Goddess Bhuvaneshvari

मणिद्वीप वर्णन - 3 (देवी भागवतम्)

(Manidvipa Varnanam)

From Devi Bhagavata Purana

Manidvipa Varnanam is a profound section found in the twelfth skandha of the Devi Bhagavata Purana, detailing the celestial abode of the Supreme Goddess Bhuvaneshvari. This text provides an exquisite, architectural, and metaphysical description of the divine island, often considered the ultimate destination for devotees of the Divine Mother. Chanting or meditating upon these verses is believed to purify the practitioner's consciousness, grant liberation from worldly attachments, and invoke the grace of the Goddess. It serves as a meditative gateway, helping seekers visualize the eternal residence of the cosmic Mother beyond the reach of ordinary time and space.

(श्रीदेवीभागवतं, द्वादश स्कन्धं, द्वादशोऽध्यायः, मणिद्वीप वर्णन - 3)
व्यास उवाच
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्र स्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ 1 ॥
शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डप सञ्ज्ञस्तु तृतीयः परिकीर्तितः ॥ 2 ॥
एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नाना वितानसंयुक्ता नाना धूपैस्तु धूपिताः ॥ 3 ॥
कोटिसूर्यसमाः कान्त्या भ्राञ्जन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ 4 ॥
मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ 5 ॥
महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेनसम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ 6 ॥
हंसकारण्डवाकीर्णा गन्धपूरित दिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ 7 ॥
शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववशा मध्ये श्रीजगदम्बिका ॥ 8 ॥
मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ 9 ॥
चतुर्थमण्डपे चैव जगद्रक्षा विचिन्तनम् ।
मन्त्रिणी सहिता नित्यं करोति जगदम्बिका ॥ 10 ॥
चिन्तामणिगृहे राजञ्छक्ति तत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोप्यधिराजते ॥ 11 ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ 12 ॥
तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूवह ॥ 13 ॥
सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्प दर्पनाशोद्यत्कोटि कन्दर्पसुन्दरः ॥ 14 ॥
पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषण भूषितः ।
हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ 15 ॥
दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्य प्रतीकाशश्चन्द्रकोटि सुशीतलः ॥ 16 ॥
शुद्धस्फटिक सङ्काशस्त्रिनेत्रः शीतल द्युतिः ।
वामाङ्के सन्निषण्णाऽस्य देवी श्रीभुवनेश्वरी ॥ 17 ॥
नवरत्नगणाकीर्ण काञ्चीदाम विराजिता ।
तप्तकाञ्चनसन्नद्ध वैदूर्याङ्गदभूषणा ॥ 18 ॥
कनच्छ्रीचक्रताटङ्क विटङ्क वदनाम्बुजा ।
ललाटकान्ति विभव विजितार्धसुधाकरा ॥ 19 ॥
बिम्बकान्ति तिरस्कारिरदच्छद विराजिता ।
लसत्कुङ्कुमकस्तूरीतिलकोद्भासितानना ॥ 20 ॥
दिव्य चूडामणि स्फार चञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छ नासाभरण भासुरा ॥ 21 ॥
चिन्ताकलम्बितस्वच्छ मुक्तागुच्छ विराजिता ।
पाटीर पङ्क कर्पूर कुङ्कुमालङ्कृत स्तनी ॥ 22 ॥
विचित्र विविधा कल्पा कम्बुसङ्काश कन्धरा ।
दाडिमीफलबीजाभ दन्तपङ्क्ति विराजिता ॥ 23 ॥
अनर्घ्य रत्नघटित मुकुटाञ्चित मस्तका ।
मत्तालिमालाविलसदलकाढ्य मुखाम्बुजा ॥ 24 ॥
कलङ्ककार्श्यनिर्मुक्त शरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्त शोभिनाभिविभूषिता ॥ 25 ॥
माणिक्य शकलाबद्ध मुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकार नयनत्रयसुन्दरी ॥ 26 ॥
कल्पिताच्छ महाराग पद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्त रत्नकङ्कणशोभिता ॥ 27 ॥
मणिमुक्तासरापार लसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रवितत प्रभाजाललसत्करा ॥ 28 ॥
कञ्चुकीगुम्फितापार नाना रत्नततिद्युतिः ।
मल्लिकामोदि धम्मिल्ल मल्लिकालिसरावृता ॥ 29 ॥
सुवृत्तनिबिडोत्तुङ्ग कुचभारालसा शिवा ।
वरपाशाङ्कुशाभीति लसद्बाहु चतुष्टया ॥ 30 ॥
सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी ।
सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ 31 ॥
निजसंलापमाधुर्य विनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ 32 ॥
नाना सखीभिर्दासीभिस्तथा देवाङ्गनादिभिः ।
सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ 33 ॥
इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ 34 ॥
बुद्धिर्मेधास्मृतिर्लक्ष्मीर्मूर्तिमत्योङ्गनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ 35 ॥
नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नवा ।
पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ 36 ॥
यस्यास्तु पार्श्वभागेस्तोनिधीतौ शङ्खपद्मकौ ।
नवरत्न वहानद्यस्तथा वै काञ्चनस्रवाः ॥ 37 ॥
सप्तधातुवहानद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ 38 ॥
सा देवी भुवनेशानी तद्वामाङ्के विराजते ।
सर्वेश त्वं महेशस्य यत्सङ्गा देव नान्यथा ॥ 39 ॥
चिन्तामणि गृहस्याऽस्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ 40 ॥
तदुत्तरे महाशालाः पूर्वस्माद् द्विगुणाः स्मृताः ।
अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ 41 ॥
सङ्कोचश्च विकाशश्च जायतेऽस्य निरन्तरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ 42 ॥
शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ 43 ॥
येये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ 44 ॥
श्रीदेव्यास्ते च सर्वेपि व्रजन्त्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ 45 ॥
ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ 46 ॥
स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ 47 ॥
आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफलावृक्षावाप्यः कूपास्तथैव च ॥ 48 ॥
यथेष्टपानफलदान न्यूनं किञ्चिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ 49 ॥
न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ 50 ॥
भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ 51 ॥
सरूपतां गताः केचित्सार्ष्टितां च परेगताः ।
यायास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ 52 ॥
समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ 53 ॥
महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां माया शबलविग्रहाम् ॥ 54 ॥
इत्थं राजन्मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचन्द्रौ नो विद्युत्कोटयोग्निस्तथैव च ॥ 55 ॥
एतस्य भासा कोट्यंश कोट्यंशो नापि ते समाः ।
क्वचिद्विद्रुमसङ्काशं क्वचिन्मरकतच्छवि ॥ 56 ॥
विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ 57 ॥
क्वचित्सिन्दूर नीलेन्द्रं माणिक्य सदृशच्छवि ।
हीरसार महागर्भ धगद्धगित दिक्तटम् ॥ 58 ॥
कान्त्या दावानलसमं तप्तकाञ्चन सन्निभम् ।
क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्र चित् ॥ 59 ॥
रत्नशृङ्गि समायुक्तं रत्नप्राकार गोपुरम् ।
रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमण्डितम् ॥ 60 ॥
नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ 61 ॥
सुरम्य रमणीयाम्बु लक्षावधि सरोवृतम् ।
तन्मध्यभाग विलसद्विकचद्रत्न पङ्कजैः ॥ 62 ॥
सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
मन्दमारुत सम्भिन्न चलद्द्रुम समाकुलम् ॥ 63 ॥
चिन्तामणि समूहानां ज्योतिषा वितताम्बरम् ।
रत्नप्रभाभिरभितो धगद्धगित दिक्तटम् ॥ 64 ॥
वृक्षव्रात महागन्धवातव्रात सुपूरितम् ।
धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ 65 ॥
मणिजालक सच्छिद्र तरलोदरकान्तिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदर संयुतम् ॥ 66 ॥
ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ 67 ॥
पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकला या दयायाश्च समाप्तिरिह भूपते ॥ 68 ॥
राज्ञ आनन्दमारभ्य ब्रह्मलोकान्त भूमिषु ।
आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ 69 ॥
इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् ।
महादेव्याः परंस्थानं सर्वलोकोत्तमोत्तमम् ॥ 70 ॥
एतस्य स्मरणात्सद्यः सर्वपापं विनश्यति ।
प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ 71 ॥
अध्याय पञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादि बाधा तत्र भवेन्न हि ॥ 72 ॥
नवीन गृह निर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ 73 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे द्वादशोध्यायः ॥

Explore More