Lord Krishna

मुचुकुन्द स्तुतिः

(Muchukunda Stuti)

From Srimad Bhagavatam

Found in the tenth canto of the Srimad Bhagavatam, this profound prayer is offered by King Muchukunda to Lord Krishna after he awakens from a long, divinely granted slumber. Seeking liberation from the cycle of worldly attachments, the king extols the Supreme Being, acknowledging the illusory nature of material life. Chanting this stuti helps devotees gain clarity of mind, detachment from transient worldly pleasures, and a deeper spiritual insight into the divine nature of the Lord. It serves as a powerful reminder of the importance of seeking devotion to the lotus feet of the Supreme Lord over mundane existence.

विमोहितोऽयं जन ईश मायया
त्वदीयया त्वां च भजत्यनर्थदृक् ।
सुखाय दुःखप्रभवेषु सज्जते
गृहेषु योषित्पुरुषश्च वञ्चितः ॥ 1 ॥
लब्ध्वा जनो दुर्लभमत्र मानुषं
कथञ्चिदव्यङ्गमयत्नतोऽनघ ।
पादारविन्दं न भजत्यसन्मति-
र्गृहान्धकूपे पतितो यथा पशुः ॥ 2 ॥
ममैष कालोऽजित निष्फलो गतो
राज्यश्रियोन्नद्धमदस्य भूपते ।
मर्त्यात्मबुद्धेः सुतदारकोशभू-
ष्वासज्जमानस्य दुरन्तचिन्तया ॥ 3 ॥
कलेवरेऽस्मिन् घटकुड्यसन्निभे
निरूढमानो नरदेव इत्यहम् ।
वृतो रथेभाश्वपदात्यनीकपैर्गां
पर्यटंस्त्वागणयन् सुदुर्मदः ॥ 4 ॥
प्रमत्तमुच्चैरिति कृत्यचिन्तया
प्रभुद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्तः सहसाऽभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ 5 ॥
पुरा रथैर्हेमपरिष्कृतैश्चरन्
मतङ्गजैर्वा नरदेवसञ्ज्ञितः ।
स एव कालेन दुरत्ययेन ते
कलेवरो विट्कृमिभस्मसञ्ज्ञितः ॥ 6 ॥
निर्जित्य दिक्चक्रमभूतविग्रहो
वरासनस्थः समराजवन्दितः ।
गृहेषु मैथुन्यसुखेषु योषितां
क्रीडामृग पूरुष ईश नीयते ॥ 7 ॥
करोति कर्माणि तपःसु निष्ठितो
निवृत्तभोगस्तदपेक्षया ददत् ।
पुनश्च भूयेयमहं स्वराडिति
प्रबुद्धतर्षो न सुखाय कल्पते ॥ 8 ॥
भवापवर्गो भ्रमतो यदा भवे-
ज्जनस्य तर्ह्यच्युत सत्समागमः ।
सत्सङ्गमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते मतिः ॥ 9 ॥
मन्ये ममानुग्रह ईश ते कृतो
राज्यानुबन्धापगमो यदृच्छया ।
यः प्रार्थ्यते साधुभिरेकचर्यया
वनं विविक्षद्भिरखण्डभूमिपैः ॥ 10 ॥
न कामयेऽन्यं तव पादसेवनाद्-
अकिञ्चनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वां ह्यपवर्गदं हरे
वृणीत आर्यो वरमात्मबन्धनम् ॥ 11 ॥
तस्माद्विसृज्याशिष ईश सर्वतो
रजस्तमःसत्त्वगुणानुबन्धनाः ।
निरञ्जनं निर्गुणमद्वयं परं
त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ 12 ॥
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैः
अवितृषषडमित्रो लब्धशान्तिः कथञ्चित् ।
शरणद समुपेतस्त्वत्पदाब्जं परात्मन्
अभयममृतमशोकं पाहि माऽपन्नमीश ॥ 13 ॥
इति श्रीमद्भागवतान्तर्गता मुचुकुन्दकृता श्रीविष्णुस्तुतिः समाप्ता ।

Explore More