Goddess Lalita

देवी भुजङ्ग स्तोत्रं

(Devi Bhujanga Stotram)

Adi Shankaracharya

The Devi Bhujanga Stotram is a profound devotional hymn attributed to Adi Shankaracharya, dedicated to Goddess Lalita Tripurasundari. The stotram is composed in the rhythmic Bhujanga-prayatā meter, mimicking the undulating grace of a serpent. It celebrates the Goddess as the supreme embodiment of consciousness and the divine consort of Lord Shiva. Chanting this hymn is believed to awaken latent spiritual energy, purify the practitioner’s intellect, and lead to the realization of non-dual consciousness. It serves as a powerful meditative tool for seekers aiming to transcend worldly illusions and attain liberation through the grace of the Mother Divine.

विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शङ्कराद्वैतमव्यात् ॥ 1 ॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ 2 ॥
विरिञ्चादिरूपैः प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम् ॥ 3 ॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥ 4 ॥
समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥ 5 ॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ 6 ॥
शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
यदाकस्मिकं ज्योतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ 7 ॥
मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः ॥ 8 ॥
निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परे पञ्चविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ 9 ॥
अगाधेऽत्र संसारपङ्के निमग्नं
कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ 10 ॥
समारभ्य मूलं गतो ब्रह्मचक्रं
भवद्दिव्यचक्रेश्वरीधामभाजः ।
महासिद्धिसङ्घातकल्पद्रुमाभा-
नवाप्याम्ब नादानुपास्ते च योगी ॥ 11 ॥
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ 12 ॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ 13 ॥
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि सम्मोहयेयुः ॥ 14 ॥
मणिस्यूतताटङ्कशोणास्यबिम्बां
हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ 15 ॥
महामन्त्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्स त्वमेव ॥ 16 ॥
तथान्ये विकल्पेषु निर्विण्णचित्ता-
स्तदेकं समाधाय बिन्दुत्रयं ते ।
परानन्दसन्धानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ 17 ॥
त्वदुन्मेषलीलानुबन्धाधिकारा-
न्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवे तावकीना सुसम्भावनेयम् ॥ 18 ॥
कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥ 19 ॥
कदावा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोपः
कदा वा मनो मे समूलं विनश्येत् ॥ 20 ॥
नमोवाकमाशास्महे देवि युष्म-
त्पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपायमानप्रभाभास्वराय ॥ 21 ॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादुचापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ 22 ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवच्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ 23 ॥
जगत्कर्मधीरान्वचोधूतकीरान्
कुचन्यस्तहाराङ्कृपासिन्धुपूरान् ।
भवाम्भोधिपारान्महापापदूरान्
भजे वेदसारांशिवप्रेमदारान् ॥ 24 ॥
सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्रान्तरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥ 25 ॥
दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लोकपाला
हृदि प्रेमलोलामृतस्वादुलीला ॥ 26 ॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाद्य यासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ ॥ 27 ॥
इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मातस्-
तदेतत्प्रलापस्तुतिं मे गृहाण ॥ 28 ॥
॥ इति श्रीमच्छङ्कराचार्यविरचिता देवीभुजङ्गं सम्पूर्णम् ॥

Explore More