Lord Vishnu

श्री मध्वाचार्य कृत द्वादश स्तोत्र - तृतीयस्तोत्रम्

(Dvadasha Stotra - Third Stotra)

Madhvacharya

This composition is the third of the twelve profound hymns authored by the 13th-century Dvaita philosopher Sri Madhvacharya. Dedicated to Lord Vishnu, the Supreme Being, the stotra emphasizes the absolute supremacy of Hari as the ultimate father, mother, and refuge of the universe. By shifting one's focus away from worldly distractions and fixing the mind upon the feet of the Lord, a devotee transcends the cycle of existence. Chanting this sacred hymn is believed to foster deep devotion, mental clarity, and spiritual liberation by aligning the individual soul with the divine reality of Lord Vishnu.

अथ तृतीयस्तोत्रम् कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् ।

हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ 1॥
न ततोऽस्त्यपरं जगदीड्यतमं (जगतीड्यतमं) परमात्परतः पुरुषोत्तमतः ।
तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ 2॥
यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति ।
स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ 3॥
श‍ऋणुतामलसत्यवचः परमं शपथेरितं उच्छ्रितबाहुयुगम् ।
न हरेः परमो न हरेः सदृशः परमः स तु सर्व चिदात्मगणात् ॥ 4॥
यदि नाम परो न भवेत (भवेत्स) हरिः कथमस्य वशे जगदेतदभूत् ।
यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ 5॥
न च कर्मविमामल कालगुणप्रभृतीशमचित्तनु तद्धि यतः ।
चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ 6॥
व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् ।
बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥ 7॥
चतुरानन पूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा ।
नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ 8॥
आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा ।
कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ 9॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु तृतीयस्तोत्रं सम्पूर्णम्

Explore More