Brahman

प्रश्नोपनिषद् - द्वितीयः प्रश्नः

(Prashna Upanishad - Second Question)

From Atharva Veda

The Prashna Upanishad is a classical Vedic text featuring a dialogue between the sage Pippalada and six seekers of truth. In this second chapter, the sage explains the nature of the vital forces, or Prana, which sustain and animate the living body. By categorizing the elements and senses, the text reveals Prana as the supreme force that upholds existence. Contemplating this wisdom offers deep insight into the energetic foundations of life, helping the seeker harmonize their inner vital currents and attain a profound understanding of the interconnectedness between the individual self and the cosmic manifest reality.

द्वितीयः प्रश्नः
अथ हैन-म्भार्गवो वैदर्भिः पप्रच्छ।
भगवन् कत्येव देवाः प्रजां-विँधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां-वँरिष्ठः इति ॥1॥
तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षु-श्श्रोत्र-ञ्च।
ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥2॥
तान् वरिष्ठः प्राण उवाच।
मा मोहमापद्यथ अहमेवैतत्पञ्चधात्मान-म्प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति ते-ऽश्रद्दधाना बभूवुः ॥3॥
सो-ऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्त एवं-वाँङ्मनष्चक्षु-श्श्रोत्र-ञ्च ते प्रीताः प्राणं स्तुन्वन्ति ॥4॥
एषो-ऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः।
एष पृथिवी रयिर्देव-स्सदसच्चामृत-ञ्च यत् ॥5॥
अरा इव रथनाभौ प्राणे सर्व-म्प्रतिष्ठितम्।
ऋचो यजूंषि सामानि यज्ञः, क्षत्र-म्ब्रह्म च ॥6॥
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे।
तुभ्य-म्प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥7॥
देवानामसि वह्नितमः पितृणा-म्प्रथमा स्वधा।
ऋषीणा-ञ्चरितं सत्यमथर्वाङ्गिरसामसि ॥8॥
इन्द्रस्त्व-म्प्राण तेजसा रुद्रो-ऽसि परिरक्षिता।
त्वमन्तरिक्षे चरसि सूर्यस्त्व-ञ्ज्योतिषा-म्पतिः ॥9॥
यदा त्वमभिवर्​षस्यथेमाः प्राण ते प्रजाः।
आनन्दरूपास्तिष्ठन्ति कामायान्न-म्भविष्यतीति ॥10॥
व्रात्यस्त्व-म्प्राणैकर्​षिरत्ता विश्वस्य सत्पतिः।
वयमाद्यस्य दातारः पिता त्व-म्मातरिश्व नः ॥11॥
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।
या च मनसि सन्तता शिवा-न्ता-ङ्कुरु मोत्क्रमीः ॥12॥
प्राणस्येदं-वँशे सर्व-न्त्रिदिवे य-त्प्रतिष्ठितम्।
मातेव पुत्रा-न्रक्षस्व श्रीश्च प्रज्ञा-ञ्च विधेहि न इति ॥13॥

Explore More