Lord Vishnu

माङ्गल्य स्तवः

(Mangalya Stavah)

From Vamana Purana

The Mangalya Stavah is a sacred hymn found within the Vamana Purana, primarily dedicated to Lord Vishnu, the preserver of the universe. This stotra is traditionally chanted to invoke auspiciousness and remove obstacles before commencing any significant task. It serves as a powerful spiritual remedy for nullifying the negative effects of bad dreams and warding off inauspicious omens. By reciting this hymn, a devotee invites the protective grace of Lord Vishnu, ensuring that all endeavors reach a successful conclusion while bestowing peace, prosperity, and spiritual harmony upon the practitioner.

दाल्भ्यः

कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम ।
अमाङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥ 1 ॥
येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नश्चोपशाम्यति ।
अमङ्गलानां दृष्टानां परिहारश्च जायते ॥ 2 ॥
श्री पुलस्त्यः:
जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने ।
दुष्टान्यशेषण्यपहन्ति साधयति अशेषकार्याणि च यान्यभीप्सति ॥ 3 ॥
शृणुष्व चान्यत् गदतो ममाखिलं वदामि यत् ते द्विजवर्य! मङ्गलम् ।
सर्वार्थसिद्धिं प्रददाति यत् सदा निहन्त्य्शेषाणि च पातकानि ॥ 4 ॥
प्रतिष्टितं यत्र जगच्चराचरं जगत्त्रये यो जगतश्च हेतुः ।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 5 ॥
व्योमाम्बुवाय्वग्निमहीस्वरूपैः विस्तारवान् योऽणुतरोऽणुभावात् ।
अस्थूलसूक्ष्मः सततं परेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 6 ॥
यस्मात् परस्मात् पुरुषादनन्तात् अनादिमध्यादधिकं न किञ्चित् ।
स हेतुहेतुः परमेश्वरेश्वरः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 7 ॥
हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति ।
गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 8 ॥
परः सुराणां परमोऽसुराणां परो यतीनां परमो मुनीनाम् ।
परः समस्तस्य च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 9 ॥
ध्यातो मुनीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः ।
मनोभिरामः पुरुषः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 10 ॥
सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् ।
स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 11 ॥
यन्नामसङ्कीर्तनतो विमुच्यते ह्यनेकजन्मार्जितपापसञ्चयात् ।
पापेन्धनाग्निः स सदैव निर्मलो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 12 ॥
येनोद्धृतेयं धरणी रसातलात् अशेषसृष्टिस्थितिकारणादिकम् ।
बिभर्ति विश्वं जगतः स मूलं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 13 ॥
पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः ।
यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 14 ॥
समस्त यज्ञाङ्गमयं वपुः प्रभोः यस्याङ्गमीशेश्वरसंस्तुतस्य ।
वराहरूपी भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 15 ॥
विक्षोभ्य सर्वोदधितोयसम्भवं दधार धात्रीं जगतश्च यो भुवम् ।
यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 16 ॥
पातालमूलेश्वरभोगिसंहतो विन्यस्य पादौ पृतिवीं च बिभ्रतः ।
यस्योपमानं न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 17 ॥
सघर्घरं यस्य च बृंहितं मुहुः सनन्दनाद्यैर्जनलोकसंश्रितैः ।
श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 18 ॥
एकार्णवाद् यस्य महीयसौ महीं आदाय वेगेन खमुत्पतिष्यतः ।
नतं वपुर्योगिवरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 19 ॥
हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन ।
वराहरूपः स पतिः प्रजापतिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 20 ॥
दंष्ट्राकरालं सुरभीतिनाशकं कृतं वपुर्दिव्यनृसिंहरूपिणा ।
त्रातुं जगत् येन स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 21 ॥
दैत्येन्द्रवक्षःस्थलदारदारुणैः
करेरुहैर्यः क्रकचानुकारिभिः ।
विच्छेद लोकस्य भयानि सोऽच्युतो
ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 22 ॥
दन्तान्तदीप्तद्युतिनिर्मलानि यः चकार सर्वाणि दिशां मुखानि ।
निनादवित्रासितदानवो ह्यसौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 23 ॥
यन्नामसङ्कीर्तनतो महाभयात् विमोक्षमाप्नोति न संशयं नरः ।
स सर्वलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 24 ॥
सटाकरालभ्रमणानिलाहताः स्फुटन्ति यस्याम्बुधराः समन्ततः ।
स दिव्यसिंहः स्फुरितानलेक्षणो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 25 ॥
यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमीषन्न रराज भास्वतः ।
कुतः शशाङ्कस्य स दिव्यरूपधृक् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 26 ॥
अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् ।
स सर्वलोकार्तिहरो महाहरिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 27 ॥
द्रवन्ति दैत्याः प्रणमन्ति देवताः नश्यन्ति रक्षांसि अपयान्ति चारयः ।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 28 ॥
ऋक्पावितं यो यजुषा हि श्रीमत् सामध्वनिध्वस्तसमस्तपातकम् ।
चक्रे जगत् वामनकः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 29 ॥
यत्पादविन्यासपवित्रतां मही ययौ वियच्चर्ग्यजुषामुदीरणात् ।
स वामनो दिव्यशरीररूपदृं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 30 ॥
यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात् ननाम खेदादवनिः ससागरा ।
स वामनः सर्वजगन्मयः सदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 31 ॥
महाद्भुते दैत्यपतेर्महाध्वरे यस्मिन् प्रविष्टे क्षुभितं महासुरैः ।
स वामनोऽन्तस्थितसप्तलोकधृं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 32 ॥
सङ्घैः सुराणां दिवि भूतलस्थितैः तथा मनुष्यैर्गगने च खेचरैः ।
स्तुतः क्रमाद् यः प्रच्चार सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 33 ॥
क्रान्त्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।
स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 34 ॥
अनुग्रहं चापि बलेरनुत्त्मं चकार यश्चेन्द्रपदोपमं क्षणात् ।
सुरांश्च यज्ञांशभुजः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 35 ॥
रसातलाद् येन पुरा समाहृताः समस्तवेदा जलचाररिरूपिणा ।
स कैटभारिमधुहाऽम्बुशायी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 36 ॥
निःक्षत्रियं यश्च चकार मेदिनीं अनेकशो बाहुवनं तथाऽच्छिनत् ।
यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 37 ॥
निहत्य यो वालिनमुग्रविक्रमं
निबद्ध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान् रजनीचरान् असौ
ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 38 ॥
चिक्षेप बालः शकटं, बभञ्ज यो यमार्जुनं, कंसमरिं जघान च ।
ममर्द चाणूरमुखान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 39 ॥
प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रत् भगवान् सुदर्शनम् ।
कौमोदकी चापि गदामनन्तो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 40 ॥
हिमेन्दुकुन्दस्फटिकाभनिर्मलं मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकालेऽपि स शन्खमुद्वहन् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 41 ॥
तथापराह्णे प्रविकासि पङ्कजं वक्षस्थलेन श्रियमुद्वहन् हरिः ।
विस्तारिपद्मायतपत्रलोचनो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 42 ॥
सर्वेषु कालेषु समस्तदेशेषु अशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ 43 ॥
एतत् पठन् दाल्भ्य समस्तपापैः
विमुच्यते विष्णुपरो मनुष्यः ।
सिद्ध्यन्ति कार्याणि तथाऽस्य सर्वान्
अर्थानवाप्नोति यथेच्छते तान् ॥ 44 ॥
दुःस्वप्नः प्रशममुपैति पठ्यमाने
स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य ।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः
पापानि क्षपयति चास्य देवदेवः ॥ 45 ॥
माङ्गल्यं परमपदं सदाऽर्थसिद्धिं
निर्विघ्नामधिकफलां श्रियं ददाति ।
किं लोके तदिह परत्र चापि पुंसां
यद्विष्णुप्रवणधियां न दाल्भ्य! साध्यम् ॥ 46 ॥
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः
संसिद्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं
सम्प्राप्ताः सकलफलप्रदो हि विष्णुः ॥ 47 ॥
सर्वारम्भेषु दाल्भ्यैतद् दुःस्वप्नेषु च पण्डितः ।
जपेदेकमना विष्णौ तथाऽमङ्गल्यदर्शने ॥ 48 ॥
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।
कर्मारम्भाश्च सिद्ध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥ 49 ॥
हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः ।
करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥ 50 ॥
॥ श्रीविष्णुधर्मोत्तरान्तर्गतः माङ्गल्यस्तवः
सम्पूर्णः ॥

Explore More