Lord Shiva

श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्

(Shri Shailam Mallikarjuna Suprabhatam)

Traditional

Shri Shailam Mallikarjuna Suprabhatam is a sacred morning invocation dedicated to Lord Mallikarjuna, one of the twelve Jyotirlingas, situated at the holy Srisailam. The stotra begins with traditional prayers to Lord Ganesha and Lord Shiva, seeking auspicious beginnings and spiritual awakening. Chanting this hymn at dawn is believed to bestow inner peace, dissolve negativity, and grant the blessings of Lord Shiva and Goddess Bhramaramba. It serves as a meditative gateway to invoke divine consciousness, aligning the devotee with the cosmic energy of the Srisailam kshetra while fostering devotion and spiritual clarity throughout the day.

प्रातस्स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-
माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ 1॥
कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥
नमस्ते नमस्ते महादेव! शम्भो!
नमस्ते नमस्ते दयापूर्णसिन्धो!
नमस्ते नमस्ते प्रपन्नात्मबन्धो!
नमस्ते नमस्ते नमस्ते महेश ॥ 3॥
शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां
साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् ।
सोमार्धाङ्कितमस्तकां प्रणमतां निस्सीमसम्पत्प्रदां
सुश्लोकां भ्रमराम्बिकां स्मितमुखीं शम्भोस्सखीं त्वां स्तुमः ॥ 4॥
मातः! प्रसीद, सदया भव, भव्यशीले !
लीलालवाकुलितदैत्यकुलापहारे !
श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते !
श्रीशैलनाथदयिते ! तव सुप्रभातम् ॥ 5॥
शम्भो ! सुरेन्द्रनुत ! शङ्कर ! शूलपाणे !
चन्द्रावतंस ! शिव ! शर्व ! पिनाकपाणे !
गङ्गाधर ! क्रतुपते ! गरुडध्वजाप्त !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 6॥
विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते !
विश्वम्भर ! त्रिपुरभेदन ! विश्वयोने !
फालाक्ष ! भव्यगुण ! भोगिविभूषणेश !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 7॥
कल्याणरूप ! करुणाकर ! कालकण्ठ !
कल्पद्रुमप्रसवपूजित ! कामदायिन् !
दुर्नीतिदैत्यदलनोद्यत ! देव देव !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 8॥
गौरीमनोहर ! गणेश्वरसेविताङ्घ्रे !
गन्धर्वयक्षसुरकिन्नरगीतकीर्ते !
गण्डावलम्बिफणिकुण्डलमण्डितास्य !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 9॥
नागेन्द्रभूषण ! निरीहित ! निर्विकार !
निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् ।
नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् !
श्रीपर्वताधिप ! विभो ! तव सुप्रभातम् ॥ 10॥
सृष्टं त्वयैव जगदेतदशेषमीश !
रक्षाविधिश्च विधिगोचर ! तावकीनः ।
संहारशक्तिरपि शङ्कर ! किङ्करी ते
श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 11॥
एकस्त्वमेव बहुधा भव ! भासि लोके
निश्शङ्कधीर्वृषभकेतन ! मल्लिनाथ !
श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ !
श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 12॥
पातालगाङ्गजलमज्जननिर्मलाङ्गाः
भस्मत्रिपुण्ड्रसमलङ्कृतफालभागाः ।
गायन्ति देवमुनिभक्तजना भवन्तं
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 13॥
सारस्वताम्बुयुतभोगवतीश्रितायाः
ब्रह्मेशविष्णुगिरिचुम्बितकृष्णवेण्याः ।
सोपानमार्गमधिरुह्य भजन्ति भक्ताः
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 14॥
श्रीमल्लिकार्जुनमहेश्वरसुप्रभात-
स्तोत्रं पठन्ति भुवि ये मनुजाः प्रभाते ।
ते सर्व सौख्यमनुभूय परानवाप्यं
श्रीशाम्भवं पदमवाप्य मुदं लभन्ते ॥ 15॥
इति श्रीमल्लिकार्जुनसुप्रभातं सम्पूर्णम् ।

Explore More