Brahman

मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः

(Mundaka Upanishad - Second Mundaka, Second Khanda)

From Atharva Veda

This text originates from the Atharva Veda and represents the pinnacle of Vedanta philosophy. It focuses on the nature of Brahman, the supreme, immutable reality that exists as the substratum of all manifested existence. By contemplating these verses, the seeker learns to pierce the veil of illusion to perceive the light of the divine residing within the cave of the heart. Chanting or meditating upon these profound lines facilitates the dissolution of ignorance, grants intellectual clarity, and aligns the practitioner with the eternal truth, ultimately guiding the soul toward liberation and self-realization.

॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥
आवि-स्सन्निहित-ङ्गुहाचर-न्नाम
महत्पदमत्रैत-थ्समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ
सदसद्वरेण्य-म्परं-विँज्ञानाद्यद्वरिष्ठ-म्प्रजानाम् ॥ 1॥
यदर्चिमद्यदणुभ्यो-ऽणु च
यस्मि~ल्लोका निहिता लोकिनश्च ।
तदेतदक्षर-म्ब्रह्म स प्राणस्तदु वाङ्मनः
तदेतत्सत्य-न्तदमृत-न्तद्वेद्धव्यं सोम्य विद्धि ॥ 2॥
धनुर् गृहीत्वौपनिषद-म्महास्त्रं
शरं ह्युपासा निशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्य-न्तदेवाक्षरं सोम्य विद्धि ॥ 3॥
प्रणवो धनु-श्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरव-त्तन्मयो भवेत् ॥ 4॥
यस्मि-न्द्यौः पृथिवी चान्तरिक्षमोतं
मन-स्सह प्राणैश्च सर्वैः ।
तमेवैक-ञ्जानथ आत्मानमन्या वाचो
विमुञ्चथामृतस्यैष सेतुः ॥ 5॥
अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषो-ऽन्तश्चरते बहुधा जायमानः ।
ओमित्येव-न्ध्यायथ आत्मानं स्वस्ति वः
पाराय तमसः परस्तात् ॥ 6॥
य-स्सर्वज्ञ-स्सर्वविद् यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितो-ऽन्ने हृदयं सन्निधाय ।
तद् विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं-यँद् विभाति ॥ 7॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मि-न्दृष्टे परावरे ॥ 8॥
हिरण्मये परे कोशे विरज-म्ब्रह्म निष्कलम् ।
तच्छुभ्र-ञ्ज्योतिषा-ञ्ज्योतिस्तद् यदात्मविदो विदुः ॥ 9॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतो-ऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं-विँभाति ॥ 10॥
ब्रह्मैवेदममृत-म्पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्व-ञ्च प्रसृत-म्ब्रह्मैवेदं-विँश्वमिदं-वँरिष्ठम् ॥ 11॥
॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥

Explore More