Brahman

प्रश्नोपनिषद् - चतुर्थः प्रश्नः

(Prashna Upanishad - Fourth Question)

From Atharva Veda

The Fourth Question of the Prashna Upanishad presents a profound dialogue between the sage Pippalada and Gargya Sauryayani concerning the nature of the human soul during different states of consciousness. It explores the mysteries of sleep, dreams, and the state of deep rest, explaining how all senses merge into the mind during slumber. By contemplating these teachings, the seeker gains insight into the imperishable nature of the Atman. This philosophical inquiry is highly regarded for its ability to dissolve worldly attachments, quiet the restless mind, and lead the practitioner toward the ultimate realization of the Supreme Self.

चतुर्थः प्रश्नः
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ।
भगवन्नेतस्मि-न्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देव-स्स्वप्ना-न्पश्यति कस्यैतत्सुख-म्भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥1॥
तस्मै स होवाच। यथा गार्ग्य मरीचयो-ऽर्कस्यास्त-ङ्गच्छत-स्सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति।
ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै त-थ्सर्व-म्परे देवे मनस्येकीभवति।
तेन तर्​ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥2॥
प्राणाग्नय एवैतस्मि-न्पुरे जाग्रति।
गार्​हपत्यो ह वा एषो-ऽपानो व्यानो-ऽन्वाहार्यपचनो यद् गार्​हपत्या-त्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥3॥
यदुच्छ्वासनिस्श्वासावेतावाहुती सम-न्नयतीति स समानः।
मनो ह वाव यजमानः इष्टफलमेवोदान-स्स एनं-यँजमानमहरहर्ब्रह्म गमयति ॥4॥
अत्रैष देव-स्स्वप्ने महिमानमनुभवति।
यद् दृष्ट-न्दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूत-म्पुनः पुनः प्रत्यनुभवति दृष्ट-ञ्चादृष्ट-ञ्च श्रुत-ञ्चाश्रुत-ञ्चानुभूत-ञ्चाननुभूत-ञ्च सच्चासच्च सर्व-म्पश्यति सर्वः पश्यति ॥5॥
स यदा तेजसाभिभूतो भवत्यत्रैष देव-स्स्वप्ना-न्न पश्यत्यथ यदैतस्मिञ्शरीरे एतत्सुख-म्भवति ॥6॥
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते एवं ह वै त-थ्सर्व-म्पर आत्मनि सम्प्रतिष्ठते ॥7॥
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्य-ञ्च श्रोत्र-ञ्च श्रोतव्य-ञ्च घ्राण-ञ्च घ्रातव्य-ञ्च रसश्च रसयितव्य-ञ्च त्वक्च स्पर्​शयितव्य-ञ्च वाक्च वक्तव्य-ञ्च हस्तौ चादातव्य-ञ्चोपस्थश्चानन्दयितव्य-ञ्च पायुश्च विसर्जयितव्य-ञ्च पादौ च गन्तव्य-ञ्च मनश्च मन्तव्य-ञ्च बुद्धिश्च बोद्धव्य-ञ्चाहङ्कारश्चाहङ्कर्तव्य-ञ्च चित्त-ञ्च चेतयितव्य-ञ्च तेजश्च विद्योतयितव्य-ञ्च प्राणश्च विधारयितव्य-ञ्च ॥8॥
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः।
स परे-ऽक्षर आत्मनि सम्प्रतिष्ठते ॥9॥
परमेवाक्षर-म्प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञ-स्सर्वो भवति तदेष श्लोकः ॥10॥
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र।
तदक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञ-स्सर्वमेवाविवेशेति ॥11॥

Explore More