Brahman

तैत्तिरीय उपनिषद् - भृगुवल्ली

(Taittiriya Upanishad - Bhrigu Valli)

From Krishna Yajurveda

Bhrigu Valli is the third chapter of the Taittiriya Upanishad, derived from the Taittiriya Aranyaka of the Krishna Yajurveda. It narrates the dialogue between the sage Bhrigu and his father Varuna regarding the nature of Brahman, the ultimate reality. Through five stages of inquiry known as koshas, Bhrigu realizes that Brahman is bliss. This profound text is significant for seekers pursuing self-realization and the dissolution of ignorance. Chanting or meditating upon these verses helps the practitioner cultivate intellectual clarity, achieve inner peace, and ultimately attain the realization of the supreme consciousness that dwells within all existence.

(तै.आ.9.1.1)
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
भृगु॒र्वै वा॑रु॒णिः । वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । अन्न॑-म्प्रा॒ण-ञ्चक्षु॒श्श्रोत्र॒-म्मनो॒ वाच॒मिति॑ । तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒भिसं​विँ॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥
इति प्रथमो-ऽनुवाकः ॥ अन्न॒-म्ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्न॒-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥ इति द्वितीयो-ऽनुवाकः ॥ प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒ण-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥ इति तृतीयो-ऽनुवाकः ॥ मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥ इति चतुर्थो-ऽनुवाकः ॥ वि॒ज्ञान॒-म्ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञान॒-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 1 ॥ इति पञ्चमो-ऽनुवाकः ॥ आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्द-म्प्रय॑न्त्य॒भिसं​विँ॑श॒न्तीति॑ । सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । स य ए॒वं-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥ इति षष्ठो-ऽनुवाकः ॥ अन्न॒-न्न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्नम्᳚ । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑र॒-म्प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥ इति सप्तमो-ऽनुवाकः ॥ अन्न॒-न्न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्नम्᳚ । ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । महा॒न्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥ इत्यष्टमो-ऽनुवाकः ॥ अन्न॑-म्ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्नम्᳚ । आ॒का॒शो᳚-ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ 1 ॥ इति नवमो-ऽनुवाकः ॥ न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्न-म्प्रा॒प्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो᳚-ऽन्नग्ं रा॒द्धम् । मुखतो-ऽस्मा अ॑न्नग्ं रा॒ध्यते । एतद्वै मध्यतो᳚-ऽन्नग्ं रा॒द्धम् । मध्यतो-ऽस्मा अ॑न्नग्ं रा॒ध्यते । एतद्वा अन्ततो᳚-ऽन्नग्ं रा॒द्धम् । अन्ततो-ऽस्मा अ॑न्नग्ं रा॒ध्यते ॥ 1 ॥ य ए॑वं-वेँ॒द । क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषी᳚स्समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति ॥ 2 ॥ यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति ॥ 3 ॥ तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚-ऽस्मै का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येण-म्म्रियन्ते द्विषन्त॑स्सप॒त्नाः । परि ये᳚-ऽप्रिया᳚ भ्रातृ॒व्याः । स यश्चा॑य-म्पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ॥ 4 ॥ स य॑ एवं॒-विँत् । अस्मां​ल्लोँ॑कात्प्रे॒त्य । एतमन्नमय-मात्मानमुप॑सङ्क्र॒म्य । एत-म्प्राणमय-मात्मानमुप॑सङ्क्र॒म्य । एत-म्मनोमय-मात्मानमुप॑सङ्क्र॒म्य । एतं-विँज्ञानमय-मात्मानमुप॑सङ्क्र॒म्य । एतमानन्दमय-मात्मानमुप॑सङ्क्र॒म्य । इमां​ल्लोँकान्कामान्नी -कामरूप्य॑नु-स॒ञ्चरन्न् । एतथ्साम गा॑यन्ना॒स्ते । हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ ॥ 5 ॥ अ॒हमन्न-म॒हमन्न-म॒हमन्नम् । अ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दः । अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ । पूर्व-न्देवेभ्यो अमृतस्य ना(3) भा॒यि॒ । यो मा ददाति स इदेव मा(3) वाः॒ । अ॒हमन्न॒-मन्न॑-म॒दन्त॒मा(3) द्मि॒ । अहं॒-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ । य ए॒वं-वेँद॑ । इत्यु॑प॒निष॑त् ॥ 6 ॥ इति दशमो-ऽनुवाकः ॥ ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ ॥ हरिः॑ ओम् ॥ ॥ श्री कृष्णार्पणमस्तु ॥

Explore More