None

पतञ्जलि योग सूत्राणि - 3 (विभूति पादः)

(Patanjali Yoga Sutras - 3 (Vibhuti Pada))

Maharishi Patanjali

The Vibhuti Pada is the third chapter of the Yoga Sutras, a foundational text of Indian philosophy attributed to the sage Patanjali. Unlike devotional stotras, this is a technical treatise on the practice of yoga, focusing on dharana, dhyana, and samadhi. It details the siddhis or supernatural powers that manifest as a practitioner progresses along the yogic path. By studying these sutras, aspirants gain profound insights into the nature of consciousness and the human mind. The text serves as a spiritual map for achieving mental mastery, inner clarity, and the ultimate realization of the self.

श्रीपातञ्जलयोगदर्शनम् ।
अथ विभूतिपादः ।
देशबन्धश्चित्तस्य धारणा ॥1॥
तत्र प्रत्ययैकतानता ध्यानम् ॥2॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥3॥
त्रयमेकत्र संयमः ॥4॥
तज्जयात् प्रज्ञालोकः ॥5॥
तस्य भूमिषु विनियोगः ॥6॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥7॥
तदपि बहिरङ्गं निर्बीजस्य ॥8॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥9॥
तस्य प्रशान्तवाहिता संस्कारात् ॥10॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥11॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ॥12॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥13॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥14॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥15॥
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥16॥
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥17॥
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥18॥
प्रत्ययस्य परचित्तज्ञानम् ॥19॥
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥20॥
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥21॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥22॥
मैत्र्यादिषु बलानि ॥23॥
बलेषु हस्तिबलादीनि ॥24॥
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥25॥
भुवनज्ञानं सूर्ये संयमात् ॥26॥
चन्द्रे ताराव्यूहज्ञानम् ॥27॥
ध्रुवे तद्गतिज्ञानम् ॥28॥
नाभिचक्रे कायव्यूहज्ञानम् ॥29॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥30॥
कूर्मनाड्यां स्थैर्यम् ॥31॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥32॥
प्रातिभाद्वा सर्वम् ॥33॥
हृदये चित्तसंवित् ॥34॥
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥35॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥36॥
ते समाधावुपसर्गाव्युत्थाने सिद्धयः ॥37॥
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥38॥
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥39॥
समानजयाज्ज्वलनम् ॥40॥
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ॥41॥
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ॥42॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥43॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥44॥
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ॥45॥
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥46॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥47॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥48॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ॥49॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥50॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥51॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥52॥
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥53॥
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥54॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥55॥
इति श्रीपातञ्जलयोगदर्शने विभूतिपादो नाम तृतीयः पादः ।

Explore More