Goddess Kali

श्री कालिकाष्टकम्

(Shri Kalikashtakam)

Adi Shankaracharya

Composed by the philosopher Adi Shankaracharya, this profound stotra offers an evocative description of Goddess Kali in her fierce, transformative form. Through its eight powerful verses, the hymn explores themes of time, dissolution, and ultimate liberation. Devotees chant this prayer to overcome the fear of death, destroy ignorance, and gain spiritual strength. The meditation on the Goddess’s formidable appearance serves as a symbolic shedding of the ego, helping the practitioner transcend worldly attachments and attain the divine grace of the Mother who consumes all duality and ego to reveal the eternal truth.

ध्यानम्

गलद्रक्तमुण्डावलीकण्ठमाला
महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥ 1 ॥
भुजे वामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तना भारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ 2 ॥
शवद्वन्द्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभिः
चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ 3 ॥
स्तुतिः
विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्
समाराध्य कालीं प्रधाना बभूवुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 1 ॥
जगन्मोहिनीयं तु वाग्वादिनीयं
सुहृत्पोषिणी शत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 2 ॥
इयं स्वर्गदात्री पुनः कल्पवल्ली
मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 3 ॥
सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 4 ॥
चिदानन्दकन्दं हसन्मन्दमन्दं
शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 5 ॥
महामेघकाली सुरक्तापि शुभ्रा
कदाचिद्विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 6 ॥
क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशीकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 7 ॥
यदि ध्यानयुक्तं पठेद्यो मनुष्यः
तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ 8 ॥
इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकम् ।

Explore More