Goddess Durga

श्री दुर्गा चन्द्रकला स्तुति

(Shri Durga Chandrakala Stuti)

Appayya Dikshita

The Shri Durga Chandrakala Stuti is a profound devotional hymn composed by the great polymath Appayya Dikshita. Dedicated to Goddess Durga, who is venerated as the protectress residing in the Vindhya mountains and the slayer of demons like Madhu and Kaitabha, this stotra celebrates her as the divine energy governing the universe. Through its rhythmic and evocative verses, the hymn seeks the maternal grace of the Goddess to dissolve worldly obstacles and sorrows. Reciting this stuti is believed to bestow spiritual clarity, inner strength, and the protective blessings of the Divine Mother upon the practitioner.

ध्यानम्

उमाकान्ते रमाकान्ते एषामासी-न्मतिस्समा ।
नमामि दीक्षितेन्द्रां स्तान् नयषट्क-विशारदाम् ॥
वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे ।
हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ 1 ॥
अभ्यर्थनेन सरसीरुहसम्भवस्य
त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।
विश्वेश्वरी विपदपाकमने पुरस्तात्
माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ 2 ॥
प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः
एकीभवद्भिरुदिताऽखिललोकगुप्त्यै ।
सम्पन्नशस्त्रनिकरा च तदायुधस्थैः
माता ममास्तु महिषान्तकरी पुरस्तात् ॥ 3 ॥
प्रालेयशैलतनया तनुकान्तिसम्पत्
कोशोदिता कुवलयच्छविचारुदेहा ।
नारायणी नमदभीप्सितकल्पवल्ली
सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ 4 ॥
विश्वेश्वरीति महिषान्तकरीति यस्याः
नारायणीत्यपि च नामभिरङ्कितानि ।
सूक्तानि पङ्कजभुवा च सुरर्षिभिश्च
दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ 5 ॥
उत्पत्तिदैत्यहननस्तवनात्मकानि
संरक्षकाण्यखिलभूतहिताय यस्याः ।
सूक्तान्यशेषनिगमान्तविदः पठन्ति
तां विश्वमातरमजस्रमभिष्टवीमि ॥ 6 ॥
ये वैप्रचित्तपुनरुत्थितशुम्भमुख्यैः
दुर्भिक्षघोरसमयेन च कारितासु ।
आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः
तैरम्बिका समभिरक्षतु मां विपद्भ्यः ॥ 7 ॥
सूक्तं यदीयमरविन्दभवादि दृष्टं
आवर्त्य देव्यनुपदं सुरथः समाधिः ।
द्वावप्यवापतुरभीष्टमनन्यलभ्यं
तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥ 8 ॥
माहिष्मतीतनुभवं च रुरुं च हन्तुं
आविष्कृतैर्निजरसादवतारभेदैः ।
अष्टादशाहतनवाहतकोटिसङ्ख्यैः
अम्बा सदा समभिरक्षतु मां विपद्भ्यः ॥ 9 ॥
एतच्चरित्रमखिलं लिखितं हि यस्याः
सम्पूजितं सदन एव निवेशितं वा ।
दुर्गं च तारयति दुस्तरमप्यशेषं
श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ 10 ॥
यत्पूजनस्तुतिनमस्कृतिभिर्भवन्ति
प्रीताः पितामहरमेशहरास्त्रयोऽपि ।
तेषामपि स्वकगुणैर्ददती वपूंषि
तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ 11 ॥
कान्तारमध्यदृढलग्नतयाऽवसन्नाः
मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः ।
यस्याः प्रपद्य चरणौ विपदस्तरन्ति
सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ 12 ॥
बन्धे वधे महति मृत्युभये प्रसक्ते
वित्तक्षये च विविधे य महोपतापे ।
यत्पादपूजनमिह प्रतिकारमाहुः
सा मे समस्तजननी शरणं भवानी ॥ 13 ॥
बाणासुरप्रहितपन्नगबन्धमोक्षः
तद्बाहुदर्पदलनादुषया च योगः ।
प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात्
सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ 14 ॥
पापः पुलस्त्यतनयः पुनरुत्थितो मां
अद्यापि हर्तुमयमागत इत्युदीतम् ।
यत्सेवनेन भयमिन्दिरयाऽवधूतं
तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ 15 ॥
यद्ध्यानजं सुखमवाप्यमनन्तपुण्यैः
साक्षात्तमच्युत परिग्रहमाश्ववापुः ।
गोपाङ्गनाः किल यदर्चनपुण्यमात्राः
सा मे सदा भगवती भवतु प्रसन्ना ॥ 16 ॥
रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्नान्
उद्बोध्य मृत्युवधिमन्यफलैः प्रलोभ्य ।
बुद्ध्वा च तद्विमुखतां प्रतनं नयन्तीं
आकाशमादिजननीं जगतां भजे ताम् ॥ 17 ॥
देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः ।
सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये ॥ 18 ॥
इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचन्द्रकलास्तुतिः ॥

Explore More