Lord Krishna

चतुश्लोकी भागवतम्

(Chatushloki Bhagavatam)

From Bhagavata Purana

The Chatushloki Bhagavatam consists of the four seminal verses spoken by Lord Krishna to Lord Brahma at the dawn of creation. Found within the Bhagavata Purana, these verses encapsulate the essence of Vedic wisdom, describing the nature of the Supreme Lord, His form, attributes, and activities. It serves as a philosophical condensation of the entire Bhagavata, revealing the relationship between the soul and the Divine. Chanting or meditating upon these verses is believed to grant the seeker profound spiritual realization, clarify the mysteries of existence, and deepen one's devotion to the Supreme Personality of Godhead.

श्रीभगवानुवाच ।

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ 1 ॥
यावानहं यथाभावो यद्रूपगुणकर्मकः ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ 2 ॥
अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ 3 ॥
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाऽभासो यथा तमः ॥ 4 ॥
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ 5 ॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽत्मनः ।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ 6 ॥
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ 7 ॥
इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां वैयसिक्यां द्वितीयस्कन्धे भगवद्ब्रह्मसंवादे नवमाध्यायान्तर्गतं चतुःश्लोकीभागवतं समाप्तम् . । भागवतपुराण . अध्याय 2/9/30-36 . ।

Explore More