Lord Vishnu

मुरारि पञ्च रत्न स्तोत्रम्

(Murari Pancha Ratna Stotram)

Adi Shankaracharya

The Murari Pancha Ratna Stotram is a soul-stirring composition attributed to Adi Shankaracharya, dedicated to Lord Vishnu, the protector of the universe. The hymn consists of five exquisite verses, each reflecting the devotee's surrender at the lotus feet of Lord Murari. Through this poetic offering, the composer acknowledges the vanity of worldly attachments and seeks liberation from the cycle of delusion. Chanting this stotra is believed to purify the mind, foster deep detachment from material suffering, and grant the practitioner the profound grace and spiritual clarity bestowed by the Supreme Lord.

यत्सेवनेन पितृमातृसहोदराणां
चित्तं न मोहमहिमा मलिनं करोति ।
इत्थं समीक्ष्य तव भक्तजनान्मुरारे
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ 1 ॥
ये ये विलग्नमनसः सुखमाप्तुकामाः
ते ते भवन्ति जगदुद्भवमोहशून्याः ।
दृष्ट्वा विनष्टधनधान्यगृहान्मुरारे
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ 2 ॥
वस्त्राणि दिग्वलयमावसतिः श्मशाने
पात्रं कपालमपि मुण्डविभूषणानि ।
रुद्रे प्रसादमचलं तव वीक्ष्य शौरे
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ 3 ॥
यत्कीर्तिगायनपरस्य विधातृसूनोः
कौपीनमैणमजिनं विपुलां विभूतिम् ।
स्वस्यार्थ दिग्भ्रमणमीक्ष्य तु सार्वकालं
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ 4 ॥
यद्वीक्षणे धृतधियामशनं फलादि
वासोऽपि निर्जिनवने गिरिकन्दरासु ।
वासांसि वल्कलमयानि विलोक्य चैवं
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ 5 ॥
स्तोत्रं पादाम्बुजस्यैतच्छ्रीशस्य विजितेन्द्रियः ।
पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ 6 ॥
इति मुरारि पञ्चरत्नम् ।

Explore More