Lord Shiva

श्री दक्षिणामूर्थि अष्टोत्तर शत नामावलिः

(Shri Dakshinamurti Ashtottara Shatanamavali)

Traditional

This sacred text consists of one hundred and eight names dedicated to Lord Dakshinamurti, the supreme embodiment of wisdom, knowledge, and spiritual enlightenment. As an aspect of Lord Shiva, Dakshinamurti is worshipped as the ultimate Guru who imparts transcendental knowledge in silence. Reciting these names is believed to sharpen the intellect, remove ignorance, and provide clarity to students and spiritual seekers alike. By chanting this stotra with devotion, a practitioner invites the grace of the divine teacher, fostering deep meditation, inner peace, and the eventual realization of the eternal truth inherent within the soul.

ॐ विद्यारूपिणे नमः ।
ॐ महायोगिने नमः ।
ॐ शुद्धज्ञानिने नमः ।
ॐ पिनाकधृते नमः ।
ॐ रत्नालङ्कृतसर्वाङ्गाय नमः ।
ॐ रत्नमालिने नमः ।
ॐ जटाधराय नमः ।
ॐ गङ्गाधारिणे नमः ।
ॐ अचलावासिने नमः ।
ॐ सर्वज्ञानिने नमः । 10 ।
ॐ समाधिधृते नमः ।
ॐ अप्रमेयाय नमः ।
ॐ योगनिधये नमः ।
ॐ तारकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ विष्णुमूर्तये नमः ।
ॐ पुरान्तकाय नमः ।
ॐ उक्षवाहाय नमः । 20 ।
ॐ चर्मवाससे नमः ।
ॐ पीताम्बरविभूषणाय नमः ।
ॐ मोक्षसिद्धये नमः ।
ॐ मोक्षदायिने नमः ।
ॐ दानवारये नमः ।
ॐ जगत्पतये नमः ।
ॐ विद्याधारिणे नमः ।
ॐ शुक्लतनवे नमः ।
ॐ विद्यादायिने नमः ।
ॐ गणाधिपाय नमः । 30 ।
ॐ पापापस्मृतिसंहर्त्रे नमः ।
ॐ शशिमौलये नमः ।
ॐ महास्वनाय नमः ।
ॐ सामप्रियाय नमः ।
ॐ स्वयं साधवे नमः ।
ॐ सर्वदेवैर्नमस्कृताय नमः ।
ॐ हस्तवह्निधराय नमः ।
ॐ श्रीमते नमः ।
ॐ मृगधारिणे नमः ।
ॐ शङ्कराय नमः । 40 ।
ॐ यज्ञनाथाय नमः ।
ॐ क्रतुध्वंसिने नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ यमान्तकाय नमः ।
ॐ भक्तानुग्रहमूर्तये नमः ।
ॐ भक्तसेव्याय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ भस्मोद्धूलितसर्वाङ्गाय नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ महते नमः । 50 ।
ॐ त्रयीमूर्तये नमः ।
ॐ परस्मै ब्रह्मणे नमः ।
ॐ नागराजैरलङ्कृताय नमः ।
ॐ शान्तरूपाय नमः ।
ॐ महाज्ञानिने नमः ।
ॐ सर्वलोकविभूषणाय नमः ।
ॐ अर्धनारीश्वराय नमः ।
ॐ देवाय नमः ।
ॐ मुनिसेव्याय नमः ।
ॐ सुरोत्तमाय नमः । 60 ।
ॐ व्याख्यानदेवाय नमः ।
ॐ भगवते नमः ।
ॐ अग्निचन्द्रार्कलोचनाय नमः ।
ॐ जगत्स्रष्ट्रे नमः ।
ॐ जगद्गोप्त्रे नमः ।
ॐ जगद्ध्वंसिने नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ महादेवाय नमः ।
ॐ महानन्दपरायणाय नमः । 70 ।
ॐ जटाधारिणे नमः ।
ॐ महावीराय नमः ।
ॐ ज्ञानदेवैरलङ्कृताय नमः ।
ॐ व्योमगङ्गाजलस्नाताय नमः ।
ॐ सिद्धसङ्घसमर्चिताय नमः ।
ॐ तत्त्वमूर्तये नमः ।
ॐ महायोगिने नमः ।
ॐ महासारस्वतप्रदाय नमः ।
ॐ व्योममूर्तये नमः ।
ॐ भक्तानामिष्टकामफलप्रदाय नमः । 80 ।
ॐ वीरमूर्तये नमः ।
ॐ विरूपिणे नमः ।
ॐ तेजोमूर्तये नमः ।
ॐ अनामयाय नमः ।
ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ।
ॐ चतुष्षष्टिकलानिधये नमः ।
ॐ भवरोगभयध्वंसिने नमः ।
ॐ भक्तानामभयप्रदाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ ललाटाक्षाय नमः । 90 ।
ॐ गजचर्मणे नमः ।
ॐ ज्ञानदाय नमः ।
ॐ अरोगिणे नमः ।
ॐ कामदहनाय नमः ।
ॐ तपस्विने नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ सन्न्यासिने नमः ।
ॐ गृहस्थाश्रमकारणाय नमः ।
ॐ दान्तशमवतां श्रेष्ठाय नमः । 100 ।
ॐ सत्त्वरूपदयानिधये नमः ।
ॐ योगपट्टाभिरामाय नमः ।
ॐ वीणाधारिणे नमः ।
ॐ विचेतनाय नमः ।
ॐ मन्त्रप्रज्ञानुगाचाराय नमः ।
ॐ मुद्रापुस्तकधारकाय नमः ।
ॐ रागहिक्कादिरोगाणां विनिहन्त्रे नमः ।
ॐ सुरेश्वराय नमः । 108 ।
इति श्री दक्षिणामूर्त्यष्टोत्तरशतनामावलिः ॥

Explore More