Lord Krishna

गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः

(Gita Govinda, Sixth Sarga: Kuntha Vaikuntha)

Jayadeva

This segment is part of the immortal Gita Govinda by the 12th-century poet Jayadeva. It depicts the poignant longing of Radha as she waits for Krishna in the groves of Vrindavan. The composition serves as a masterwork of Bhakti literature, exploring the intensity of divine separation and the yearning of the soul for the Supreme Being. Chanting or meditating upon these verses is believed to cultivate profound devotional love, emotional purity, and a deep spiritual connection with Lord Krishna, guiding the devotee toward the realization of the transcendental union between the individual self and the Divine.

॥ षष्ठः सर्गः ॥

॥ कुण्ठवैकुण्ठः ॥
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ 37 ॥
॥ गीतं 12 ॥
पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥
नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ 1 ॥
त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ 2 ॥
विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ 3 ॥
मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥ 4 ॥
त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ 5 ॥
श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत
इति तिमिरमनल्पम् ॥ 6 ॥ भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥ 7 ॥ श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥ विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥ किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्। रधायावचनं तदध्वगमुखान्नन्दान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥ ॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥

Explore More