Brahman

मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः

(Mundaka Upanishad - Second Mundaka, First Khanda)

From Atharva Veda

This sacred text from the Atharva Veda forms a foundational part of the Vedanta philosophy. It explores the nature of the Supreme Brahman, illustrating how all creation emerges from the Imperishable source like sparks from a fire. Through profound metaphors, the verses delineate the divine, formless, and eternal essence that transcends even the subtle attributes of life and mind. Chanting or meditating upon these Upanishadic verses guides the seeker toward Jnana Yoga, fostering spiritual enlightenment, the removal of ignorance, and the ultimate realization of one's unity with the eternal, all-pervading divine reality.

॥ द्वितीय मुण्डके प्रथमः खण्डः ॥
तदेत-थ्सत्यं
यथा सुदीप्ता-त्पावकाद्विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः ।
तथा-ऽक्षराद्विविधा-स्सोम्य भावाः
प्रजायन्ते तत्र चैवापि यन्ति ॥ 1॥
दिव्यो ह्यमूर्तः पुरुष-स्स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमना-श्शुभ्रो ह्यक्षरा-त्परतः परः ॥ 2॥
एतस्माज्जायते प्राणो मन-स्सर्वेन्द्रियाणि च ।
खं-वाँयुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ 3॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ
दिश-श्श्रोत्रे वाग् विवृताश्च वेदाः ।
वायुः प्राणो हृदयं-विँश्वमस्य पद्भ्यां
पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ 4॥
तस्मादग्नि-स्समिधो यस्य सूर्यः
सोमा-त्पर्जन्य ओषधयः पृथिव्याम् ।
पुमा-न्रेत-स्सिञ्चति योषितायां
बह्वीः प्रजाः पुरुषा-थ्सम्प्रसूताः ॥ 5॥
तस्मादृच-स्साम यजूंषि दीक्षा
यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
सं​वँत्सरश्च यजमानश्च लोकाः
सोमो यत्र पवते यत्र सूर्यः ॥ 6॥
तस्माच्च देवा बहुधा सम्प्रसूताः
साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च
श्रद्धा सत्य-म्ब्रह्मचर्यं-विँधिश्च ॥ 7॥
सप्त प्राणाः प्रभवन्ति तस्मात्
सप्तार्चिष-स्समिध-स्सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा
गुहाशया निहिता-स्सप्त सप्त ॥ 8॥
अत-स्समुद्रा गिरयश्च सर्वे-ऽस्मात्
स्यन्दन्ते सिन्धव-स्सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च
येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ 9॥
पुरुष एवेदं-विँश्व-ङ्कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहित-ङ्गुहायां
सो-ऽविद्याग्रन्थिं-विँकिरतीह सोम्य ॥ 10॥
॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥

Explore More