Lord Yama

कठोपनिषद् - अध्याय 1, वल्ली 1

(Kathopanishad - Chapter 1, Valli 1)

From Veda (Krishna Yajurveda)

This opening section of the Kathopanishad features the profound dialogue between the young seeker Nachiketa and Lord Yama, the god of death. It chronicles Nachiketa’s quest to understand the mysteries of existence and what lies beyond mortality. As a primary Upanishadic text, it serves as a cornerstone of Advaita Vedanta philosophy. Studying or reciting these verses imparts immense spiritual wisdom, helping the seeker cultivate detachment, unwavering faith, and the intellectual clarity required to transcend the cycle of birth and death, ultimately leading to the realization of the eternal Atman.

अध्याय 1

वल्ली 1
ॐ उशन् ह वै वाजश्रवस-स्सर्ववेदस-न्ददौ।
तस्य ह नचिकेता नाम पुत्र आस ॥1॥
तं ह कुमारं सन्त-न्दक्षिणासु नीयमानासु श्रद्धा-ऽऽविवेश। सो-ऽमन्यत ॥2॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥3॥
स होवाच पितर-न्तत कस्मै मा-न्दास्यसीति।
द्वितीय-न्तृतीय-न्तं होवाच मृत्यवे त्वा ददामीति ॥4॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
किं स्विद्यमस्य कर्तव्यं-यँन्मयाद्य करिष्यति ॥5॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथा-ऽपरे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥6॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्।
तस्यैतां शान्ति-ङ्कुर्वन्ति हर वैवस्वतोदकम् ॥7॥
आशाप्रतीक्षे सङ्गतं सूनृता-ञ्चेष्टापूर्ते पुत्रपशूंश्च सर्वान्।
एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥8॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मे-ऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः।
नमस्ते-ऽस्तु ब्रह्मन्स्वस्ति मे-ऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥9॥
शान्तसङ्कल्प-स्सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो।
त्वत्प्रसृष्ट-म्माभिवदेत्प्रतीत एतत्त्रयाणा-म्प्रथमं-वँरं-वृँणे ॥10॥
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखं रात्री-श्शयिता वीतमन्युस्त्वा-न्ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥11॥
स्वर्गे लोके न भय-ङ्किञ्चनास्ति न तत्र त्व-न्न जरया बिभेति।
उभे तीर्त्वा-ऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥12॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्।
स्वर्गलोका अमृतत्व-म्भजन्त एतद् द्वितीयेन वृणे वरेण ॥13॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्नि-न्नचिकेतः प्रजानन्।
अनन्तलोकाप्तिमथो प्रतिष्ठां-विँद्धि त्वमेत-न्निहित-ङ्गुहायाम् ॥14॥
लोकादिमग्नि-न्तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥15॥
तमब्रवीत्प्रीयमाणो महात्मा वर-न्तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविता-ऽयमग्नि-स्सृङ्का-ञ्चेमामनेकरूपा-ङ्गृहाण ॥16॥
त्रिणाचिकेतस्त्रिभिरेत्य सन्धि-न्त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञ-न्देवमीड्यं-विँदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥17॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं-विँद्वांश्चिनुते नाचिकेतम्।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥18॥
एष ते-ऽग्निर्नचिकेत-स्स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्नि-न्तवैव प्रवक्ष्यन्ति जनासस्तृतीयं-वँर-न्नचिकेतो वृणीष्व ॥19॥
येय-म्प्रेते विचिकित्सा मनुष्ये-ऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वया-ऽहं-वँराणामेष वरस्तृतीयः ॥20॥
देवैरत्रापि विचिकित्सित-म्पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं-वँर-न्नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥21॥
देवैरत्रापि विचिकित्सित-ङ्किल त्व-ञ्च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥22॥
शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्।
भूमेर्महदायतनं-वृँणीष्व स्वय-ञ्च जीव शरदो यावदिच्छसि ॥23॥
एतत्तुल्यं-यँदि मन्यसे वरं-वृँणीष्व वित्त-ञ्चिरजीविका-ञ्च।
महाभूमौ नचिकेतस्त्वमेधि कामाना-न्त्वा-ङ्कामभाज-ङ्करोमि ॥24॥
ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व।
इमा रामा-स्सरथा-स्सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरण-म्मा-ऽनुप्राक्शीः ॥25॥
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणा-ञ्जरयन्ति तेजः।
अपि सर्व-ञ्जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥26॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं-वँरस्तु मे वरणीय-स्स एव ॥27॥
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधस्स्थः प्रजानन्।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥28॥
यस्मिन्निदं-विँचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्।
यो-ऽयं-वँरो गूढमनुप्रविष्टो नान्य-न्तस्मान्नचिकेता वृणीते ॥29॥

Explore More