Lord Vishnu

श्री हर्यष्टकम् (प्रह्लाद कृतम्)

(Shri Haryashtakam (Prahlada Kritam))

From Vishnu Purana

Shri Haryashtakam is a profound devotional composition traditionally attributed to the saintly devotee Prahlada. Found within the Puranic literature, this stotra glorifies the divine power of the name Hari, emphasizing that even an unintentional utterance of the Lord's name purifies the soul of all sins, much like fire burns regardless of how it is touched. Chanting this hymn serves as a powerful spiritual practice to dissolve negative karmic imprints, cultivate devotion, and attain the grace of Lord Vishnu, leading the seeker toward liberation and internal peace through constant remembrance of the Supreme Divine.

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥ 1 ॥
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ 2 ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 3 ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ 4 ॥
गवां कोटिसहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 5 ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 6 ॥
अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 7 ॥
प्राणः प्रयाण पाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्त परित्राणं हरिरित्यक्षरद्वयम् ॥ 8 ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ 9 ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं बलमारोग्यं यशो वृद्धिः श्रियावहम् ॥ 10 ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् ।
यः पठेत्स नरो याति तद्विष्णोः परमं पदम् ॥ 11 ॥
इति प्रह्लादकृत श्री हर्यष्टकम् ।

Explore More