Lord Surya

चाक्षुषोपनिषद् (चक्षुष्मती विद्या)

(Chakshushopanishad (Chakshushmati Vidya))

From Mahabharata

The Chakshushopanishad, also known as the Chakshushmati Vidya, is a powerful Vedic prayer dedicated to Lord Surya, the celestial embodiment of light and vision. Embedded within the Mahabharata, this sacred hymn is traditionally attributed to the sage Ahirbudhnya. It serves as a potent spiritual remedy for ocular ailments and visual impairments. By invoking the solar deity, the practitioner seeks to eradicate the karmic roots of eye-related suffering, restore physical sight, and attain divine clarity. Regular recitation is believed to purify the senses, sharpen perception, and bestow the brilliance of the sun upon the devotee.

अस्याः चाक्षुषीविद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्यो देवता । चक्षुरोगनिवृत्तये जपे विनियोगः ।
ॐ चक्षुश्चक्षुश्चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षुरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहं अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकरायाऽमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ।
य इमां चक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्य अक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं सहस्ररश्मिः शतधावर्तमानः । पुरः प्रजानामुदयत्येष सूर्यः ।
ॐ नमो भगवते आदित्याय अक्षितेजसे अहो वाहिनि वाहिनि स्वाहा ।
[ॐ नमो भगवते आदित्याय सूर्यायाहो वाहिन्यहोवाहिनी स्वाहा ।]

Explore More