Goddess Lalita

श्री ललिता त्रिशति नामावलिः

(Shri Lalita Trishati Namavali)

From Brahmanda Purana

Shri Lalita Trishati consists of three hundred sacred names of the Supreme Mother, Lalita Tripurasundari. Found in the Lalitopakhyana of the Brahmanda Purana, this stotra was revealed by Lord Hayagriva to Sage Agastya. It is considered the most secret and powerful among the three great Lalita scriptures, which also include the Sahasranama and Ashtottara. Devotees chant these names to attain internal purity, mental peace, and spiritual liberation. Regular recitation is believed to grant the grace of the Devi, remove ignorance, and fulfill the deepest intentions of the practitioner by awakening the divine consciousness within.

॥ ॐ ऐं ह्रीं श्रीम् ॥
ॐ ककाररूपायै नमः
ॐ कल्याण्यै नमः
ॐ कल्याणगुणशालिन्यै नमः
ॐ कल्याणशैलनिलयायै नमः
ॐ कमनीयायै नमः
ॐ कलावत्यै नमः
ॐ कमलाक्ष्यै नमः
ॐ कल्मषघ्न्यै नमः
ॐ करुणामृतसागरायै नमः
ॐ कदम्बकाननावासायै नमः (10)
ॐ कदम्बकुसुमप्रियायै नमः
ॐ कन्दर्पविद्यायै नमः
ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः
ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः
ॐ कलिदोषहरायै नमः
ॐ कञ्जलोचनायै नमः
ॐ कम्रविग्रहायै नमः
ॐ कर्मादिसाक्षिण्यै नमः
ॐ कारयित्र्यै नमः
ॐ कर्मफलप्रदायै नमः (20)
ॐ एकाररूपायै नमः
ॐ एकाक्षर्यै नमः
ॐ एकानेकाक्षराकृत्यै नमः
ॐ एतत्तदित्यनिर्देश्यायै नमः
ॐ एकानन्दचिदाकृत्यै नमः
ॐ एवमित्यागमाबोध्यायै नमः
ॐ एकभक्तिमदर्चितायै नमः
ॐ एकाग्रचितनिर्ध्यातायै नमः
ॐ एषणारहितादृतायै नमः
ॐ एलासुगन्धिचिकुरायै नमः (30)
ॐ एनःकूटविनाशिन्यै नमः
ॐ एकभोगायै नमः
ॐ एकरसायै नमः
ॐ एकैश्वर्यप्रदायिन्यै नमः
ॐ एकातपत्रसाम्राज्यप्रदायै नमः
ॐ एकान्तपूजितायै नमः
ॐ एधमानप्रभायै नमः
ॐ एजदनेजज्जगदीश्वर्यै नमः
ॐ एकवीरादिसंसेव्यायै नमः
ॐ एकप्राभवशालिन्यै नमः (40)
ॐ ईकाररूपायै नमः
ॐ ईशित्र्यै नमः
ॐ ईप्सितार्थप्रदायिन्यै नमः
ॐ ईदृगित्याविनिर्देश्यायै नमः
ॐ ईश्वरत्वविधायिन्यै नमः
ॐ ईशानादिब्रह्ममय्यै नमः
ॐ ईशित्वाद्यष्टसिद्धिदायै नमः
ॐ ईक्षित्र्यै नमः
ॐ ईक्षणसृष्टाण्डकोट्यै नमः
ॐ ईश्वरवल्लभायै नमः
ॐ ईडितायै नमः (50)
ॐ ईश्वरार्धाङ्गशरीरायै नमः
ॐ ईशाधिदेवतायै नमः
ॐ ईश्वरप्रेरणकर्यै नमः
ॐ ईशताण्डवसाक्षिण्यै नमः
ॐ ईश्वरोत्सङ्गनिलयायै नमः
ॐ ईतिबाधाविनाशिन्यै नमः
ॐ ईहाविरहितायै नमः
ॐ ईशशक्त्यै नमः
ॐ ईषत्स्मिताननायै नमः (60)
ॐ लकाररूपायै नमः
ॐ ललितायै नमः
ॐ लक्ष्मीवाणीनिषेवितायै नमः
ॐ लाकिन्यै नमः
ॐ ललनारूपायै नमः
ॐ लसद्दाडिमपाटलायै नमः
ॐ ललन्तिकालसत्फालायै नमः
ॐ ललाटनयनार्चितायै नमः
ॐ लक्षणोज्ज्वलदिव्याङ्ग्यै नमः
ॐ लक्षकोट्यण्डनायिकायै नमः (70)
ॐ लक्ष्यार्थायै नमः
ॐ लक्षणागम्यायै नमः
ॐ लब्धकामायै नमः
ॐ लतातनवे नमः
ॐ ललामराजदलिकायै नमः
ॐ लम्बिमुक्तालताञ्चितायै नमः
ॐ लम्बोदरप्रसुवे नमः
ॐ लभ्यायै नमः
ॐ लज्जाढ्यायै नमः
ॐ लयवर्जितायै नमः (80)
ॐ ह्रीङ्काररूपायै नमः
ॐ ह्रीङ्कारनिलयायै नमः
ॐ ह्रीम्पदप्रियायै नमः
ॐ ह्रीङ्कारबीजायै नमः
ॐ ह्रीङ्कारमन्त्रायै नमः
ॐ ह्रीङ्कारलक्षणायै नमः
ॐ ह्रीङ्कारजपसुप्रीतायै नमः
ॐ ह्रीम्मत्यै नमः
ॐ ह्रींविभूषणायै नमः
ॐ ह्रींशीलायै नमः (90)
ॐ ह्रीम्पदाराध्यायै नमः
ॐ ह्रीङ्गर्भायै नमः
ॐ ह्रीम्पदाभिधायै नमः
ॐ ह्रीङ्कारवाच्यायै नमः
ॐ ह्रीङ्कारपूज्यायै नमः
ॐ ह्रीङ्कारपीठिकायै नमः
ॐ ह्रीङ्कारवेद्यायै नमः
ॐ ह्रीङ्कारचिन्त्यायै नमः
ॐ ह्रीं नमः
ॐ ह्रींशरीरिण्यै नमः (100)
ॐ हकाररूपायै नमः
ॐ हलधृत्पूजितायै नमः
ॐ हरिणेक्षणायै नमः
ॐ हरप्रियायै नमः
ॐ हराराध्यायै नमः
ॐ हरिब्रह्मेन्द्रवन्दितायै नमः
ॐ हयारूढासेविताङ्घ्र्यै नमः
ॐ हयमेधसमर्चितायै नमः
ॐ हर्यक्षवाहनायै नमः
ॐ हंसवाहनायै नमः (110)
ॐ हतदानवायै नमः
ॐ हत्त्यादिपापशमन्यै नमः
ॐ हरिदश्वादिसेवितायै नमः
ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः
ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः
ॐ हरिद्राकुङ्कुमादिग्धायै नमः
ॐ हर्यश्वाद्यमरार्चितायै नमः
ॐ हरिकेशसख्यै नमः
ॐ हादिविद्यायै नमः
ॐ हालामदालसायै नमः (120)
ॐ सकाररूपायै नमः
ॐ सर्वज्ञायै नमः
ॐ सर्वेश्यै नमः
ॐ सर्वमङ्गलायै नमः
ॐ सर्वकर्त्र्यै नमः
ॐ सर्वभर्त्र्यै नमः
ॐ सर्वहन्त्र्यै नमः
ॐ सनातन्यै नमः
ॐ सर्वानवद्यायै नमः
ॐ सर्वाङ्गसुन्दर्यै नमः (130)
ॐ सर्वसाक्षिण्यै नमः
ॐ सर्वात्मिकायै नमः
ॐ सर्वसौख्यदात्र्यै नमः
ॐ सर्वविमोहिन्यै नमः
ॐ सर्वाधारायै नमः
ॐ सर्वगतायै नमः
ॐ सर्वावगुणवर्जितायै नमः
ॐ सर्वारुणायै नमः
ॐ सर्वमात्रे नमः
ॐ सर्वभुषणभुषितायै नमः (140)
ॐ ककारार्थायै नमः
ॐ कालहन्त्र्यै नमः
ॐ कामेश्यै नमः
ॐ कामितार्थदायै नमः
ॐ कामसञ्जीविन्यै नमः
ॐ कल्यायै नमः
ॐ कठिनस्तनमण्डलायै नमः
ॐ करभोरवे नमः
ॐ कलानाथमुख्यै नामः
ॐ कचजिताम्बुदायै नमः (150)
ॐ कटाक्षस्यन्दिकरुणायै नमः
ॐ कपालिप्राणनायिकायै नमः
ॐ कारुण्यविग्रहायै नमः
ॐ कान्तायै नमः
ॐ कान्तिधूतजपावल्यै नमः
ॐ कलालापायै नमः
ॐ कम्बुकण्ठ्यै नमः
ॐ करनिर्जितपल्लवायै नमः
ॐ कल्पवल्लीसमभुजायै नमः
ॐ कस्तूरीतिलकाञ्चितायै नमः (160)
ॐ हकारार्थायै नमः
ॐ हंसगत्यै नमः
ॐ हाटकाभरणोज्ज्वलायै नमः
ॐ हारहारिकुचाभोगायै नमः
ॐ हाकिन्यै नमः
ॐ हल्यवर्जितायै नमः
ॐ हरित्पतिसमाराध्यायै नमः
ॐ हटात्कारहतासुरायै नमः
ॐ हर्षप्रदायै नमः
ॐ हविर्भोक्त्र्यै नमः (170)
ॐ हार्दसन्तमसापहायै नमः
ॐ हल्लीसलास्यसन्तुष्टायै नमः
ॐ हंसमन्त्रार्थरूपिण्यै नमः
ॐ हानोपादाननिर्मुक्तायै नमः
ॐ हर्षिण्यै नमः
ॐ हरिसोदर्यै नमः
ॐ हाहाहूहूमुखस्तुत्यायै नमः
ॐ हानिवृद्धिविवर्जितायै नमः
ॐ हय्यङ्गवीनहृदयायै नमः
ॐ हरिकोपारुणांशुकायै नमः (180)
ॐ लकाराख्यायै नमः
ॐ लतापुज्यायै नमः
ॐ लयस्थित्युद्भवेश्वर्यै नमः
ॐ लास्यदर्शनसन्तुष्टायै नमः
ॐ लाभालाभविवर्जितायै नमः
ॐ लङ्घ्येतराज्ञायै नमः
ॐ लावण्यशालिन्यै नमः
ॐ लघुसिद्धदायै नमः
ॐ लाक्षारससवर्णाभायै नमः
ॐ लक्ष्मणाग्रजपूजितायै नमः (190)
ॐ लभ्येतरायै नमः
ॐ लब्धभक्तिसुलभायै नमः
ॐ लाङ्गलायुधायै नमः
ॐ लग्नचामरहस्त श्रीशारदा परिवीजितायै नमः
ॐ लज्जापदसमाराध्यायै नमः
ॐ लम्पटायै नमः
ॐ लकुलेश्वर्यै नमः
ॐ लब्धमानायै नमः
ॐ लब्धरसायै नमः
ॐ लब्धसम्पत्समुन्नत्यै नमः (200)
ॐ ह्रीङ्कारिण्यै नमः
ॐ ह्रीङ्काराद्यायै नमः
ॐ ह्रीम्मध्यायै नमः
ॐ ह्रींशिखामण्यै नमः
ॐ ह्रीङ्कारकुण्डाग्निशिखायै नमः
ॐ ह्रीङ्कारशशिचन्द्रिकायै नमः
ॐ ह्रीङ्कारभास्कररुच्यै नमः
ॐ ह्रीङ्काराम्भोदचञ्चलायै नमः
ॐ ह्रीङ्कारकन्दाङ्कुरिकायै नमः
ॐ ह्रीङ्कारैकपरायणायै नमः (210)
ॐ ह्रीङ्कारदीर्धिकाहंस्यै नमः
ॐ ह्रीङ्कारोद्यानकेकिन्यै नमः
ॐ ह्रीङ्कारारण्यहरिण्यै नमः
ॐ ह्रीङ्कारावालवल्लर्यै नमः
ॐ ह्रीङ्कारपञ्जरशुक्यै नमः
ॐ ह्रीङ्काराङ्गणदीपिकायै नमः
ॐ ह्रीङ्कारकन्दरासिंह्यै नमः
ॐ ह्रीङ्काराम्भोजभृङ्गिकायै नमः
ॐ ह्रीङ्कारसुमनोमाध्व्यै नमः
ॐ ह्रीङ्कारतरुमञ्जर्यै नमः (220)
ॐ सकाराख्यायै नमः
ॐ समरसायै नमः
ॐ सकलागमसंस्तुतायै नमः
ॐ सर्ववेदान्त तात्पर्यभूम्यै नमः
ॐ सदसदाश्रयायै नमः
ॐ सकलायै नमः
ॐ सच्चिदानन्दायै नमः
ॐ साध्यायै नमः
ॐ सद्गतिदायिन्यै नमः
ॐ सनकादिमुनिध्येयायै नमः (230)
ॐ सदाशिवकुटुम्बिन्यै नमः
ॐ सकलाधिष्ठानरूपायै नमः
ॐ सत्यरूपायै नमः
ॐ समाकृत्यै नमः
ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः
ॐ समानाधिकवर्जितायै नमः
ॐ सर्वोत्तुङ्गायै नमः
ॐ सङ्गहीनायै नमः
ॐ सगुणायै नमः
ॐ सकलेष्टदायै नमः (240)
ॐ ककारिण्यै नमः
ॐ काव्यलोलायै नमः
ॐ कामेश्वरमनोहरायै नमः
ॐ कामेश्वरप्राणनाड्यै नमः
ॐ कामेशोत्सङ्गवासिन्यै नमः
ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः
ॐ कामेश्वरसुखप्रदायै नमः
ॐ कामेश्वरप्रणयिन्यै नमः
ॐ कामेश्वरविलासिन्यै नमः
ॐ कामेश्वरतपस्सिद्ध्यै नमः (250)
ॐ कामेश्वरमनःप्रियायै नमः
ॐ कामेश्वरप्राणनाथायै नमः
ॐ कामेश्वरविमोहिन्यै नमः
ॐ कामेश्वरब्रह्मविद्यायै नमः
ॐ कामेश्वरगृहेश्वर्यै नमः
ॐ कामेश्वराह्लादकर्यै नमः
ॐ कामेश्वरमहेश्वर्यै नमः
ॐ कामेश्वर्यै नमः
ॐ कामकोटिनिलयायै नमः
ॐ काङ्क्षितार्थदायै नमः (260)
ॐ लकारिण्यै नमः
ॐ लब्धरूपायै नमः
ॐ लब्धधिये नमः
ॐ लब्धवाञ्छितायै नमः
ॐ लब्धपापमनोदूरायै नमः
ॐ लब्धाहङ्कारदुर्गमायै नमः
ॐ लब्धशक्त्यै नमः
ॐ लब्धदेहायै नमः
ॐ लब्धैश्वर्यसमुन्नत्यै नमः
ॐ लब्धबुद्ध्यै नमः (270)
ॐ लब्धलीलायै नमः
ॐ लब्धयौवनशालिन्यै नमः
ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः
ॐ लब्धविभ्रमायै नमः
ॐ लब्धरागायै नमः
ॐ लब्धगत्यै नमः
ॐ लब्धनानागमस्थित्यै नमः
ॐ लब्धभोगायै नमः
ॐ लब्धसुखायै नमः
ॐ लब्धहर्षाभिपूजितायै नमः (280)
ॐ ह्रीङ्कारमूर्त्यै नमः
ॐ ह्रीङ्कारसौधशृङ्गकपोतिकायै नमः
ॐ ह्रीङ्कारदुग्धब्धिसुधायै नमः
ॐ ह्रीङ्कारकमलेन्दिरायै नमः
ॐ ह्रीङ्करमणिदीपार्चिषे नमः
ॐ ह्रीङ्कारतरुशारिकायै नमः
ॐ ह्रीङ्कारपेटकमण्यै नमः
ॐ ह्रीङ्कारादर्शबिम्बिकायै नमः
ॐ ह्रीङ्कारकोशासिलतायै नमः
ॐ ह्रीङ्कारास्थाननर्तक्यै नमः (290)
ॐ ह्रीङ्कारशुक्तिका मुक्तामण्यै नमः
ॐ ह्रीङ्कारबोधितायै नमः
ॐ ह्रीङ्कारमयसौर्णस्तम्भविदृम पुत्रिकायै नमः
ॐ ह्रीङ्कारवेदोपनिषदे नमः
ॐ ह्रीङ्काराध्वरदक्षिणायै नमः
ॐ ह्रीङ्कारनन्दनारामनवकल्पक वल्लर्यै नमः
ॐ ह्रीङ्कारहिमवद्गङ्गायै नमः
ॐ ह्रीङ्कारार्णवकौस्तुभायै नमः
ॐ ह्रीङ्कारमन्त्रसर्वस्वायै नमः
ॐ ह्रीङ्कारपरसौख्यदायै नमः (300)

Explore More