Lord Krishna

उद्धवगीता - एकादशोऽध्यायः

(Uddhava Geetha chapter 11)

From Shrimad Bhagavata Purana

अथ एकादशोऽध्यायः । श्रीभगवान् उवाच ।

बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य मायामूलत्वात् न मे मोक्षः न बन्धनम् ॥ 1॥
शोकमोहौ सुखं दुःखं देहापत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ 2॥
विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ 3॥
एकस्य एव मम अंशस्य जीवस्य एव महामते ।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ 4॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ 5॥
सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृतनीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ 6॥
आत्मानं अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् स तु नित्यबद्धः
विद्यामयः यः स तु नित्यमुक्तः ॥ 7॥
देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ 8॥
इन्द्रियैः इन्द्रियार्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहङ्कुर्यात् न विद्वान् यः तु अविक्रियः ॥ 9॥
दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ 10॥
एवं विरक्तः शयनः आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ 11॥
न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ 12॥
वैशारद्येक्षया असङ्गशितया छिन्नसंशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ 13॥
यस्य स्युः वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।
वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ 14॥
यस्य आत्मा हिंस्यते हिंस्र्यैः येन किञ्चित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ 15॥
न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा ।
वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ 16॥
न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ 17॥
शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रमफलः हि अधेनुं इव रक्षतः ॥ 18॥
गां दुग्धदोहां असतीं च भार्याम्
देहं पराधीनं असत्प्रजां च ।
वित्तं तु अतीर्थीकृतं अङ्ग वाचम्
हीनां मया रक्षति दुःखदुःखी ॥ 19॥
यस्यां न मे पावनं अङ्ग कर्म
स्थितिउद्भवप्राण निरोधनं अस्य ।
लीलावतारीप्सितजन्म वा स्यात्
बन्ध्यां गिरं तां बिभृयात् न धीरः ॥ 20॥
एवं जिज्ञासया अपोह्य नानात्वभ्रमं आत्मनि ।
उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ 21॥
यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ 22॥
श्रद्धालुः मे कथाः श‍ऋण्वन् सुभद्रा लोकपावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ 23॥
मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः ।
लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ 24॥
सत्सङ्गलब्धया भक्त्या मयि मां सः उपासिता ।
सः वै मे दर्शितं सद्भिः अञ्जसा विन्दते पदम् ॥ 25॥
उद्धव उवाच
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ 26॥
एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ 27॥
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ 28॥
श्रीभगवान् उवाच
कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् ।
सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ 29॥
कामैः अहतधीः दान्तः मृदुः शुचिः अकिञ्चनः ।
अनीहः मितभुक् शान्तः स्थिरः मत् शरणः मुनिः ॥ 30॥
अप्रमत्तः गभीरात्मा धृतिमाञ्जितषड्गुणः ।
अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ 31॥
आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ 32॥
ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि
यादृशः ।
भजन्ति अनन्यभावेन ते मे भक्ततमाः मताः ॥ 33॥
मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ 34॥
मत्कथाश्रवणे श्रद्धा मत् अनुध्यानं उद्धव ।
सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ 35॥
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ 36॥
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ 37॥
मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान उपवनाक्रीडपुरमन्दिरकर्मणि ॥ 38॥
सम्मार्जन उपलेपाभ्यां सेकमण्डलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ 39॥
अमानित्वं अदम्भित्वं कृतस्य अपरिकीर्तनम् ।
अपि दीपावलोकं मे न उपयुञ्ज्यात् निवेदितम् ॥ 40॥
यत् यत् इष्टतमं लोके यत् च अतिप्रियं आत्मनः ।
तत् तत् निवेदयेत् मह्यं तत् आनन्त्याय कल्पते ॥ 41॥
सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् ।
भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ 42॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्यः गोष्वङ्ग यवसादिना ॥ 43॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ 44॥
स्थण्डिले मन्त्रहृदयैः भोगैः आत्मानं आत्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ 45॥
धिष्ण्येषु एषु इति मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः ॥ 46॥
इष्टापूर्तेन मां एवं यः यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ 47॥
प्रायेण भक्तियोगेन सत्सङ्गेन विना उद्धव ।
न उपायः विद्यते सध्र्यङ् प्रायणं हि सतां अहम् ॥ 48॥
अथ एतत् परमं गुह्यं श्रुण्वतः यदुनन्दन ।
सुगोप्यं अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ 49॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ 11॥ अथ द्वादशोऽध्यायः । श्रीभगवान् उवाच । न रोधयति मां योगः न स्साङ्ख्यं धर्मः एव च । न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ 1॥ व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः । यथा अवरुन्धे सत्सङ्गः सर्वसङ्ग अपहः हि माम् ॥ 2॥ सत्सङ्गेन हि दैतेया यातुधानः मृगाः खगाः । गन्धर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ 3॥ विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः । रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ 4॥ बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ 5॥ सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ 6॥ ते न अधितश्रुतिगणाः न उपासितमहत्तमाः । अव्रतातप्ततपसः मत्सङ्गात् मां उपागताः ॥ 7॥ केवलेन हि भावेन गोप्यः गावः नगाः मृगाः । ये अन्ये मूढधियः नागाः सिद्धाः मां ईयुः अञ्जसा ॥ 8॥ यं न योगेन साङ्ख्येन दानव्रततपः अध्वरैः । व्याख्याः स्वाध्यायसन्न्यासैः प्राप्नुयात् यत्नवान् अपि ॥ 9॥ रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मयि अनुरक्तचित्ताः । विगाढभावेन न मे वियोग तीव्राधयः अन्यं ददृशुः सुखाय ॥ 10॥ ताः ताः क्षपाः प्रेष्ठतमेन नीताः मया एव वृन्दावनगोचरेण । क्षणार्धवत् ताः पुनरङ्ग तासां हीना माया कल्पसमा बभूवुः ॥ 11॥ ताः न अविदन् मयि अनुषङ्गबद्ध धियः स्वमात्मानं अदः तथा इदम् । यथा समाधौ मुनयः अब्धितोये नद्यः प्रविष्टाः इव नामरूपे ॥ 12॥ मत्कामा रमणं जारं अस्वरूपविदः अबलाः । ब्रह्म मां परमं प्रापुः सङ्गात् शतसहस्रशः ॥ 13॥ तस्मात् त्वं उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतं एव च ॥ 14॥ मां एकं एव शरणं आत्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ 15॥ उद्धवः उवाच । संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर । न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ 16॥ श्रीभगवान् उवाच । सः एष जीवः विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्मं उपेत्य रूपं मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ 17॥ यथा अनलः खे अनिलबन्धुः ऊष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातः हविषा समिध्यते तथा एव मे व्यक्तिः इयं हि वाणी ॥ 18॥ एवं गदिः कर्मगतिः विसर्गः घ्राणः रसः दृक् स्पर्शः श्रुतिः च । सङ्कल्पविज्ञानं अथ अभिमानः सूत्रं रजः सत्त्वतमोविकारः ॥ 19॥ अयं हि जीवः त्रिवृत् अब्जयोनिः अव्यक्तः एकः वयसा सः आद्यः । विश्लिष्टशक्तिः बहुधा एव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ 20॥ यस्मिन् इदं प्रोतं अशेषं ओतं पटः यथा तन्तुवितानसंस्थः । यः एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ 21॥ द्वे अस्य बीजे शतमूलः त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दश एकशाखः द्विसुपर्णनीडः त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ 22॥ अदन्ति च एकं फलं अस्य गृध्रा ग्रामेचराः एकं अरण्यवासाः । हंसाः यः एकं बहुरूपं इज्यैः मायामयं वेद सः वेद वेदम् ॥ 23॥ एवं गुरु उपासनया एकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयं अप्रमत्तः सम्पद्य च आत्मानं अथ त्यज अस्त्रम् ॥ 24॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे द्वादशोऽध्यायः ॥ 12॥ अथ त्रयोदशोऽध्यायः । श्रीभगवान् उवाच । सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः । सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ 1॥ सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः । सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ 2॥ धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः । आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ 3॥ आगमः अपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रः अथ संस्कारः दश एते गुणहेतवः ॥ 4॥ तत् तत् सात्विकं एव एषां यत् यत् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ 5॥ सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये । ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ 6॥ वेणुसङ्घर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् । एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ 7॥ उद्धवः उवाच । विदन्ति मर्त्याः प्रायेण विषयान् पदं आपदाम् । तथा अपि भुञ्जते कृष्ण तत् कथं श्व खर अजावत् ॥ 8॥ श्रीभगवान् उवाच । अहं इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ 9॥ रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः । ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ 10॥ करोति कामवशगः कर्माणि अविजितेन्द्रियः । दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ 11। रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः । अतन्द्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते ॥ 12॥ अप्रमत्तः अनुयुञ्जीतः मनः मयि अर्पयन् शनैः । अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ 13॥ एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः । सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ 14॥ उद्धवः उवाच । यदा त्वं सनक आदिभ्यः येन रूपेण केशव । योगं आदिष्टवान् एतत् रूपं इच्छामि वेदितुम् ॥ 15॥ श्रीभगवान् उवाच । पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः । पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकान्तिकीं गतिम् ॥ 16॥ सनक आदयः ऊचुः । गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो । कथं अन्योन्यसन्त्यागः मुमुक्षोः अतितितीर्षोः ॥ 17॥ श्रीभगवान् उवाच । एवं पृष्टः महादेवः स्वयम्भूः भूतभावनः । ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ 18॥ सः मां अचिन्तयत् देवः प्रश्नपारतितीर्षया । तस्य अहं हंसरूपेण सकाशं अगमं तदा ॥ 19॥ दृष्ट्वा मां त उपव्रज्य कृत्वा पाद अभिवन्दनम् । ब्रह्माणं अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ 20॥ इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा । यत् अवोचं अहं तेभ्यः तत् उद्धव निबोध मे ॥ 21॥ वस्तुनः यदि अनानात्वं आत्मनः प्रश्नः ईदृशः । कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ 22॥ पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । कः भवान् इति वः प्रश्नः वाचारम्भः हि अनर्थकः ॥ 23॥ मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः । अहं एव न मत्तः अन्यत् इति बुध्यध्वं अञ्जसा ॥ 24॥ गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः । जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ 25॥ गुणेषु च आविशत् चित्तं अभीक्ष्णं गुणसेवया । गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ 26॥ जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः । तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ 27॥ यः हि संसृतिबन्धः अयं आत्मनः गुणवृत्तिदः । मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ 28॥ अहङ्कारकृतं बन्धं आत्मनः अर्थविपर्ययम् । विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ 29॥ यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः । जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ 30॥ असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा । गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ 31॥ यो जागरे बहिः अनुक्षणधर्मिणः अर्थान् भुङ्क्ते समस्तकरणैः हृदि तत् सदृक्षान् । स्वप्ने सुषुप्तः उपसंहरते सः एकः स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इन्द्रिय ईशः ॥ 32॥ एवं विमृश्य गुणतः मनसः त्र्यवस्था मत् मायया मयि कृता इति निश्चितार्थाः । सञ्छिद्य हार्दं अनुमानस्त् उक्तितीक्ष्ण ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ 33॥ ईक्षेत विभ्रमं इदं मनसः विलासम् दृष्टं विनष्टं अतिलोलं अलातचक्रम् । विज्ञानं एकं उरुधा इव विभाति माया स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ 34॥ दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः तूष्णीं भवेत् निजसुख अनुभवः निरीहः । सन्दृश्यते क्व च यदि इदं अवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ 35॥ देहं च नश्वरं अवस्थितं उत्थितं वा सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् । दैवात् अपेतं उत दैवशात् उपेतम् वासः यथा परिकृतं मदिरामदान्धः ॥ 36॥ देहः अपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षतः एव सासुः । तं अप्रपञ्चं अधिरूढसमाधियोगः स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ 37॥ मया एतत् उक्तं वः विप्राः गुह्यं यत् साङ्ख्ययोगयोः । जानीतं आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ 38॥ अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ 39॥ मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियं आत्मानं साम्य असङ्ग आदयः गुणाः ॥ 40॥ इति मे छिन्नसन्देहाः मुनयः सनक आदयः । सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ 41॥ तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ 42॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ 13॥ अथ चतुर्दशोऽध्यायः । उद्धवः उवाच । वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यं उत अहो एकमुख्यता ॥ 1॥ भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वयि आविशेत् मनः ॥ 2॥ श्रीभगवान् उवाच । कालेन नष्टा प्रलये वाणीयं वेदसञ्ज्ञिता । मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ 3॥ तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा । ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ 4॥ तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः । मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ 5॥ किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष आदयः । बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ 6॥ याभिः भूतानि भिद्यन्ते भूतानां मतयः तथा । यथाप्रकृति सर्वेषां चित्राः वाचः स्रवन्ति हि ॥ 7॥ एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयः नृणाम् । पारम्पर्येण केषाञ्चित् पाखण्डमतयः अपरे ॥ 8॥ मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयः वदन्ति अनेकान्तं यथाकर्म यथारुचि ॥ 9॥ धर्मं एके यशः च अन्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् । केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ 10॥ आदि अन्तवन्तः एव एषां लोकाः कर्मविनिर्मिताः । दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनन्दाः शुच अर्पिताः ॥ 11॥ मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः । मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥ 12॥ अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः । मया सन्तुष्टमनसः सर्वाः सुखमयाः दिशः ॥ 13॥ न पारमेष्ठ्यं न महेन्द्रधिष्ण्यम् न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीः अपुनर्भवं वा मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ 14॥ न तथा मे प्रियतमः आत्मयोनिः न शङ्करः । न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ 15॥ निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् । अनुव्रजामि अहं नित्यं पूयेयेति अङ्घ्रिरेणुभिः ॥ 16॥ निष्किञ्चना मयि अनुरक्तचेतसः शान्ताः महान्तः अखिलजीववत्सलाः । कामैः अनालब्धधियः जुषन्ति यत् तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ 17॥ बाध्यमानः अपि मद्भक्तः विषयैः अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ 18॥ यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् । तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ 19॥ न साधयति मां योगः न साङ्ख्यं धर्मः उद्धव । न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ 20॥ भक्त्या अहं एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि सम्भवात् ॥ 21॥ धर्मः सत्यदया उपेतः विद्या वा तपसान्विता । मद्भ्क्त्यापेतं आत्मानं न सम्यक् प्रपुनाति हि ॥ 22॥ कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्द अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ 23॥ वाक् गद्गदा द्रवते यस्य चित्तम् रुदति अभीक्ष्णं हसति क्वचित् च । विलज्जः उद्गायति नृत्यते च मद्भक्तियुक्तः भुवनं पुनाति ॥ 24॥ यथा अग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजति अथः माम् ॥ 25॥ यथा यथा आत्मा परिमृज्यते असौ मत्पुण्यगाथाश्रवण अभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मम् चक्षुः यथा एव अञ्जनसम्प्रयुक्तम् ॥ 26॥ विषयान् ध्यायतः चित्तं विषयेषु विषज्जते । मां अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ 27॥ तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ 28॥ स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतः आत्मवान् । क्षेमे विविक्तः आसीनः चिन्तयेत् मां अतन्द्रितः ॥ 29॥ न तथा अस्य भवेत् क्लेशः बन्धः च अन्यप्रसङ्गतः । योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गिसङ्गतः ॥ 30॥ उद्धवः उवाच । यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुं अर्हसि ॥ 31॥ श्रीभगवान् उवाच । समः आसनः आसीनः समकायः यथासुखम् । हस्तौ उत्सङ्गः आधाय स्वनासाग्रकृत ईक्षणः ॥ 32॥ प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः । विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ 33॥ हृदि अविच्छिन्नं ओङ्कारं घण्टानादं बिसोर्णवत् । प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ 34॥ एवं प्रणवसंयुक्तं प्राणं एव समभ्यसेत् । दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥35॥ हृत्पुण्डरीकं अन्तस्थं ऊर्ध्वनालं अधोमुखम् । ध्यात्वा ऊर्ध्वमुखं उन्निद्रं अष्टपत्रं सकर्णिकम् ॥ 36॥ कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् । वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमङ्गलम् ॥ 37॥ समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् । सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ 38॥ समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम् । हेम अम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ 39॥ शङ्ख चक्र गदा पद्म वनमाला विभूषितम् । नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ 40॥ द्युमत् किरीट कटक कटिसूत्र अङ्गद अयुतम् । सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ 41॥ सुकुमारं अभिध्यायेत् सर्वाङ्गेषु मनः दधत् । इन्द्रियाणि इन्द्रियेभ्यः मनसा आकृष्य तत् मनः । बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ 42॥ तत् सर्व व्यापकं चित्तं आकृष्य एकत्र धारयेत् । न अन्यानि चिन्तयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ 43॥ तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् । तत् च त्यक्त्वा मदारोहः न किञ्चित् अपि चिन्तयेत् ॥ 44॥ एवं समाहितमतिः मां एव आत्मानं आत्मनि । विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ 45॥ ध्यानेन इत्थं सुतीव्रेण युञ्जतः योगिनः मनः । संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ 46॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ 14॥ अथ पञ्चदशोऽध्यायः । श्रीभगवान् उवाच । जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः ॥ 1॥ उद्धवः उवाच । कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत । कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ 2॥ श्रीभगवान् उवाच । सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः । तासां अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ 3॥ अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणं ईशिता ॥ 4॥ गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति । एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ 5॥ अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ॥ 6॥ स्वच्छन्दमृत्युः देवानां सहक्रीडानुदर्शनम् । यथासङ्कल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ 7॥ त्रिकालज्ञत्वं अद्वन्द्वं परचित्तादि अभिज्ञता । अग्नि अर्क अम्बु विष आदीनां प्रतिष्टम्भः अपराजयः ॥ 8॥ एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः । यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ 9॥ भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः । अणिमानं अवाप्नोति तन्मात्र उपासकः मम ॥ 10॥ महति आत्मन् मयि परे यथासंस्थं मनः दधत् । महिमानं अवाप्नोति भूतानां च पृथक् पृथक् ॥ 11॥ परमाणुमये चित्तं भूतानां मयि रञ्जयन् । कालसूक्ष्मात्मतां योगी लघिमानं अवाप्नुयात् ॥ 12॥ धारयन् मयि अहन्तत्त्वे मनः वैकारिके अखिलम् । सर्वेन्द्रियाणां आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ 13॥ महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दते अव्यक्तजन्मनः ॥ 14॥ विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे । सः ईशित्वं अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ 15॥ नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते । मनः मयि आदधत् योगी मत् धर्माः वहितां इयात् ॥ 16॥ निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दं आप्नोति यत्र कामः अवसीयते ॥ 17॥ श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ 18॥ मयि आकाश आत्मनि प्राणे मनसा घोषं उद्वहन् । तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ 19॥ चक्षुः त्वष्टरि संयोज्य त्वष्टारं अपि चक्षुषि । मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ 20॥ मनः मयि सुसंयोज्य देहं तदनु वायुना । मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ 21॥ यदा मनः उपादाय यत् यत् रूपं बुभूषति । तत् तत् भवेत् मनोरूपं मद्योगबलं आश्रयः ॥ 22॥ परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत् प्राणः वायुभूतः षडङ्घ्रिवत् ॥ 23॥ पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कण्ठ मूर्धसु । आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ 24॥ विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् । विमानेन उपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ 25॥ यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् । मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते ॥ 26॥ यः वै मद्भावं आपन्नः ईशितुः वशितुः पुमान् । कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ 27॥ मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः । तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ 28॥ अग्नि आदिभिः न हन्येत मुनेः योगं अयं वपुः । मद्योगश्रान्तचित्तस्य यादसां उदकं यथा ॥ 29॥ मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः । ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ 30॥ उपासकस्य मां एवं योगधारणया मुनेः । सिद्धयः पूर्वकथिताः उपतिष्ठन्ति अशेषतः ॥ 31॥ जितेन्द्रियस्य दान्तस्य जितश्वास आत्मनः मुनेः । मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ 32॥ अन्तरायान् वदन्ति एताः युञ्जतः योगं उत्तमम् । मया सम्पद्यमानस्य कालक्षेपणहेतवः ॥ 33॥ जन्म ओषधि तपो मन्त्रैः यावतीः इह सिद्धयः । योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ 34॥ सर्वासां अपि सिद्धीनां हेतुः पतिः अहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ 35॥ अहं आत्मा अन्तरः बाह्यः अनावृतः सर्वदेहिनाम् । यथा भूतानि भूतेषु बहिः अन्तः स्वयं तथा ॥ 36॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे सिद्धनिरूपणयोगो नाम पञ्चदशोऽध्यायः ॥ 15॥ अथ षोडशोऽध्यायः । उद्धवः उवाच । त्वं ब्रह्म परमं साक्षात् अनादि अनन्तं अपावृतम् । सर्वेषां अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ 1॥ उच्चावचेषु भूतेषु दुर्ज्ञेयं अकृत आत्मभिः । उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ 2॥ येषु येषु च भावेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तत् वदस्व मे ॥ 3॥ गूढः चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ 4॥ याः काः च भूमौ दिवि वै रसायाम् विभूतयः दिक्षु महाविभूते । ताः मह्यं आख्याहि अनुभाविताः ते नमामि ते तीर्थ पद अङ्घ्रिपद्मम् ॥ 5॥ श्रीभगवान् उवाच । एवं एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ 6॥ ज्ञात्वा ज्ञातिवधं गर्ह्यं अधर्मं राज्यहेतुकम् । ततः निवृत्तः हन्ता अहं हतः अयं इति लौकिकः ॥ 7॥ सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः । अभ्यभाषत मां एवं यथा त्वं रणमूर्धनि ॥ 8॥ अहं आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः । अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ 9॥ अहं गतिः गतिमतां कालः कलयतां अहम् । गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ 10॥ गुणिनां अपि अहं सूत्रं महतां च महान् अहम् । सूक्ष्माणां अपि अहं जीवः दुर्जयानां अहं मनः ॥ 11॥ हिरण्यगर्भः वेदानां मन्त्राणां प्रणवः त्रिवृत् । अक्षराणां अकारः अस्मि पदानि छन्दसां अहम् ॥ 12॥ इन्द्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानां अहं विष्णू रुद्राणां नीललोहितः ॥ 13॥ ब्रह्मर्षीणां भृगुः अहं राजर्षीणां अहं मनुः । देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ 14॥ सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् । प्रजापतीनां दक्षः अहं पितॄणां अहं अर्यमा ॥ 15॥ मां विद्धि उद्धव दैत्यानां प्रह्लादं असुरेश्वरम् । सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ 16॥ ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ 17॥ उच्चैःश्रवाः तुरङ्गाणां धातूनां अस्मि काञ्चनम् । यमः संयमतां च अहं सर्पाणां अस्मि वासुकिः ॥ 18॥ नागेन्द्राणां अनन्तः अहं मृगेन्द्रः श‍ऋङ्गिदंष्ट्रिणाम् । आश्रमाणां अहं तुर्यः वर्णानां प्रथमः अनघ ॥ 19॥ तीर्थानां स्रोतसां गङ्गा समुद्रः सरसां अहम् । आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ 20॥ धिष्ण्यानां अस्मि अहं मेरुः गहनानां हिमालयः । वनस्पतीनां अश्वत्थः ओषधीनां अहं यवः ॥ 21॥ पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दः अहं सर्वसेनान्यां अग्रण्यां भगवान् अजः ॥ 22॥ यज्ञानां ब्रह्मयज्ञः अहं व्रतानां अविहिंसनम् । वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनां अपि अहं शुचिः ॥ 23॥ योगानां आत्मसंरोधः मन्त्रः अस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ 24॥ स्त्रीणां तु शतरूपा अहं पुंसां स्वायम्भुवः मनुः । नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ 25॥ धर्माणां अस्मि सन्न्यासः क्षेमाणां अबहिः मतिः । गुह्यानां सूनृतं मौनं मिथुनानां अजः तु अहम् ॥ 26॥ संवत्सरः अस्मि अनिमिषां ऋतूनां मधुमाधवौ । मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित् ॥ 27॥ अहं युगानां च कृतं धीराणां देवलः असितः । द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ 28॥ वासुदेवः भगवतां त्वं भागवतेषु अहम् । किम्पुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ 29॥ रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् । कुशः अस्मि दर्भजातीनां गव्यं आज्यं हविष्षु अहम् ॥ 30॥ व्यवसाईनां अहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववतां अहम् ॥ 31॥ ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् । सात्त्वतां नवमूर्तीनां आदिमूर्तिः अहं परा ॥ 32॥ विश्वावसुः पूर्वचित्तिः गन्धर्व अप्सरसां अहम् । भूधराणां अहं स्थैर्यं गन्धमात्रं अहं भुवः ॥ 33॥ अपां रसः च परमः तेजिष्ठानां विभावसुः । प्रभा सूर्य इन्दु ताराणां शब्दः अहं नभसः परः ॥ 34॥ ब्रह्मण्यानां बलिः अहं विराणां अहं अर्जुनः । भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसङ्क्रमः ॥ 35॥ गति उक्ति उत्सर्ग उपादानं आनन्द स्पर्श लक्षणम् । आस्वाद श्रुति अवघ्राणं अहं सर्वेन्द्रिय इन्द्रियम् ॥ 36॥ पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् । विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् । अहं एतत् प्रसङ्ख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ 37॥ मया ईश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ 38॥ सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतः अण्डानि कोटिशः ॥ 39॥ तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ 40॥ एताः ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ 41॥ वाचं यच्छ मनः यच्छ प्राणानि यच्छ इन्द्रियाणि च । आत्मानं आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ 42॥ यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः । तस्य व्रतं तपः दानं स्रवत्यामघटाम्बुवत् ॥ 43॥ तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः । मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ 44॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे विभूतियोगो नाम षोडशोऽध्यायः ॥ 16॥ अथ सप्तदशोऽध्यायः । उद्धवः उवाच । यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः । वर्णाश्रम आचारवतां सर्वेषां द्विपदां अपि ॥ 1॥ यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् । स्वधर्मेण अरविन्दाक्ष तत् समाख्यातुं अर्हसि ॥ 2॥ पुरा किल महाबाहो धर्मं परमकं प्रभो । यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ 3॥ सः इदानीं सुमहता कालेन अमित्रकर्शन । न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ 4॥ वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि । सभायां अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ 5॥ कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ 6॥ तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ 7॥ श्रीशुकः उवाच । इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ 8॥ श्रीभगवान् उवाच । धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् । वर्णाश्रम आचारवतां तं उद्धव निबोध मे ॥ 9॥ आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः । कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ 10॥ वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् । उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ 11॥ त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी । विद्या प्रादुः अभूत् तस्याः अहं आसं त्रिवृन्मखः ॥ 12॥ विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः । वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ 13॥ गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम । वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ 14॥ वर्णानां आश्रमाणां च जन्मभूमि अनुसारिणीः । आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ 15॥ शमः दमः तपः शौचं सन्तोषः क्षान्तिः आर्जवम् । मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ 16॥ तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यं उद्यमः । स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥ 17॥ आस्तिक्यं दाननिष्ठा च अदम्भः ब्रह्मसेवनम् । अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ 18॥ शुश्रूषणं द्विजगवां देवानां च अपि अमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयः तु इमाः ॥ 19॥ अशौचं अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधः च तर्षः च स्वभावः अन्तेवसाईनाम् ॥ 20॥ अहिंसा सत्यं अस्तेयं अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ 21॥ द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः । वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहुतः ॥ 22॥ मेखला अजिन दण्ड अक्ष ब्रह्मसूत्र कमण्डलून् । जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ 23॥ स्नान भोजन होमेषु जप उच्चारे च वाग्यतः । न च्छिन्द्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ 24॥ रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ 25॥ अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः । समाहितः उपासीत सन्ध्ये च यतवाक् जपन् ॥ 26॥ आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् । न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ 27॥ सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् । यत् च अन्यत् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ 28॥ शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् । यान शय्या आसन स्थानैः न अतिदूरे कृताञ्जलिः ॥ 29॥ एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः । विद्या समाप्यते यावत् बिभ्रत् व्रतं अखण्डितम् ॥ 30॥ यदि असौ छन्दसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ 31॥ अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् । अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ 32॥ स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् । प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ 33॥ शौचं आचमनं स्नानं सन्ध्या उपासनं आर्जवम् । तीर्थसेवा जपः अस्पृश्य अभक्ष्य असम्भाष्य वर्जनम् ॥ 34॥ सर्व आश्रम प्रयुक्तः अयं नियमः कुलनन्दन। मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ 35॥ एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् । मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ 36॥ अथ अनन्तरं आवेक्ष्यन् यथा जिज्ञासित आगमः । गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ 37॥ गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः । आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ 38॥ गृहार्थी सदृशीं भार्यां उद्वहेत् अजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ 39॥ इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ 40॥ प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् । अन्याभ्यां एव जीवेत शिलैः वा दोषदृक् तयोः ॥ 41॥ ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते । कृच्छ्राय तपसे च इह प्रेत्य अनन्तसुखाय च ॥ 42॥ शिलोञ्छवृत्त्या परितुष्टचित्तः धर्मं महान्तं विरजं जुषाणः । मयि अर्पितात्मा गृहः एव तिष्ठन् न अतिप्रसक्तः समुपैति शान्तिम् ॥ 43॥ समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् । तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ 44॥ सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः । आत्मानं आत्मना धीरः यथा गजपतिः गजान् ॥ 45॥ एवंविधः नरपतिः विमानेन अर्कवचसा । विधूय इह अशुभं कृत्स्नं इन्द्रेण सह मोदते ॥ 46॥ सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् । खड्गेन वा आपदाक्रान्तः न श्ववृत्त्या कथञ्चन ॥ 47॥ वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि । चरेत् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ 48॥ शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् । कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ 49॥ वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् । देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ 50॥ यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ 51॥ कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्बि अपि । विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 52॥ पुत्र दारा आप्त बन्धूनां सङ्गमः पान्थसङ्गमः । अनुदेहं वियन्ति एते स्वप्नः निद्रानुगः यथा ॥ 53॥ इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् । न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः ॥ 54॥ कर्मभिः गृहं एधीयैः इष्ट्वा मां एव भक्तिमान् । तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ 55॥ यः तु आसक्तं अतिः गेहे पुत्र वित्तैषण आतुरः । स्त्रैणः कृपणधीः मूढः मम अहं इति बध्यते ॥ 56॥ अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः । अनाथाः मां ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ 57॥ एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् । अतृप्तः तान् अनुध्यायन् मृतः अन्धं विशते तमः ॥ 58॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥ 17॥ अथ अष्टादशोऽध्यायः । श्रीभगवान् उवाच । वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा । वनः एव वसेत् शान्तः तृतीयं भागं आयुषः ॥ 1॥ कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ 2॥ केशरोमनखश्मश्रुमलानि बिभृयात् अतः । न धावेत् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ 3॥ ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले । आकण्ठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ 4॥ अग्निपक्वं समश्नीयात् कालपक्वं अथ अपि वा । उलूखल अश्मकुट्टः वा दन्त उलूखलः एव वा ॥ 5॥ स्वयं सञ्चिनुयात् सर्वं आत्मनः वृत्तिकारणम् । देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ 6॥ वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ 7॥ अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् । चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ 8॥ एवं चीर्णेन तपसा मुनिः धमनिसन्ततः । मां तपोमयं आराध्य ऋषिलोकात् उपैति माम् ॥ 9॥ यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् । कामाय अल्पीयसे युञ्ज्यात् वालिशः कः अपरः ततः ॥ 10॥ यदा असौ नियमे अकल्पः जरया जातवेपथुः । आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ 11॥ यदा कर्मविपाकेषु लोकेषु निरय आत्मसु । विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ 12॥ इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वं ऋत्विजे । अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ 13॥ विप्रस्य वै सन्न्यसतः देवाः दारादिरूपिणः । विघ्नान् कुर्वन्ति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ 14॥ बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् । त्यक्तं न दण्डपात्राभ्यां अन्यत् किञ्चित् अनापदि ॥ 15॥ दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् । सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ 16॥ मौन अनीहा अनिल आयामाः दण्डाः वाक् देह चेतसाम् । नहि एते यस्य सन्ति अङ्गः वेणुभिः न भवेत् यतिः ॥ 17॥ भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् । सप्तागारान् असङ्क्लृप्तान् तुष्येत् लब्धेन तावता ॥ 18॥ बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः । विभज्य पावितं शेषं भुञ्जीत अशेषं आहृतम् ॥ 19॥ एकः चरेत् महीं एतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ 20॥ विविक्तक्षेमशरणः मद्भावविमलाशयः । आत्मानं चिन्तयेत् एकं अभेदेन मया मुनिः ॥ 21॥ अन्वीक्षेत आत्मनः बन्धं मोक्षं च ज्ञाननिष्ठया । बन्धः इन्द्रियविक्षेपः मोक्षः एषां च संयमः ॥ 22॥ तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः । विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ 23॥ पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् । पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ 24॥ वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यं आचरेत् । संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा ॥ 25॥ न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति । असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ 26॥ यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् । सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ 27॥ ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः । सलिङ्गान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ 28॥ बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् । वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ 29॥ वेदवादरतः न स्यात् न पाखण्डी न हैतुकः । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ 30॥ न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु । अतिवादान् तितिक्षेत न अवमन्येत कञ्चन । देहं उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ 31॥ एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः । यथा इन्दुः उदपात्रेषु भूतानि एकात्मकानि च ॥ 32॥ अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् । लब्ध्वा न हृष्येत् धृतिं आनुभयं दैवतन्त्रितम् ॥ 33॥ आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ 34॥ यत् ऋच्छया उपपन्नात् अन्नं अद्यात् श्रेष्ठं उत अपरम् । तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ 35॥ शौचं आचमनं स्नानं न तु चोदनया चरेत् । अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ 36॥ नहि तस्य विकल्पाख्या या च मद्वीक्षया हता । आदेहान्तात् क्वचित् ख्यातिः ततः सम्पद्यते मया ॥ 37॥ दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् । अजिज्ञासित मद्धर्मः गुरुं मुनिं उपाव्रजेत् ॥ 38॥ तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः । यावत् ब्रह्म विजानीयात् मां एव गुरुं आदृतः ॥ 39॥ यः तु असंयत षड्वर्गः प्रचण्ड इन्द्रिय सारथिः । ज्ञान वैराग्य रहितः त्रिदण्डं उपजीवति ॥ 40॥ सुरान् आत्मानं आत्मस्थं निह्नुते मां च धर्महा । अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ 41॥ भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः । गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ 42॥ ब्रह्मचर्यं तपः शौचं सन्तोषः भूतसौहृदम् । गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ 43॥ इति मां यः स्वधर्मेण भजन् नित्यं अनन्यभाक् । सर्वभूतेषु मद्भावः मद्भक्तिं विन्दते अचिरात् ॥ 44॥ भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् । सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ 45॥ इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः । ज्ञान विज्ञान सम्पन्नः न चिरात् समुपैति माम् ॥ 46॥ वर्णाश्रमवतां धर्मः एषः आचारलक्षणः । सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ 47॥ एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् । यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ 48॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे वानप्रस्थसन्न्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः ॥ 18॥ अथ एकोनविंशः अध्यायः । श्रीभगवान् उवाच । यः विद्याश्रुतसम्पन्नः आत्मवान् न अनुमानिकः । मायामात्रं इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ 1॥ ज्ञानिनः तु अहं एव इष्टः स्वार्थः हेतुः च सम्मतः । स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ 2॥ ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम । ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ 3॥ तपः तीर्थं जपः दानं पवित्राणि इतराणि च । न अलं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ 4॥ तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानं उद्धव । ज्ञानविज्ञानसम्पन्नः भज मां भक्तिभावतः ॥ 5॥ ज्ञानविज्ञानयज्ञेन मां इष्ट्वा आत्मानं आत्मनि । सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ 6॥ त्वयि उद्धव आश्रयति यः त्रिविधः विकारः मायान्तरा आपतति न आदि अपवर्गयोः यत् । जन्मादयः अस्य यत् अमी तव तस्य किं स्युः आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये ॥ 7॥ उद्धवः उवाच । ज्ञानं विशुद्धं विपुलं यथा एतत् वैराग्यविज्ञानयुतं पुराणम् । आख्याहि विश्वेश्वर विश्वमूर्ते त्वत् भक्तियोगं च महत् विमृग्यम् ॥ 8॥ तापत्रयेण अभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि न अन्यत् शरणं तवाङ्घ्रि द्वन्द्व आतपत्रात् अमृत अभिवर्षात् ॥ 9॥ दष्टं जनं सम्पतितं बिले अस्मिन् कालाहिना क्षुद्रसुखोः उतर्षम् । समुद्धर एनं कृपया अपवर्ग्यैः वचोभिः आसिञ्च महानुभाव ॥ 10॥ श्रीभगवान् उवाच । इत्थं एतत् पुरा राजा भीष्मं धर्मभृतां वरम् । अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ 11॥ निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः । श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥ 12॥ तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् । ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ 13॥ नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेत अथ एकं अपि एषु तत् ज्ञानं मम निश्चितम् ॥ 14॥ एतत् एव हि विज्ञानं न तथा एकेन येन यत् । स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥ 15॥ आदौ अन्ते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् । पुनः तत् प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत् ॥ 16॥ श्रुतिः प्रत्यक्षं ऐतिह्यं अनुमानं चतुष्टयम् । प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ 17॥ कर्मणां परिणामित्वात् आविरिञ्चात् अमङ्गलम् । विपश्चित् नश्वरं पश्येत् अदृष्टं अपि दृष्टवत् ॥ 18॥ भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ । पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ 19॥ श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ 20॥ आदरः परिचर्यायां सर्वाङ्गैः अभिवन्दनम् । मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ 21॥ मदर्थेषु अङ्गचेष्टा च वचसा मद्गुणेरणम् । मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ 22॥ मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ 23॥ एवं धर्मैः मनुष्याणां उद्धव आत्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ 24॥ यदा आत्मनि अर्पितं चित्तं शान्तं सत्त्व उपबृंहितम् । धर्मं ज्ञानं सवैराग्यं ऐश्वर्यं च अभिपद्यते ॥ 25॥ यत् अर्पितं तत् विकल्पे इन्द्रियैः परिधावति । रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ 26॥ धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् । गुणेषु असङ्गः वैराग्यं ऐश्वर्यं च अणिं आदयः ॥ 27॥ उद्धवः उवाच । यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन । कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ 28॥ किं दानं किं तपः शौर्यं किं सत्यं ऋतं उच्यते । कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥ 29॥ पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव । का विद्या ह्रीः परा का श्रीः किं सुखं दुःखं एव च ॥ 30॥ कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः । कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किं गृहम् ॥ 31॥ कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः । एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ 32॥ श्रीभगवान् उवाच । अहिंसा सत्यं अस्तेयं असङ्गः ह्रीः असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥ 33। शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् । तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ 34॥ एते यमाः सनियमाः उभयोः द्वादश स्मृताः । पुंसां उपासिताः तात यथाकामं दुहन्ति हि ॥ 35॥ शमः मत् निष्ठता बुद्धेः दमः इन्द्रियसंयमः । तितिक्षा दुःखसम्मर्षः जिह्वा उपस्थजयः धृतिः ॥ 36॥ दण्डन्यासः परं दानं कामत्यागः तपः स्मृतम् । स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ 37॥ ऋतं च सूनृता वाणी कविभिः परिकीर्तिता । कर्मस्वसङ्गमः शौचं त्यागः सन्न्यासः उच्यते ॥ 38॥ धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः । दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ 39॥ भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः । विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ 40॥ श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः । दुःखं कामसुख अपेक्षा पण्डितः बन्धमोक्षवित् ॥ 41॥ मूर्खः देह आदि अहं बुद्धिः पन्थाः मत् निगमः स्मृतः । उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ 42॥ नरकः तमः उन्नहः बन्धुः गुरुः अहं सखे । गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ 43॥ दरिद्रः यः तु असन्तुष्टः कृपणः यः अजितेन्द्रियः । गुणेषु असक्तधीः ईशः गुणसङ्गः विपर्ययः ॥ 44॥ एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः । किं वर्णितेन बहुना लक्षणं गुणदोषयोः । गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ 45॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुधवसंवादे एकोनविंशोऽध्यायः ॥ 19॥ अथ विंशः अध्यायः । उद्धवः उवाच । विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते । अवेक्षते अरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ 1॥ वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् । द्रव्य देश वयः कालान् स्वर्गं नरकं एव च ॥ 2॥ गुण दोष भिदा दृष्टिं अन्तरेण वचः तव । निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ 3॥ पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर । श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ 4॥ गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः । निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ 5॥ श्रीभगवान् उवाच । योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥ 6॥ निर्विण्णानां ज्ञानयोगः न्यासिनां इह कर्मसु । तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ 7॥ यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् । न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ 8॥ तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ 9॥ स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव । न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ 10॥ अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः । ज्ञानं विशुद्धं आप्नोति मद्भक्तिं वा यदृच्छया ॥ 11॥ स्वर्गिणः अपि एतं इच्छन्ति लोकं निरयिणः तथा । साधकं ज्ञानभक्तिभ्यां उभयं तत् असाधकम् ॥ 12॥ न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः । न इमं लोकं च काङ्क्षेत देह आवेशात् प्रमाद्यति ॥ 13॥ एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः । अप्रमत्तः इदं ज्ञात्वा मर्त्यं अपि अर्थसिद्धिदम् ॥ 14॥ छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् । खगः स्वकेतं उत्सृज्य क्षेमं याति हि अलम्पटः ॥ 15॥ अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ 16॥ नृदेहं आद्यं सुलभं सुदुर्लभम् प्लवं सुकल्पं गुरुकर्णधारम् । मया अनुकूलेन नभस्वतेरितम् पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ 17॥ यदा आरम्भेषु निर्विण्णः विरक्तः संयतेन्द्रियः । अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ 18॥ धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् । अतन्द्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ 19॥ मनोगतिं न विसृजेत् जितप्राणः जितेन्द्रियः । सत्त्वसम्पन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ 20॥ एषः वै परमः योगः मनसः सङ्ग्रहः स्मृतः । हृदयज्ञत्वं अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ 21॥ साङ्ख्येन सर्वभावानां प्रतिलोम अनुलोमतः । भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ 22॥ निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः । मनः त्यजति दौरात्म्यं चिन्तितस्य अनुचिन्तया ॥ 23॥ यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया । मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ 24॥ यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ 25॥ स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः । कर्मणां जाति अशुद्धानां अनेन नियमः कृतः । गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ 26॥ जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु । वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ 27॥ ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः । जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ 28॥ प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः । कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते ॥ 29॥ भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ 30॥ तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ 31॥ यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् । योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ 32॥ सर्वं मद्भक्तियोगेन मद्भक्तः लभते अञ्जसा । स्वर्ग अपवर्गं मत् धाम कथञ्चित् यदि वाञ्छति ॥ 33॥ न किञ्चित् साधवः धीराः भक्ताः हि एकान्तिनः मम । वाञ्छति अपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ 34॥ नैरपेक्ष्यं परं प्राहुः निःश्रेयसं अनल्पकम् । तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ 35॥ न मयि एकान्तभक्तानां गुणदोष उद्भवाः गुणाः । साधूनां समचित्तानां बुद्धेः परं उपेयुषाम् ॥ 36॥ एवं एतत् मया आदिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ 37॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ 20॥ अथ एकविंशः अध्यायः । श्रीभगवान् उवाच । यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते ॥ 1॥ स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः । विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ 2॥ शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ 3॥ धर्मार्थं व्यवहारार्थं यात्रार्थं इति च अनघ । दर्शितः अयं मया आचारः धर्मं उद्वहतां धुरम् ॥ 4॥ भूमि अम्बु अग्नि अनिल आकाशाः भूतानां पञ्च धातवः । आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ 5॥ वेदेन नामरूपाणि विषमाणि समेषु अपि । धातुषु उद्धव कल्प्यन्तः एतेषां स्वार्थसिद्धये ॥ 6॥ देश काल आदि भावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ 7॥ अकृष्णसारः देशानां अब्रह्मण्यः अशुचिः भवेत् । कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ 8॥ कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा । यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ 9॥ द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च । संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ 10॥ शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने । अघं कुर्वन्ति हि यथा देश अवस्था अनुसारतः ॥ 11॥ धान्य दारु अस्थि तन्तूनां रस तैजस चर्मणाम् । काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ 12॥ अमेध्यलिप्तं यत् येन गन्धं लेपं व्यपोहति । भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ 13॥ स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः । मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः ॥ 14॥ मन्त्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् । धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः ॥ 15॥ क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः । गुणदोषार्थनियमः तत् भिदां एव बाधते ॥ 16॥ समानकर्म आचरणं पतितानां न पातकम् । औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः ॥ 17॥ यतः यतः निवर्तेत विमुच्येत ततः ततः । एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ 18॥ विषयेषु गुणाध्यासात् पुंसः सङ्गः ततः भवेत् । सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ 19॥ कलेः दुर्विषहः क्रोधः तमः तं अनुवर्तते । तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ 20॥ तया विरहितः साधो जन्तुः शून्याय कल्पते । ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ 21॥ विषयाभिनिवेशेन न आत्मानं वेद न अपरम् । वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ 22॥ फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ 23॥ उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ 24॥ न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि । कथं युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ 25॥ एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञाः वदन्ति हि ॥ 26॥ कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धुमतान्ताः स्वं लोकं न विन्दन्ति ते ॥ 27॥ न ते मां अङ्गः जानन्ति हृदिस्थं यः इदं यतः । उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ 28॥ ते मे मतं अविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ 29॥ हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखेच्छया । यजन्ते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ 30॥ स्वप्न् उपमं अमुं लोकं असन्तं श्रवणप्रियम् । आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक् ॥ 31॥ रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः । उपासतः इन्द्रमुख्यान् देवादीन् न तथा एव माम् ॥ 32॥ इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि । तस्य अन्तः इह भूयास्मः महाशाला महाकुलाः ॥ 33॥ एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् । मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ 34॥ वेदाः ब्रह्मात्मविषयाः त्रिकाण्डविषयाः इमे । परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ 35॥ शब्दब्रह्म सुदुर्बोधं प्राण इन्द्रिय मनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ 36॥ मया उपबृंहितं भूम्ना ब्रह्मणा अनन्तशक्तिना । भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ 37॥ यथा ऊर्णनाभिः हृदयात् ऊर्णां उद्वमते मुखात् । आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ 38॥ छन्दोमयः अमृतमयः सहस्रपदवीं प्रभुः । ओङ्कारात् व्यञ्जित स्पर्श स्वर उष्म अन्तस्थ भूषिताम् ॥ 39॥ विचित्रभाषाविततां छन्दोभिः चतुर उत्तरैः । अनन्तपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ 40॥ गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च । त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि अतिजगत् विराट् ॥ 41॥ किं विधत्ते किं आचष्टे किं अनूद्य विकल्पयेत् । इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥42॥ मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् । एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् । मायामात्रं अनूद्य अन्ते प्रतिषिध्य प्रसीदति ॥ 43॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवद्द्धवसंवादे वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ 21॥ अथ द्वाविंशः अध्यायः । उद्धवः उवाच । कति तत्त्वानि विश्वेश सङ्ख्यातानि ऋषिभिः प्रभो । नव एकादश पञ्च त्रीणि आत्थ त्वं इह शुश्रुम ॥ 1॥ केचित् षड्विंशतिं प्राहुः अपरे पञ्चविंशतिम् । सप्त एके नव षट् केचित् चत्वारि एकादश अपरे । केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ 2॥ एतावत् त्वं हि सङ्ख्यानां ऋषयः यत् विवक्षया । गायन्ति पृथक् आयुष्मन् इदं नः वक्तुं अर्हसि ॥ 3॥ श्रीभगवान् उवाच । युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा । मायां मदीयां उद्गृह्य वदतां किं नु दुर्घटम् ॥ 4॥ न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ 5॥ यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् । प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ 6॥ परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्व अपर्य प्रसङ्ख्यानं यथा वक्तुः विवक्षितम् ॥ 7॥ एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ 8॥ पौर्व अपर्यं अतः अमीषां प्रसङ्ख्यानं अभीप्सताम् । यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसम्भवात् ॥ 9॥ अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् । स्वतः न सम्भवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ 10॥ पुरुष ईश्वरयोः अत्र न वैलक्षण्यं अणु अपि । तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ 11॥ प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः । सत्त्वं रजः तमः इति स्थिति उत्पत्ति अन्तहेतवः ॥ 12॥ सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानं इह उच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रं एव च ॥ 13॥ पुरुषः प्रकृतिः व्यक्तं अहङ्कारः नभः अनिलः । ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ 14॥ श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः । वाक् पाणि उपस्थ पायु अङ्घ्रिः कर्माण्यङ्ग उभयं मनः ॥ 15॥ शब्दः स्पर्शः रसः गन्धः रूपं च इति अर्थजातयः । गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ 16॥ सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी । सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ 17॥ व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया । लब्धवीर्याः सृजन्ति अण्डं संहताः प्रकृतेः बलात् ॥ 18॥ सप्त एव धातवः इति तत्र अर्थाः पञ्च खादयः । ज्ञानं आत्मा उभय आधारः ततः देह इन्द्रिय आसवः ॥ 19॥ षड् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् । तैः युक्तः आत्मसम्भूतैः सृष्ट्वा इदं समुपाविशत् ॥ 20॥ चत्वारि एव इति तत्र अपि तेजः आपः अन्नं आत्मनः । जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ 21॥ सङ्ख्याने सप्तदशके भूतमात्र इन्द्रियाणि च । पञ्चपञ्च एक मनसा आत्मा सप्तदशः स्मृतः ॥ 22॥ तद्वत् षोडशसङ्ख्याने आत्मा एव मनः उच्यते । भूतेन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदशः ॥ 23॥ एकादशत्वः आत्मा असौ महाभूतेन्द्रियाणि च । अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ 24॥ इति नाना प्रसङ्ख्यानं तत्त्वानां ऋषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्वात् विदुषां किं अशोभनम् ॥ 25॥ उद्धवः उवाच । प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ । अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ 26॥ एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुं अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ 27॥ त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः । त्वं एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ 28॥ श्रीभगवान् उवाच । प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ । एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ 29॥ मम अङ्ग माया गुणमयी अनेकधा विकल्पबुद्धीः च गुणैः विधत्ते । वैकारिकः त्रिविधः अध्यात्मं एकम् अथ अधिदैवं अधिभूतं अन्यत् ॥ 30॥ दृक् रूपं आर्कं वपुः अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यत् एषं अपरः यः आद्यः स्वया अनुभूत्य अखिलसिद्धसिद्धिः । एवं त्वक् आदि श्रवणादि चक्षुः जिह्व आदि नास आदि च चित्तयुक्तम् ॥ 31॥ यः असौ गुणक्षोभकृतौ विकारः प्रधानमूलात् महतः प्रसूतः । अहं त्रिवृत् मोहविकल्पहेतुः वैकारिकः तामसः ऐन्द्रियः च ॥ 32॥ आत्मापरिज्ञानमयः विवादः हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः । व्यर्थः अपि न एव उपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ 33॥ उद्धवः उवाच । त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो । उच्च अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ 34॥ तत् मम आख्याहि गोविन्द दुर्विभाव्यं अनात्मभिः । न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः ॥ 35॥ श्रीभगवान् उवाच । मनः कर्ममयं नृणां इन्द्रियैः पञ्चभिः युतम् । लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ 36॥ ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ । उद्यत् सीदत् कर्मतन्त्रं स्मृतिः तत् अनुशाम्यति ॥ 37॥ विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः । जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्तविस्मृतिः ॥ 38॥ जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद । विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ 39॥ स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ । तत्र पूर्वं इव आत्मानं अपूर्वं च अनुपश्यति ॥ 40॥ इन्द्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि । बहिः अन्तः भिदाहेतुः जनः असत् जनकृत् यथा ॥ 41॥ नित्यदा हि अङ्गः भूतानि भवन्ति न भवन्ति च । कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ 42॥ यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ 43॥ सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् । सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा आयुषाम् ॥ 44॥ मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् । म्रियते वामरः भ्रान्त्या यथा अग्निः दारु संयुतः ॥ 45॥ निषेकगर्भजन्मानि बाल्यकौमारयौवनम् । वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ 46॥ एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः । गुणसङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ 47॥ आत्मनः पितृपुत्राभ्यां अनुमेयौ भवाप्ययौ । न भवाप्ययवस्तूनां अभिज्ञः द्वयलक्षणः ॥ 48॥ तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ । तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ 49॥ प्रकृतेः एवं आत्मानं अविविच्य अबुधः पुमान् । तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥ 50॥ सत्त्वसङ्गात् ऋषीन् देवान् रजसा असुरमानुषान् । तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ 51॥ नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् । एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ 52॥ यथा अम्भसा प्रचलता तरवः अपि चलाः इव । चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ 53॥ यथा मनोरथधियः विषयानुभवः मृषा । स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ 54॥ अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 55॥ तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः । आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ 56॥ क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा । ताडितः सन्निबद्धः वा वृत्त्या वा परिहापितः ॥ 57॥ निष्ठितः मूत्रितः बहुधा एवं प्रकम्पितः । श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानं उद्धरेत् ॥ 58॥ उद्धवः उवाच । यथा एवं अनुबुद्ध्येयं वद नः वदतां वर । सुदुःसहं इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ 59॥ विदुषं अपि विश्वात्मन् प्रकृतिः हि बलीयसी । ऋते त्वत् धर्मनिरतान् शान्ताः ते चरणालयान् ॥ 60॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे द्वाविंशोऽध्यायः ॥ 22॥ अथ त्रयोविंशः अध्यायः । बादरायणिः उवाच । सः एवं आशंसितः उद्धवेन भागवतमुख्येन दाशार्हमुख्यः । सभाजयन् बृत्यवचः मुकुन्दः तं आबभाषे श्रवणीयवीर्यः ॥ 1॥ श्रीभगवान् उवाच । बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः । दुरुक्तैः भिन्नं आत्मानं यः समाधातुं ईश्वरः ॥ 2॥ न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः । यथा तुदन्ति मर्मस्थाः हि असतां परुषेषवः ॥ 3॥ कथयन्ति महत्पुण्यं इतिहासं इह उद्धव । तं अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ 4॥ केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ 5॥ अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया । वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ 6॥ ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः । शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ 7॥ दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः । दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ 8॥ तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः । धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ 9॥ तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरिद । अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ 10॥ ज्ञातयः जगृहुः किञ्चित् किञ्चित् अस्यवः उद्धव । दैवतः कालतः किञ्चित् ब्रह्मबन्धोः नृपार्थिवात् ॥ 11॥ सः एवं द्रविणे नष्टे धर्मकामविवर्जितः । उपेक्षितः च स्वजनैः चिन्तां आप दुरत्ययाम् ॥ 12॥ तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः । खिद्यतः बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत् ॥ 13॥ सः च आह इदं अहो कष्टं वृथा आत्मा मे अनुतापितः । न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ 14॥ प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन । इह च आत्मोपतापाय मृतस्य नरकाय च ॥ 15॥ यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः । लोभः स्वल्पः अपि तान् हन्ति श्वित्रः रूपं इव इप्सितम् ॥ 16॥ अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये । नाश उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम् ॥ 17॥ स्तेयं हिंसा अनृतं दम्भः कामः क्रोधः स्मयः मदः । भेदः वैरं अविश्वासः संस्पर्धा व्यसनानि च ॥ 18॥ एते पञ्चदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् । तस्मात् अनर्थं अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ 19॥ भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा । एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ 20॥ अर्थेन अल्पीयसा हि एते संरब्धा दीप्तं अन्यवः । त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम् ॥ 21॥ लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् । तत् अनादृत्य ये स्वार्थं घ्नन्ति यान्ति अशुभां गतिम् ॥ 22॥ स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकं इमं पुमान् । द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ 23॥ देवर्षि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः । असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ 24॥ व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् । कुशलाः येन सिध्यन्ति जरठः किं नु साधये ॥ 25॥ कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् । कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ 26॥ किं धनैः धनदैः वा किं कामैः वा कामदैः उत । मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ 27॥ नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः । येन नीतः दशां एतां निर्वेदः च आत्मनः प्लवः ॥ 28॥ सः अहं कलौ अशेषेण शोषयिह्ह्ये अङ्गं आत्मनः । अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ 29॥ तत्र मां अनुमोदेरन् देवाः त्रिभुवनेश्वराः । मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ 30॥ श्रीभगवान् उवाच । इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः । उन्मुच्य हृदयग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः ॥ 31॥ सः चचार महीं एतां संयत आत्मेन्द्रिय अनिलः । भिक्षार्थं नगर ग्रामान् असङ्गः अलक्षितः अविशत् ॥ 32॥ तं वै प्रवयसं भिक्षुं अवधूतं असज्जनाः । दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ 33॥ केचित् त्रिवेणुं जगृहुः एके पात्रं कमण्डलुम् । पीठं च एके अक्षसूत्रं च कन्थां चीराणि केचन ॥ 34॥ प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः । अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित् तटे ॥ 35॥ मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि । यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ 36॥ तर्जयन्ति अपरे वाग्भिः स्तेनः अयं इति वादिनः । बध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यतां इति ॥ 37॥ क्षिपन्ति एके अवजानन्तः एषः धर्मध्वजः शठः । क्षीणवित्तः इमां वृत्तिं अग्रहीत् स्वजन उज्झितः ॥ 38॥ अहो एषः महासारः धृतिमान् गिरिः आडिव । मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ 39॥ इति एके विहसन्ति एनं एके दुर्वातयन्ति च । तं बबन्धुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ 40॥ एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यं आत्मनः दिष्टं प्राप्तं प्राप्तं अबुध्यत ॥ 41॥ परिभूतः इमां गाथां अगायत नराधमैः । पातयद्भिः स्वधर्मस्थः धृतिं आस्थाय सात्विकीम् ॥ 42॥ द्विजः उवाच । न अयं जनः मे सुखदुःखहेतुः न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणं आमनन्ति संसारचक्रं परिवर्तयेत् यत् ॥ 43॥ मनः गुणान् वै सृजते बलीयः ततः च कर्माणि विलक्षणानि । शुक्लानि कृष्णानि अथ लोहितानि तेभ्यः सवर्णाः सृतयः भवन्ति ॥ 44॥ अनीहः आत्मा मनसा समीहता हिरण्मयः मत्सखः उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धः गुणसङ्गतः असौ ॥ 45॥ दानं स्वधर्मः नियमः यमः च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षणान्ताः परः हि योगः मनसः समाधि ॥ 46॥ समाहितं यस्य मनः प्रशान्तम् दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनः विनश्यत् दानादिभिः चेत् अपरं किमेभिः ॥ 47॥ मनोवशे अन्ये हि अभवन् स्म देवाः मनः च न अन्यस्य वशं समेति । भीष्मः हि देवः सहसः सहीयान् युञ्ज्यात् वशे तं सः हि देवदेवः ॥ 48॥ तं दुर्जयं शत्रुं असह्यवेगं मरुन्तुदं तत् न विजित्य केचित् । कुर्वन्ति असत् विग्रहं अत्र मर्त्यैः मित्राणि उदासीन रिपून् विमूढाः ॥ 49॥ देहं मनोमात्रं इमं गृहीत्वा मम अहं इति अन्ध धियः मनुष्याः । एषः अहं अन्यः अयं इति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ 50॥ जनः तु हेतुः सुखदुःखयोः चेत् किं आत्मनः च अत्र ह भौमयोः तत् । जिह्वां क्वचित् सन्दशति स्वदद्भिः तत् वेदनायां कतमाय कुप्येत् ॥ 51॥ दुःखस्य हेतुः यदि देवताः तु किं आत्मनः तत्र विकारयोः तत् । यत् अङ्गं अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ 52॥ आत्मा यदि स्यात् सुखदुःखहेतुः किं अन्यतः तत्र निजस्वभावः । न हि आत्मनः अन्यत् यदि तत् मृषा स्यात् क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ 53॥ ग्रहाः निमित्तं सुखदुःखयोः चेत् किं आत्मनः अजस्य जनस्य ते वै । ग्रहैः ग्रहस्य एव वदन्ति पीडाम् क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ 54॥ कर्माः तु हेतुः सुखदुःखयोः चेत् किं आत्मनः तत् हि जडाजडत्वे । देहः तु अचित्पुरुषः अयं सुपर्णः क्रुध्येत कस्मै न हि कर्ममूलम् ॥ 55॥ कालः तु हेतुः सुखदुःखयोः चेत् किं आत्मनः तत्र तत् आत्मकः असौ । न अग्नेः हि तापः न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ 56॥ न केनचित् क्व अपि कथञ्चन अस्य द्वन्द्व उपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्यात् एवं प्रबुद्धः न बिभेति भूतैः ॥ 57॥ एतां सः आस्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैः महर्षिभिः । अहं तरिष्यामि दुरन्तपारम् तमः मुकुन्द अङ्घ्रिनिषेवया एव ॥ 58॥ श्रीभगवान् उवाच । निर्विद्य नष्टद्रविणः गतक्लमः प्रव्रज्य गां पर्यटमानः इत्थम् । निराकृतः असद्भिः अपि स्वधर्मात् अकम्पितः अमुं मुनिः आह गाथाम् ॥ 59॥ सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः । मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ 60॥ तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मयि आवेशितया युक्तः एतावान् योगसङ्ग्रहः ॥ 61॥ यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः । धारयन् श्रावयन् श्रुण्वन् द्वन्द्वैः न एव अभिभूयते ॥ 62॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ 23॥ अथ चतुर्विंशोऽध्याः । श्रीभगवान् उवाच । अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैः विनिश्चितम् । यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ 1॥ आसीत् ज्ञानं अथः हि अर्थः एकं एव अविकल्पितम् । यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ 2॥ तत् मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ 3॥ तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका । ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ 4॥ तमः रजः सत्त्वं इति प्रकृतेः अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ 5॥ तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततः विकुर्वतः जातः यः अहङ्कारः विमोहनः ॥ 6॥ वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् । तन्मात्र इन्द्रिय मनसां कारणं चित् अचित् मयः ॥ 7॥ अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च । तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ 8॥ मया सञ्चोदिताः भावाः सर्वे संहति अकारिणः । अण्डं उत्पादयामासुः मम आयतनं उत्तमम् ॥ 9॥ तस्मिन् अहं समभवं अण्डे सलिलसंस्थितौ । मम नाभ्यां अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥ 10॥ सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् । लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ 11॥ देवानां ओकः आसीत् स्वः भूतानां च भुवः पदम् । मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥ 12॥ अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ 13॥ योगस्य तपसः च एव न्यासस्य गतयः अमलाः । महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ 14॥ मया कालात्मना धात्रा कर्मयुक्तं इदं जगत् । गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ 15॥ अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति । सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ 16॥ यः तु यस्य आदिः अन्तः च सः वै मध्यं च तस्य सन् । विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ 17॥ यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् । आदिः अन्तः यदा यस्य तत् सत्यं अभिधीयते ॥ 18॥ प्रकृतिः हि अस्य उपादानं आधारः पुरुषः परः । सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ 19॥ सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः । महान् गुणविसर्ग अर्थः स्थिति अन्तः यावत् ईक्षणम् ॥ 20॥ विराट् मया आसाद्यमानः लोककल्पविकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ 21॥ अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते । धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते ॥ 22॥ अप्सु प्रलीयन्ते गन्धः आपः च स्वगुणे रसे । लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ 23॥ रूपं वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे । अम्बरं शब्दतन्मात्रः इन्द्रियाणि स्वयोनिषु ॥ 24॥ योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे । शब्दः भूतादिं अपि एति भूतादिः महति प्रभुः ॥ 25॥ सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः । ते अव्यक्ते सम्प्रलीयन्ते तत्कले लीयते अव्यये ॥ 26॥ कालः मायामये जीवे जीवः आत्मनि मयि अजे । आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ 27॥ एवं अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः । मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ 28॥ एषः साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ 29॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे प्रकृतिपुरुषसाङ्ख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ 24॥ अथ पञ्चविंशोऽध्यायः । श्रीभगवानुवाच । गुणानां असमिश्राणां पुमान्येन यथा भवेत् । तन्मे पुरुषवर्य इअदं उपधारय शंसतः ॥ 1॥ समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः । तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः ॥ 2॥ कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् । मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ 3॥ क्रोधः लोभः अनृतं हिंसा याञ्चा दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ 4॥ सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः । वृत्तयः वर्णितप्रायाः सन्निपातं अथः श्रुणु ॥ 5॥ सन्निपातः तु अहं इति मम इति उद्धव या मतिः । व्यवहारः सन्निपातः मनोमात्र इन्द्रियासुभिः ॥ 6॥ धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः । गुणानां सन्निकर्षः अयं श्रद्धाः अतिधनावहः ॥ 7॥ प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे । स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ 8॥ पुरुषं सत्त्वसंयुक्तं अनुमीयात् शम आदिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ 9॥ यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियं एव वा ॥ 10॥ यदा आशिषः आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्यात् हिंसां आशास्य तामसम् ॥ 11॥ सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे । चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ 12॥ यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ 13॥ यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ 14॥ यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ 15॥ यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहे अभयं मनोसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ 16॥ विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् । गात्रास्वास्थ्यं मनः भ्रान्तं रजः एतैः निशामय ॥ 17॥ सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् । मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ 18॥ एधमाने गुणे सत्त्वे देवानां बलं एधते । असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ 19॥ सत्त्वात् जगरणं विद्यात् रजसा स्वप्नं आदिशेत् । प्रस्वापं तमसा जन्तोः तुरीयं त्रिषु सन्ततम् ॥ 20॥ उपर्युपरि गच्छन्ति सत्त्वेन आब्रह्मणः जनाः । तमसा अधः अधः आमुख्यात् रजसा अन्तरचारिणः ॥ 21॥ सत्त्वे प्रलीनाः स्वः यान्ति नरलोकं रजोलयाः । तमोलयाः तु निरयं यान्ति मां एव निर्गुणाः ॥ 22॥ मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ 23॥ कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ 24॥ वनं तु सात्विकः वासः ग्रामः राजसः उच्यते । तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ 25॥ सात्विकः कारकः असङ्गी रागान्धः राजसः स्मृतः । तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ 26॥ सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ 27॥ पथ्यं पूतं अनायः तं आहार्यं सात्त्विकं स्मृतम् । राजसं च इन्द्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ 28॥ सात्त्विकं सुखं आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ 29॥ द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः । श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥ 30॥ सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ 31॥ एताः संसृतयः पुंसः गुणकर्मनिबन्धनाः । येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः । भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ 32॥ तस्मात् अहं इमं लब्ध्वा ज्ञानविज्ञानसम्भवम् । गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ 33॥ निःसङ्गः मां भजेत् विद्वान् अप्रमत्तः जितेन्द्रियः । रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ 34॥ सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शान्तधीः । सम्पद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ 35॥ जीवः जीवविनिर्मुक्तः गुणैः च आशयसम्भवैः । मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत् ॥ 36॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे गुणनिर्गुणनिरूपणं नाम पञ्चविंशोऽध्यायः ॥ 25॥ अथ षड्विंशोऽध्यायः । श्रीभगवान् उवाच । मत् लक्षणं इमं कायं लब्ध्वा मद्धर्मः आस्थितः । आनन्दं परमात्मानं आत्मस्थं समुपैति माम् ॥1॥ गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः । वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ 2॥ सङ्गं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् । तस्य अनुगतः तमसि अन्धे पतति अन्ध अनुगान्धवत् ॥ 3॥ ऐलः सम्राट् इमां गाथां अगायत बृहच्छ्रवाः । उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ 4॥ त्यक्त्वा आत्मानं व्रजन्तीं तां नग्नः उन्मत्तवत् नृपः । विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ 5॥ कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः । न वेद यान्तीः न अयान्तीः उर्वशी आकृष्टचेअतनः ॥ 6॥ ऐलः उवाच । अहो मे मोहविस्तारः कामकष्मलचेतसः । देव्याः गृहीतकण्ठस्य न आयुःखण्डाः इमे स्मृताः ॥ 7॥ न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया । मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ 8॥ अहो मे आत्मसम्मोहः येन आत्मा योषितां कृतः । क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ 9॥ सपरिच्छदं आत्मानं हित्वा तृणं इव ईश्वरम् । यान्तीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ 10॥ कुतः तस्य अनुभावः स्यात् तेजः ईशत्वं एव वा । यः अन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ 11॥ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ 12॥ स्वार्थस्य अकोविदं धिङ् मां मूर्खं पण्डित मानिनम् । यः अहं ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ 13॥ सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् । न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ 14॥ पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः । आत्मारामेश्वरं ऋते भगवन्तं अधोक्षजम् ॥ 15॥ बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः । मनोगतः महामोहः न अपयाति अजितात्मनः ॥ 16॥ किं एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः । रज्जुस्वरूप अविदुषः यः अहं यत् अजितेन्द्रियः ॥ 17॥ क्व अयं मलोमसः कायः दौर्गन्धि आदि आत्मकः अशुचिः । क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ 18॥ पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः । किं आत्मनः किं सुहृदां इति यः न अवसीयते ॥ 19॥ तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ 20॥ त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ । विण्मूत्रपूये रमतां कृमीणां कियत् अन्तरम् ॥ 21॥ अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् । विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ 22॥ अदृष्टात् अश्रुतात् भावात् न भावः उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ 23॥ तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः । विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥ 24॥ श्रीभगवान् उवाच । एवं प्रगायन् नृपदेवदेवः सः उर्वशीलोकं अथः विहाय । आत्मानं आत्मनि अवगम्य मां वै उपारमत् ज्ञानविधूतमोहः ॥ 25॥ ततः दुःसङ्गं उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्तः एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ 26॥ सन्तः अनपेक्षाः मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः ॥ 27॥ तेषु नित्यं महाभागः महाभागेषु मत्कथाः । सम्भवन्ति हिता नॄणां जुषतां प्रपुनन्ति अघम् ॥ 28॥ ताः ये श्रुण्वन्ति गायन्ति हि अनुमोदन्ति च अदृताः । मत्पराः श्रद्दधानाः च भक्तिं विन्दन्ति ते मयि ॥ 29॥ भक्तिं लब्धवतः साधोः किं अन्यत् अवशिष्यते । मयि अनन्तगुणे ब्रह्मणि आनन्द अनुभव आत्मनि ॥ 30॥ यथा उपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ 31॥ निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् । सन्तः ब्रह्मविदः शान्ताः नौः दृढ इव अप्सु मज्जताम् ॥ 32॥ अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् । धर्मः वित्तं नृणां प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम् ॥ 33॥ सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः । देवताः बान्धवाः सन्तः सन्तः आत्मा अहं एव च ॥ 34॥ वैतसेनः ततः अपि एवं उर्वश्या लोकनिःस्पृहः । मुक्तसङ्गः महीं एतां आत्मारामः चचार ह ॥ 35॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे ऐलगीतं नाम षड्विंशोऽध्यायः ॥ 26॥ अथ सप्तविंशोऽध्यायः । उद्धवः उवाच । क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो । यस्मात् त्वां ये यथा अर्चन्ति सात्वताः सात्वतर्षभ ॥ 1॥ एतत् वदन्ति मुनयः मुहुः निःश्रेयसं नृणाम् । नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः ॥ 2॥ निःसृतं ते मुखाम्भोजाद्यत् आह भगवान् अजः । पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ 3॥ एतत् वै सर्ववर्णानां आश्रमाणां च सम्मतम् । श्रेयसां उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ 4॥ एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् । भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ 5॥ श्रीभगवान् उवाच । नहि अन्तः अनन्तपारस्य कर्मकाण्डस्य च उद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ 6॥ वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः । त्रयाणां ईप्सितेन एव विधिना मां समर्चयेत् ॥ 7॥ यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ 8॥ अर्चायां स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः । द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं मां अमायया ॥ 9॥ पूर्वं स्नानं प्रकुर्वीत धौतदन्तः अङ्गशुद्धये । उभयैः अपि च स्नानं मन्त्रैः मृद्ग्रहणादिना ॥ 10॥ सन्ध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे । पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ 11॥ शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ 12॥ चल अचल इति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वास आवाहने न स्तः स्थिरायां उद्धव अर्चने ॥ 13॥ अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् । स्नपनं तु अविलेप्यायां अन्यत्र परिमार्जनम् ॥ 14॥ द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः । भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ 15॥ स्नान अलङ्करणं प्रेष्ठं अर्चायां एव तु उद्धव । स्थण्डिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ 16॥ सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः । श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ 17॥ भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते । गन्धः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ 18॥ शुचिः सम्भृतसम्भारः प्राक् दर्भैः कल्पित आसनः । आसीनः प्राक् उदक् वा अर्चेत् अर्चायां अथ सम्मुखः ॥ 19॥ कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् । कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ 20॥ तत् अद्भिः देवयजनं द्रव्याणि आत्मानं एव च । प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ 21॥ पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः । हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत् ॥ 22॥ पिण्डे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेत् नाद अन्ते सिद्धभाविताम् ॥ 23॥ तया आत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः । आवाह्य अर्च आदिषु स्थाप्य न्यस्त अङ्गं मां प्रपूजयेत् ॥ 24॥ पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् । धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ 25॥ पद्मं अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् । उभाभ्यां वेदतन्त्राभ्यां मह्यं तु उभयसिद्धये ॥ 26॥ सुदर्शनं पाञ्चजन्यं गदासीषुधनुः हलान् । मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ 27॥ नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च । महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ 28॥ दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ 29॥ चन्दन उशीर कर्पूर कुङ्कुम अगरु वासितैः । सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति ॥ 30॥ स्वर्णघर्म अनुवाकेन महापुरुषविद्यया । पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ 31॥ वस्त्र उपवीत आभरण पत्र स्रक् गन्ध लेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ 32॥ पाद्यं आचमनीयं च गन्धं सुमनसः अक्षतान् । धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ 33॥ गुडपायससर्पींषि शष्कुलि आपूप मोदकान् । संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ 34॥ अभ्यङ्ग उन्मर्दन आदर्श दन्तधौ अभिषेचनम् । अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ 35॥ विधिना विहिते कुण्डे मेखलागर्तवेदिभिः । अग्निं आधाय परितः समूहेत् पाणिना उदितम् ॥ 36॥ परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि । प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ 37॥ तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसत् चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ 38॥ स्फुरत् किरीट कटक कटिसूत्रवर अङ्गदम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ 39॥ ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च । प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ 40॥ जुहुयात् मूलमन्त्रेण षोडशर्च अवदानतः । धर्मादिभ्यः यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ 41॥ अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् । मूलमन्त्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ 42॥ दत्त्वा आचमनं उच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यं अथ अर्हयेत् ॥ 42॥ उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ 44। स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि । स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ 45॥ शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मां ईश भीतं मृत्युग्रह अर्णवात् ॥ 46॥ इति शेषां मया दत्तां शिरसि आधाय सादरम् । उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ 47॥ अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् । सर्वभूतेषु आत्मनि च सर्व आत्मा अहं अवस्थितः ॥ 48॥ एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन् उभयतः सिद्धिं मत्तः विन्दति अभीप्सिताम् ॥ 49॥ मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेत् दृढम् । पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ 50॥ पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टितां इयात् ॥ 51॥ प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यतां इयात् ॥ 52॥ मां एव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ 53॥ यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः । वृत्तिं सः जायते विड्भुक् वर्षाणां अयुतायुतम् ॥ 54॥ कर्तुः च सारथेः हेतोः अनुमोदितुः एव च । कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ 55॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे सप्तविंशोऽध्यायः ॥ 27॥ अथ अष्टविंशः अध्यायः । श्रीभगवान् उवाच । परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् । विश्वं एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ 1॥ परस्वभावकर्माणि यः प्रशंसति निन्दति । सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ 2॥ तैजसे निद्रया आपन्ने पिण्डस्थः नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ 3॥ किं भद्रं किं अभद्रं वा द्वैतस्य अवस्तुनः कियत् । वाचा उदितं तत् अनृतं मनसा ध्यातं एव च ॥ 4॥ छायाप्रत्याह्वयाभासा हि असन्तः अपि अर्थकारिणः । एवं देहादयः भावाः यच्छन्ति आमृत्युतः भयम् ॥ 5॥ आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ 6॥ तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः । निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ 7॥ एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ 8॥ प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा । आदि अन्तवत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह ॥ 9॥ उद्धवः उवाच । न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः । अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ 10॥ आत्मा अव्ययः अगुणः शुद्धः स्वयञ्ज्योतिः अनावृतः । अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ 11॥ श्रीभगवान् उवाच । यावत् देह इन्द्रिय प्राणैः आत्मनः सन्निकर्षणम् । संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ 12॥ अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ 13॥ यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् । सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ 14॥ शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः ॥ 15॥ देह इन्द्रिय प्राण मनः अभिमानः जीवः अन्तरात्मा गुणकर्म मूर्तिः । सूत्रं महान् इति उरुधा इव गीतः संसारः आधावति कालतन्त्रः ॥ 16॥ अमूलं एतत् बहुरूप रूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिना उपासनया शितेन छित्त्वा मुनिः गां विचरति अतृष्णः ॥ 17॥ ज्ञानं विवेकः निगमः तपः च प्रत्यक्षं ऐतिह्यं अथ अनुमानम् । आदि अन्तयोः अस्य यत् एव केवलम् कालः च हेतुः च तत् एव मध्ये ॥ 18॥ यथा हिरण्यं स्वकृतं पुरस्तात् पश्चात् च सर्वस्य हिरण्मयस्य । तत् एव मध्ये व्यवहार्यमाणम् नानापदेशैः अहं अस्य तद्वत् ॥ 19॥ विज्ञानं एतत् त्रियवस्तं अङ्ग गुणत्रयं कारण कार्य कर्तृ । समन्वयेन व्यतिरेकतः च येन एव तुर्येण तत् एव सत्यम् ॥ 20॥ न यत् पुरस्तात् उत यत् न पश्चात् मध्ये च तत् न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तत् एव तत् स्यात् इति मे मनीषा ॥ 21॥ अविद्यमानः अपि अवभासते यः वैकारिकः राजससर्गः एषः । ब्रह्म स्वयञ्ज्योतिः अतः विभाति ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम् ॥ 22॥ एवं स्फुटं ब्रह्मविवेकहेतुभिः परापवादेन विशारदेन । छित्त्वा आत्मसन्देहं उपारमेत स्वानन्दतुष्टः अखिल कामुकेभ्यः ॥ 23॥ न आत्मा वपुः पार्थिवं इन्द्रियाणि देवाः हि असुः वायुजलं हुताशः । मनः अन्नमात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिः अर्थसाम्यम् ॥ 24॥ समाहितैः कः करणैः गुणात्मभिः गुणः भवेत् मत्सुविविक्तधाम्नः । विक्षिप्यमाणैः उत किं न दूषणम् घनैः उपेतैः विगतैः रवेः किम् ॥ 25॥ यथा नभः वायु अनल अम्बु भू गुणैः गतागतैः वर्तुगुणैः न सज्जते । तथा अक्षरं सत्त्व रजः तमः मलैः अहम्मतेः संसृतिहेतुभिः परम् ॥ 26॥ तथापि सङ्गः परिवर्जनीयः गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावत् रजः निरस्येत मनःकषायः ॥ 27॥ यथा आमयः असाधु चिकित्सितः नृणाम् पुनः पुनः सन्तुदति प्ररोहन् । एवं मनः अपक्व कषय कर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥ 28॥ कुयोगिनः ये विहित अन्तरायैः मनुष्यभूतैः त्रिदश उपसृष्टैः । ते प्राक्तन अभ्यासबलेन भूयः युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ 29॥ करोति कर्म क्रियते च जन्तुः केनापि असौ चोदितः आनिपातात् । न तत्र विद्वान्प्रकृतौ स्थितः अपि निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ 30॥ तिष्ठन्तं आसीनं उत व्रजन्तम् शयानं उक्षन्तं अदन्तं अन्नम् । स्वभावं अन्यत् किं अपि इहमानम् आत्मानं आत्मस्थमतिः न वेद ॥ 31॥ यदि स्म पश्यति असत् इन्द्रिय अथ नाना अनुमानेन विरुद्धं अन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ 32॥ पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानं आत्मनि अविविक्तं अङ्ग । निवर्तते तत् पुनः ईक्षया एव न गृह्यते न अपि विसृज्य आत्मा ॥ 33॥ यथा हि भानोः उदयः नृचक्षुषाम् तमः निहन्यात् न तु सद्विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ 34॥ एषः स्वयञ्ज्योतिः अजः अप्रमेयः महानुभूतिः सकलानुभूतिः । एकः अद्वितीयः वचसां विरामे येन ईशिता वाक् असवः चरन्ति ॥ 35॥ एतावान् आत्मसम्मोहः यत् विकल्पः तु केवले । आत्मन् नृते स्वमात्मानं अवलम्बः न यस्य हि ॥36॥ यत् नाम आकृतिभिः ग्राह्यं पञ्चवर्णं अबाधितम् । व्यर्थेन अपि अर्थवादः अयं द्वयं पण्डितमानिनाम् ॥ 37॥ योगिनः अपक्वयोगस्य युञ्जतः कायः उत्थितैः । उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ 38॥ योगधारणया कांश्चित् आसनैः धारण अन्वितैः । तपोमन्त्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ 39॥ कांश्चित् मम अनुध्यानेन नामसङ्कीर्तन आदिभिः । योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ 40॥ केचित् देहं इमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये ॥ 41॥ न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः । अन्तवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ 42॥ योगं निषेवतः नित्यं कायः चेत् कल्पतां इयात् । तत् श्रद्दध्यात् न मतिमान् योगं उत्सृज्य मत्परः ॥ 43॥ योगचर्यां इमां योगी विचरन् मत् व्यपाश्रयः । न अन्तरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ 44॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ 28॥ अथ एकोनत्रिंशः अध्यायः । सुदुस्तरां इमां मन्ये योगचर्यां अनात्मनः । यथा अञ्जसा पुमान् सिह्येत् तत् मे ब्रूहि अञ्जसा अच्युत ॥ 1॥ प्रायशः पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः । विषीदन्ति असमाधानात् मनोनिग्रहकर्शिताः ॥ 2॥ अथ अतः आनन्ददुघं पदाम्बुजम् हंसाः श्रयेरन् अरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभिः त्वत् मायया अमी विहताः न मानिनः ॥ 3॥ किं चित्रं अच्युत तव एतत् अशेषबन्धः दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् । यः अरोचयत्सह मृगैः स्वयं ईश्वराणाम् श्रीमत् किरीट तट पीडित पाद पीठः ॥ 4॥ तं त्वा अखिल आत्मदयित ईश्वरं आश्रितानाम् सर्व अर्थदं स्वकृतवित् विसृजेत कः नु । कः वा भजेत् किं अपि विस्मृतये अनु भूत्यै किं वा भवेत् न तव पादरजोजुषां नः ॥ 5॥ न एव उपयन्ति अपचितिं कवयः तव ईश ब्रह्मायुषा अपि कृतं ऋधमुदः स्मरन्तः । यः अन्तर्बहिः तनुभृतां अशुभं विधुन्वन् आचार्यचैत्यवपुषा स्वगतं व्यनक्ति ॥ 6॥ श्रीशुकः उवाच । इति उद्धवेन अति अनुरक्त चेतसा पृष्टः जगत्क्रीडनकः स्वशक्तिभिः । गृहीत मूर्तित्रयः ईश्वर ईश्वरः जगाद सप्रेम मनोहरस्मितः ॥ 7॥ श्रीभगवान् उवाच । हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलाम् । यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ 8॥ कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् । मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ 9॥ देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् । देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ 10॥ पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् । कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ 11॥ मां एव सर्वभूतेषु बहिः अन्तः अपावृतम् । ईक्षेत आत्मनि च आत्मानं यथा खं अमल आशयः ॥ 12॥ इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन् मन्यमानः ज्ञानं केवलं आश्रितः ॥ 13॥ ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके । अक्रूरे क्रूरके च एव समदृक् पण्डितः मतः ॥ 14॥ नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् । स्पर्धा असूया तिरस्काराः साहङ्काराः वियन्ति हि ॥ 15॥ विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेत् दण्डवत् भूमौ आश्व चाण्डाल गो खरम् ॥ 16॥ यावत् सर्वेषु भूतेषु मद्भावः न उपजायते । तावत् एवं उपासीत वाङ् मन काय वृत्तिभिः ॥ 17॥ सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया । परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ 18॥ अयं हि सर्वकल्पानां सध्रीचीनः मतः मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ 19॥ न हि अङ्ग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि । मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ 20॥ यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ 21॥ एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् । यत् सत्यं अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ 22॥ एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य सङ्ग्रहः । समासव्यासविधिना देवानां अपि दुर्गमः ॥ 23॥ अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ 24॥ सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ 25॥ यः एतत् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् । तस्य अहं ब्रह्मदायस्य ददामि आत्मानं आत्मना ॥ 26॥ यः एतत् समधीयीत पवित्रं परमं शुचि । सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ 27॥ यः एतत् श्रद्धया नित्यं अव्यग्रः श्रुणुयात् नरः । मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ 28॥ अपि उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ 29॥ न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ 30॥ एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ 31॥ न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते । पीत्वा पीयूषं अमृतं पातव्यं न अवशिष्यते ॥ 32॥ ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ 33॥ मर्त्यः यदा त्यक्त समस्तकर्मा निवेदितात्मा विचिकीर्षितः मे । तदा अमृतत्वं प्रतिपद्यमानः मया आत्मभूयाय च कल्पते वै ॥ 34॥ श्रीशुकः उवाच । सः एवं आदर्शित योगमार्गः तदा उत्तम श्लोकवचः निशम्य । बद्ध अञ्जलिः प्रीति उपरुद्ध कण्ठः न किञ्चित् ऊचेः अश्रु परिप्लुत अक्षः ॥ 35॥ विष्टभ्य चित्तं प्रणय अवघूर्णम् धैर्येण राजन् बहु मन्यमानः । कृताञ्जलिः प्राह यदुप्रवीरम् शीर्ष्णा स्पृशन् तत् चरण अरविन्दम् ॥ 36॥ उद्धवः उवाच । विद्रावितः मोह महा अन्धकारः यः आश्रितः मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमः भीः प्रभवन्ति अज अद्य ॥ 37॥ प्रत्यर्पितः मे भवता अनुकम्पिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञः तव पादमूलम् कः अन्यत् समीयात् शरणं त्वदीयम् ॥ 38॥ वृक्णः च मे सुदृढः स्नेहपाशः दाशार्ह वृष्णि अन्धक सात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया हि आत्म सुबोध हेतिना ॥ 39॥ नमः अस्तु ते महायोगिन् प्रपन्नं अनुशाधि माम् । यथा त्वत् चरण अम्भोजे रतिः स्यात् अनपायिनी ॥ 40॥ श्रीभगवान् उवाच । गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् । तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ 41॥ ईक्षया अलकनन्दाया विधूत अशेष कल्मषः । वसानः वल्कलानि अङ्ग वन्यभुक् सुख निःस्पृहः ॥ 42॥ तितिक्षौः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ 43॥ मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् । मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव । अतिव्रज्य गतीः तिस्रः मां एष्यसि ततः परम् ॥ 44॥ श्रीशुकः उवाच । सः एवं उक्तः हरिमेधसा उद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरः निधाय अश्रुकलाभिः आर्द्रधीः न्यषिञ्चत् अद्वन्द्वपरः अपि उपक्रमे ॥ 45॥ सुदुस्त्यज स्नेह वियोग कातरः न शक्नुवन् तं परिहातुं आतुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ 46॥ ततः तं अन्तर्हृदि सन्निवेश्य गतः महाभागवतः विशालाम् । यथा उपदिष्टां जगत् एकबन्धुना ततः समास्थाय हरेः अगात् गतिम् ॥ 47॥ यः एअतत् आनन्द समुद्र सम्भृतम् ज्ञानामृतं भागवताय भाषितम् । कृष्णेण योगेश्वर सेविताङ्घ्रिणा सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ 48॥ भवभय अपहन्तुं ज्ञानविज्ञानसारम् निगमकृत् उपजहे भृङ्गवत् वेदसारम् । अमृतं उदधितः च अपाययत् भृत्यवर्गान् पुरुषं ऋषभं आद्यं कृष्णसञ्ज्ञं नतः अस्मि ॥ 49॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो नाम एकोनत्रिंशोऽध्यायः ॥ 29॥ अथ त्रिंशः अध्यायः । राजा उवाच । ततः महाभागवते उद्धवे निर्गते वनम् । द्वारवत्यां किं अकरोत् भगवान् भूतभावनः ॥ 1॥ ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं सः कथं अत्यजत् ॥ 2॥ प्रत्याक्रष्टुं नयनं अबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततः यत् सतां आत्मलग्नम् । यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम् दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम् ईयुः ॥ 3॥ ऋषिः उवाच । दिवि भुवि अन्तरिक्षे च महोत्पातान् समुत्थितान् । दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ 4॥ श्रीभगवान् उवाच । एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः । मुहूर्तं अपि न स्थेयं अत्र नः यदुपुङ्गवाः ॥ 5॥ स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारं व्रजन्त्वितः । वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ 6॥ तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः । देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥7॥ ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् । गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ 8॥ विधिः एषः हि अरिष्टघ्नः मङ्गल आयनं उत्तमम् । देव द्विज गवां पूजा भूतेषु परमः भवः ॥ 9॥ इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः । तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ 10॥ तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा । चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ 11॥ ततः तस्मिन् महापानं पपुः मैरेयकं मधु । दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ 12॥ महापान अभिमत्तानां वीराणां दृप्तचेतसाम् । कृष्णमाया विमूढानां सङ्घर्षः सुमहान् अभूत् ॥ 13॥ युयुधुः क्रोधसंरब्धा वेलायां आततायिनः । धनुभिः असिभिः मल्लैः गदाभिः तां अरर्ष्टिभिः ॥ 14॥ पतत्पताकै रथकुञ्जरादिभिः खर उष्ट्र गोभिः महिषैः नरैः अपि । मिथः समेत्य अश्वतरैः सुदुर्मदा न्यहन् शरर्दद्भिः इव द्विपा वने ॥ 15॥ प्रद्युम्न साम्बौ युधि रूढमत्सरौ अक्रूर भोजौ अनिरुद्ध सात्यकी । सुभद्र सङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रा सुरथौ समीयतुः ॥ 16॥ अन्ये च ये वै निशठ उल्मुक आदयः सहस्रजित् शतजित् भानु मुख्याः । अन्योन्यं आसाद्य मदान्धकारिता जघ्नुः मुकुन्देन विमोहिता भृशम् ॥ 17॥ दाशार्ह वृष्णि अन्धक भोज सात्वता मधु अर्बुदा माथुरशूरसेनाः । विसर्जनाः कुकुराः कुन्तयः च मिथः ततः ते अथ विसृज्य सौहृदम् ॥ 18॥ पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च स्वस्त्रीय दौहित्र पितृव्यमातुलैः । मित्राणि मित्रैः सुहृदः सुहृद्भिः ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ 19॥ शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु । शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ 20॥ ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः । जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ 21॥ प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः । हन्तुं कृतधियः राजन् आपन्नाः आततायिनः ॥ 22॥ अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरुनन्दन । एरका मुष्टि परिघौ जरन्तौ जघ्नतुः युधि ॥ 23॥ ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् । स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ 24॥ एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितः भुवः भारः इति मेने अवशेषितः ॥ 25॥ रामः समुद्रवेलायां योगं आस्थाय पौरुषम् । तत् त्याज लोकं मानुष्यं संयोज्य आत्मानं आत्मनि ॥ 26॥ रामनिर्याणं आलोक्य भगवान् देवकीसुतः । निषसाद धरोपस्थे तूष्णीं आसाद्य पिप्पलम् ॥ 27॥ बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया । दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ 28॥ श्रीवत्साङ्कं घनश्यामं तप्त हाटक वर्चसम् । कौशेय अम्बर युग्मेन परिवीतं सुमङ्गलम् ॥ 29॥ सुन्दर स्मित वक्त्र अब्जं नील कुन्तल मण्डितम् । पुण्डरीक अभिरामाक्षं स्फुरन् मकर कुण्डलम् ॥ 30॥ कटिसूत्र ब्रह्मसूत्र किरीट कटक अङ्गदैः । हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ 31॥ वनमाला परीताङ्गं मूर्तिमद्भिः निज आयुधैः । कृत्वा उरौ दक्षिणे पादं आसीनं पङ्कज अरुणम् ॥ 32॥ मुसलौ अशेषायः खण्डकृतेषुः लुब्धकः जराः । मृगास्य आकारं तत् चरणं विव्याध मृगशङ्कया ॥ 33॥ चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः । भीतः पपात शिरसा पादयोः असुरद्विषः ॥ 34॥ अजानता कृतं इदं पापेन मधुसूदन । क्षन्तुं अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ 35॥ यस्य अनुस्मरणं नॄणां अज्ञान ध्वान्त नाशनम् । वदन्ति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ 36॥ तत् मा आशु जहि वैकुण्ठ पाप्मानं मृग लुब्धकम् । यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ 37॥ यस्य आत्म योग रचितं न विदुः विरिञ्चः रुद्र आदयः अस्य तनयाः पतयः गिरां ये । त्वत् मायया पिहित दृष्टयः एतत् अञ्जः किं तस्य ते वयं असत् गतयः गृणीमः ॥ 38॥ श्रीभगवान् उवाच । मा भैः जरे त्वं उत्तिष्ठ कामः एषः कृतः हि मे । याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ 39॥ इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ 40॥ दारुकः कृष्णपदवीं अन्विच्छन् अधिगम्यताम् । वायुं तुलसिकामोदं आघ्राय अभिमुखं ययौ ॥ 41॥ तं तत्र तिग्मद्युभिः आयुधैः वृतम् हि अश्वत्थमूले कृतकेतनं पतिम् । स्नेहप्लुतात्मा निपपात पादयो रथात् अवप्लुत्य सबाष्पलोचनः ॥ 42॥ अपश्यतः त्वत् चरण अम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशः न जाने न लभे च शान्तिम् यथा निशायं उडुपे प्रणष्टे ॥ 43॥ इति ब्रुवते सूते वै रथः गरुडलाञ्छनः । खं उत्पपात राजेन्द्र साश्वध्वजः उदीक्षतः ॥ 44॥ तं अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च । तेन अति विस्मित आत्मानं सूतं आह जनार्दनः ॥ 45॥ गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यः ब्रूहि मत् दशाम् ॥ 46॥ द्वारकायां च न स्थेयं भवद्भिः च स्वबन्धुभिः । मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ 47॥ स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेन आविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ 48॥ त्वं तु मत् धर्मं आस्थाय ज्ञाननिष्ठः उपेक्षकः । मन्माया रचनां एतां विज्ञाय उपशमं व्रज ॥ 49॥ इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ 50॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे यदुकुलसङ्क्षयो नाम त्रिंशोऽध्यायः ॥ 30॥ अथ एकत्रिंशः अध्यायः । श्रीशुकः उवाच । अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः । महेन्द्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ 1॥ पितरः सिद्धगन्धर्वाः विद्याधर महोरगाः । चारणाः यक्षरक्षांसि किन्नर अप्सरसः द्विजाः ॥ 2॥ द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः । गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च ॥ 3॥ ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः । कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ 4॥ भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः । संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ 5॥ लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् । योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ 6॥ दिवि दुन्दुभयः नेदुः पेतुः सुमनः च खात् । सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः ॥ 7॥ देव आदयः ब्रह्ममुख्याः न विशन्तं स्वधामनि । अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ 8॥ सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्रमण्डलम् । गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ 9॥ ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः । विस्मिताः तां प्रशंसन्तः स्वं स्वं लोकं ययुः तदा ॥ 10॥ राजन् परस्य तनुभृत् जननाप्ययेहा मायाविडम्बनं अवेहि यथा नटस्य । सृष्ट्वा आत्मना इदं अनुविश्य विहृत्य च अन्ते संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ 11॥ मर्त्येन यः गुरुसुतं यमलोकनीतम् त्वां च आनयत् शरणदः परम अस्त्र दग्धम् । जिग्ये अन्तक अन्तकं अपि ईशं असौ अवनीशः किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ 12॥ तथा अपि अशेशा स्थिति सम्भव अपि अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् । न इच्छत् प्रणेतुं वपुः अत्र शेषितम् मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ 13॥ यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेत् भक्त्या तां एव आप्नोति अनुत्तमाम् ॥ 14॥ दारुकः द्वारकां एत्य वसुदेव उग्रसेनयोः । पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ 15॥ कथयामास निधनं वृष्णीनां कृत्स्नशः नृप । तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ 16॥ तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः । व्यसवाः शेरते यत्र ज्ञातयः घ्नन्तः आननम् ॥ 17॥ देवकी रोहिणी च एव वसुदेवः तथा सुतौ । कृष्ण राम अवपश्यन्तः शोक आर्ताः विजहुः स्मृतिम् ॥ 18॥ प्राणान् च विजहुः तत्र भगवत् विरह आतुराः । उपगुह्य पतीन् तात चितां आरुरुहुः स्त्रियः ॥ 19॥ रामपत्न्यः च तत् देहं उपगुह्य अग्निं आविशन् । वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः । कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ 20॥ अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः । आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ 21॥ बन्धूनां नष्टगोत्राणां अर्जुनः साम्परायिकम् । हतानां कारयामास यथावत् अनुपूर्वशः ॥ 22॥ द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ 23॥ नित्यं सन्निहितः तत्र भगवान् मधुसूदनः । स्मृत्या अशेषा अशुभहरं सर्व मङ्गलं अमङ्गलम् ॥ 24॥ स्त्री बाल वृद्धान् आदाय हतशेषान् धनञ्जयः । इन्द्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ 25॥ श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः । त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ 26॥ यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ 27॥ इत्थं हरेः भगवतः रुचिर अवतार वीर्याणि बालचरितानि च शन्तमानि । अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः भक्तिं परां परमहंसगतौ लभेत ॥ 28॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे मौसलोपाख्यानं नाम एकत्रिंशोऽध्यायः ॥ 31॥ ॥ इति उद्धवगीता नाम एकादशस्कन्धः समाप्तः ॥

Explore More