Lord Vishnu

चित्रकॆतु स्तुतिः (अनन्त स्तोत्रं भागवत पुराण)

(Chitraketu Stuti (Ananta Stotram))

From Srimad Bhagavatam

This profound prayer, found in the sixth canto of the Srimad Bhagavatam, is offered by the Vidyadhara king Chitraketu to the Supreme Lord Vishnu. It serves as a masterpiece of philosophical insight, where the devotee acknowledges the Lord's absolute sovereignty over the creation, maintenance, and dissolution of the universe. By meditating on the Lord's causeless mercy and His nature as the soul of all souls, the devotee transcends worldly duality. Chanting this stotra is believed to purify the mind, grant liberation from material attachments, and bestow unwavering devotion to the Supreme Personality of Godhead.

(श्रीमद्भागवतं 6.16.34-48)
चित्रकेतुरुवाच ।
अजित जितः सममतिभिः साधुभि-
र्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजतामकामात्मनां
य आत्मदोऽतिकरुणः ॥ 34 ॥
तव विभवः खलु भगवन्
जगदुदयस्थितिलयादीनि ।
विश्वसृजस्तेंऽशांशास्तत्र
मृषा स्पर्धन्ते पृथगभिमत्या ॥ 35 ॥
परमाणुपरममहतोस्त्व-
माद्यन्तान्तरवर्ती त्रयविधुरः ।
आदावन्तेऽपि च सत्त्वानां
यद्ध्रुवं तदेवान्तरालेऽपि ॥ 36 ॥
क्षित्यादिभिरेष किलावृतः
सप्तभिर्दशगुणोत्तरैरण्डकोशः ।
यत्र पतत्यणुकल्पः
सहाण्डकोटिकोटिभिस्तदनन्तः ॥ 37 ॥
विषयतृषो नरपशवो
य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश तदनु
विनश्यन्ति यथा राजकुलम् ॥ 38 ॥
कामधियस्त्वयि रचिता
न परम रोहन्ति यथा करम्भबीजानि ।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य द्वन्द्वजालानि ॥ 39 ॥
जितमजित तदा भवता
यदाह भागवतं धर्ममनवद्यम् ।
निष्किञ्चना ये मुनय आत्मारामा
यमुपासतेऽपवर्गाय ॥ 40 ॥
विषममतिर्न यत्र नृणां
त्वमहमिति मम तवेति च यदन्यत्र ।
विषमधिया रचितो यः
स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ 41 ॥
कः क्षेमो निजपरयोः
कियानर्थः स्वपरद्रुहा धर्मेण ।
स्वद्रोहात्तव कोपः
परसम्पीडया च तथाधर्मः ॥ 42 ॥
न व्यभिचरति तवेक्षा यया
ह्यभिहितो भागवतो धर्मः ।
स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो
यमुपासते त्वार्याः ॥ 43 ॥
न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः ।
यन्नाम सकृच्छ्रवणात्पुल्कसकोऽपि
विमुच्यते संसारात् ॥ 44 ॥
अथ भगवन् वयमधुना
त्वदवलोकपरिमृष्टाशयमलाः ।
सुरऋषिणा यदुदितं तावकेन
कथमन्यथा भवति ॥ 45 ॥
विदितमनन्त समस्तं तव
जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरोः कियदिव
सवितुरिव खद्योतैः ॥ 46 ॥
नमस्तुभ्यं भगवते सकलजग-
त्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये
कुयोगिनां भिदा परमहंसाय ॥ 47 ॥
यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति
यं चेकितानमनु चित्तय उच्चकन्ति ।
भूमण्डलं सर्षपायति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ 48 ॥
॥ इति श्रीमद्भागवतमहापुराणे षष्ठस्कन्धे षोडशाध्यायान्तर्गतं चित्रकेतुकृतं अनन्तस्तोत्रम् ॥

Explore More