श्रीतुलाकावेरीमाहात्म्ये द्वाविंशेऽध्याये श्रीकृष्णेन
अर्जुनायोपदिष्टं लक्ष्मीहृदयस्तोत्रम् ।
अर्जुनायोपदिष्टं लक्ष्मीहृदयस्तोत्रम् ।
श्रीदेवी प्रथमं नाम द्वितीयं अमृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना ॥ १॥
तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना ॥ १॥
पञ्चमं विष्णुपत्नी च षष्ठं श्रीवैष्णवी तथा ।
सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा ॥ २॥
सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा ॥ २॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महलक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३॥
एकादशं महलक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३॥
श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मी त्रिलोकेश्वरी
मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना ।
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश प्रातः
शुद्धतराः पठन्त्यभिमतान् सर्वान् लभन्ते शुभान् ॥ ४॥
मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना ।
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश प्रातः
शुद्धतराः पठन्त्यभिमतान् सर्वान् लभन्ते शुभान् ॥ ४॥