पञ्चमः प्रश्नः
अथ हैनं शैब्य-स्सत्यकामः पप्रच्छ।
स यो ह वै त-द्भगव-न्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं-वाँव स तेन लोक-ञ्जयतीति ॥1॥

तस्मै स होवाच एतद् वै सत्यकाम पर-ञ्चापर-ञ्च ब्रह्म यदोङ्कारः।
तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥2॥

स यद्येकमात्रमभिध्यायीत स तेनैव संवेँदितस्तूर्णमेव जगत्यामभिसम्पद्यते।
तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥3॥

अथ यदि द्विमात्रेण मनसि सम्पद्यते सो-ऽन्तरिक्षं-यँजुर्भिरुन्नीयते सोमलोकम्।
स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥4॥
स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥4॥
यः पुनरेत-न्त्रिमात्रेणोमित्येतेनैवाक्षरेण पर-म्पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः।
यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्त-स्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्पर-म्पुरिशय-म्पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥5॥

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥6॥

ऋग्भिरेतं-यँजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते।
तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभय-म्पर-ञ्चेति ॥7॥