N/A

कठोपनिषद् - अध्याय 1, वल्ली 2

(Kathopanishad - Chapter 1, Valli 2)

From The Vedas

The Kathopanishad, belonging to the Yajurveda, presents a profound dialogue between the young seeker Nachiketa and the god of death, Yama. In the second Valli of the first chapter, Yama explains the fundamental distinction between Preya (the pleasant) and Shreya (the beneficial). This text serves as a philosophical guide for spiritual aspirants, teaching the necessity of choosing eternal wisdom over fleeting sensory gratification. Chanting or studying these verses cultivates discernment, mental clarity, and the detachment required to pursue self-realization and liberation from the cycle of worldly existence.

अध्याय 1

वल्ली 2
अन्यच्छ्रेयो-ऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः।
तयो-श्श्रेय आददानस्य साधुर्भवति हीयते-ऽर्थाद्य उ प्रेयो वृणीते ॥1॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।
श्रेयो हि धीरो-ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥2॥
स त्व-म्प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतो-ऽत्यस्राक्षीः।
नैतां सृङ्कां-विँत्तमयीमवाप्तो यस्या-म्मज्जन्ति बहवो मनुष्याः ॥3॥
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिन-न्नचिकेतस-म्मन्ये न त्वा कामा बहवो-ऽलोलुपन्त ॥4॥
अविद्यायामन्तरे वर्तमाना-स्स्वय-न्धीराः पण्डितम्मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥5॥
न साम्परायः प्रतिभाति बाल-म्प्रमाद्यन्तं-विँत्तमोहेन मूढम्।
अयं-लोँको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥6॥
श्रवणायापि बहुभिर्यो न लभ्य-श्शृण्वन्तो-ऽपि बहवो य-न्न विद्युः।
आश्चर्यो वक्ता कुशलो-ऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥7॥
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥8॥
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
या-न्त्वमाप-स्सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥9॥
जानाम्यहं शेवधिरित्यनित्य-न्न ह्यध्रुवैः प्राप्यते हि ध्रुव-न्तत्।
ततो मया नाचिकेतश्चितो-ऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥10॥
कामस्याप्ति-ञ्जगतः प्रतिष्ठा-ङ्क्रतोरानन्त्यमभयस्य पारम्।
स्तोममह-दुरुगाय-म्प्रतिष्ठा-न्दृष्ट्वा धृत्या धीरो नचिकेतो-ऽत्यस्राक्षीः ॥11॥
त-न्दुर्दर्​श-ङ्गूढमनुप्रविष्ट-ङ्गुहाहित-ङ्गह्वरेष्ठ-म्पुराणम्।
अध्यात्मयोगाधिगमेन देव-म्मत्वा धीरो हर्​षशोकौ जहाति ॥12॥
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतस-म्मन्ये ॥13॥
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥14॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्य-ञ्चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥15॥
एतद्ध्येवाक्षर-म्ब्रह्म एतद्ध्येवाक्षर-म्परम्।
एतद्ध्येवाक्षर-ञ्ज्ञात्वा यो यदिच्छति तस्य तत् ॥16॥
एतदालम्बनं श्रेष्ठमेतदालम्बन-म्परम्।
एतदालम्बन-ञ्ज्ञात्वा ब्रह्मलोके महीयते ॥17॥
न जायते म्रियते वा विपश्चिन्नाय-ङ्कुतश्चिन्न बभूव कश्चित्।
अजो नित्य-श्शाश्वतो-ऽय-म्पुराणो न हन्यते हन्यमाने शरीरे ॥18॥
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19॥
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥20॥
आसीनो दूरं-व्रँजति शयानो याति सर्वतः।
कस्त-म्मदामद-न्देव-म्मदन्यो ज्ञातुमर्​हति ॥21॥
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्।
महान्तं-विँभुमात्मान-म्मत्वा धीरो न शोचति ॥22॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥23॥
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥24॥
यस्य ब्रह्म च क्षत्र-ञ्च उभे भवत ओदनः।
मृत्युर्यस्योपसेचन-ङ्क इत्था वेद यत्र सः ॥25॥

Explore More