Lord Rama

श्रीरामकवचम्

(Shrirama Kavacham)

From Ananda Ramayana

The Shrirama Kavacham is a potent protective hymn derived from the Manohar Kanda of the Ananda Ramayana. It serves as a spiritual armor, invoking the divine grace of Lord Rama to shield the devotee from internal and external afflictions. Reciting this stotra is believed to bestow immense courage, purify the mind, and align the practitioner with the dharma of the Maryada Purushottama. It is traditionally chanted during daily morning prayers or before beginning significant undertakings to ensure divine protection, remove obstacles, and cultivate unwavering devotion toward the Lord of Ayodhya, fostering inner peace and spiritual strength.

श्रीरामकवचम्
॥ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीरामकवचम् ॥
॥ ॐ श्री रामाय तुभ्यं नमः ॥
अगस्तिरुवाच-
आजानुबाहुमरविन्ददळायताक्षमाजन्मशुद्धरसहासमुखप्रसादम् ।
श्यामं गृहीतशरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥ १॥
शृणु वक्ष्याम्यहं सर्वं सुतीक्ष्ण मुनिसत्तम ।
श्रीरामकवचं पुण्यं सर्वकामप्रदायकम् ॥ २॥
अद्वैतानन्दचैतन्यशुद्धसत्त्वैकलक्षणः ।
बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥
तत्त्वविद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि ।
इति रामपदेनासौ परब्रह्माभिधीयते ॥ ४॥
जय रामेति यन्नाम कीर्तयन्नभिवर्णयेत् ।
सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥ ५॥
श्रीरामेति परं मन्त्रं तदेव परमं पदम् ।
तदेव तारकं विद्धि जन्ममृत्युभयापहम् ।
श्रीरामेति वदन् ब्रह्मभावमाप्नोत्यसंशयम् ॥ ६॥
ॐ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः ।
सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता ।
श्रीरामचन्द्रप्रसादसिद्ध्यर्थं जपे विनियोगः ॥
अथ ध्यानं प्रवक्ष्यामि सर्वाभीष्टफलप्रदम् ।
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ॥ १॥
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ।
सीतासौमित्रिसहितं जटामकुटधारिणम् ॥ २॥
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ।
यदा चोरभये राजभये शत्रुभये तथा ॥ ३॥
ध्यात्वा रघुपतिं युद्धे कालानलसमप्रभम् ।
चीरकृष्णाजिनधरं भस्मोद्धूळितविग्रहम् ॥ ४॥
आकर्णाकृष्टसशरकोदण्डभुजमण्डितम् ।
रणे रिपून् रावणादीन् तीक्ष्णमार्गणवृष्टिभिः ॥ ५॥
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ।
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥ ६॥
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ।
वेगात् करालहुङ्कारैः भुग्भुक्कारमहारवैः ॥ ७॥
नदद्भिः परिवादद्भिः समरे रावणं प्रति ।
श्रीरामशत्रुसङ्घान्मे हन मर्दय घातय ॥ ८॥ (खादय)
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ।
एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ॥ ९॥
सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यहं शुभम् ।
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥ १०॥
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ।
उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥ ११॥
भ्रुवोर्दूर्वादळश्यामः तयोर्मध्ये जनार्दनः ।
श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥ १२॥
घ्राणं मे पातु राजर्षिः गण्डं मे जानकीपतिः ।
कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ॥ १३॥
जिह्वां मे वाक्पतिः पातु दन्तावल्यौ रघूत्तमः ।
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥ १४॥
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ।
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥ १५॥
सर्वाण्यङ्गुळिपर्वाणि हस्तौ मे राक्षसान्तकः ।
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥ १६॥
स्तनौ सीतापतिः पातु पार्श्वौ मे जगदीश्वरः ।
मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ॥ १७॥
कौसल्येयः कटिं पातु पृष्ठं दुर्गतिनाशनः ।
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥ १८॥
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ।
जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ॥ १९॥
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ।
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥ २०॥
पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि ।
द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥ २१॥
जामदग्न्यमहादर्पदलनः पातु तानि मे ।
सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ॥ २२॥
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ।
वाङ्मनोबुद्ध्यहङ्कारैः ज्ञानाज्ञानकृतानि च ॥ २३॥
जन्मान्तरकृतानीह पापानि विविधानि च ।
तानि सर्वाणि दग्ध्वाऽऽशु हरकोदण्डखण्डनः ॥ २४॥
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ।
इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ॥ २५॥
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ।
यः पठेत् शृणुयाद्वापि श्रावयेद्वा समाहितः ॥ २६॥
स याति परमं स्थानं रामचन्द्रप्रसादतः ।
महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ॥ २७॥
श्रीरामचन्द्रकवचपठनात् सिद्धिमाप्नुयात् । (शुद्धिमाप्नुयात्)
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ २८॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गान्तर्गतं श्रीरामकवचं
सम्पूर्णम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न
षट् कवचानि पठनीयम् ।
षट् कवचानि पठितुं अशक्तश्चेत्
हनुमत्-लक्ष्मण-सीता-राम –
अथवा हनुमत्-सीता-राम
अथवा हनुमत्-राम / सीता-राम कवचानि ।
अथवा श्रीरामकवचमेव पठनीयम् ॥

Also Chanted For

Peace & Protection

Explore More