ते तमर्चयन्तस्त्वं हि नः पिता यो-ऽस्माकमविद्यायाः पर-म्पार-न्तारयसीति।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥8॥

Explore More