Brahman

कठोपनिषद् - अध्याय 2, वल्ली 2

(Kathopanishad - Chapter 2, Valli 2)

From Veda (attributed to Maharishi Veda Vyasa)

This text is the second Valli of the second chapter of the Kathopanishad, a principal Upanishad associated with the Krishna Yajurveda. It features the dialogue between young Nachiketa and Yama, the Lord of Death. The verses explore the nature of the Supreme Self, describing the human body as an eleven-gated city and the divine reality as the luminous indweller of all beings. Chanting or contemplating these profound philosophical insights facilitates the realization of the imperishable Atman, granting the seeker liberation from the cycles of grief and rebirth while fostering deep spiritual wisdom.

अध्याय 2

वल्ली 2
पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत् ॥1॥
हंस-श्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋत-म्बृहत् ॥2॥
ऊर्ध्व-म्प्राणमुन्नयत्यपान-म्प्रत्यगस्यति।
मध्ये वामनमासीनं-विँश्वे देवा उपासते ॥3॥
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत् ॥4॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥5॥
हन्त त इद-म्प्रवक्ष्यामि गुह्य-म्ब्रह्म सनातनम्।
यथा च मरण-म्प्राप्य आत्मा भवति गौतम ॥6॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्ये-ऽनुसं​यँन्ति यथाकर्म यथाश्रुतम् ॥7॥
य एष सुप्तेषु जागर्ति काम-ङ्काम-म्पुरुषो निर्मिमाणः।
तदेव शुक्र-न्तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिं​ल्लोँका-श्श्रिता-स्सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥8॥
अग्निर्यथैको भुवन-म्प्रविष्टो रूपं रूप-म्प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूप-म्प्रतिरूपो बहिश्च ॥9॥
वायुर्यथैको भुवन-म्प्रविष्टो रूपं रूप-म्प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूप-म्प्रतिरूपो बहिश्च ॥10॥
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥11॥
एको वशी सर्वभूतान्तरात्मा एकं रूप-म्बहुधा यः करोति।
तमात्मस्थं-येँ-ऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वत-न्नेतरेषाम् ॥12॥
नित्यो-ऽनित्याना-ञ्चेतनश्चेतनानामेको बहूनां-योँ विदधाति कामान्।
तमात्मस्थं-येँ-ऽनुपश्यन्ति धीरास्तेषां शान्ति-श्शाश्वती नेतरेषाम् ॥13॥
तदेतदिति मन्यन्ते-ऽनिर्देश्य-म्परमं सुखम्।
कथ-न्नु तद्विजानीया-ङ्किमु भाति विभाति वा ॥14॥
न तत्र सूर्यो भाति न चन्द्रतारक-न्नेमा विद्युतो भान्ति कुतो-ऽयमग्निः।
तमेव भान्तमनुभाति सर्व-न्तस्य भासा सर्वमिदं-विँभाति ॥15॥

Explore More