Lord Shiva

भर्तृहरेः शतक त्रिशति - वैराग्य शतकम्

(Vairagya Shatakam)

Bhartrihari

Vairagya Shatakam is the second part of the famous Shatakatraya authored by the philosopher-king Bhartrihari. The work begins with a sublime invocation to Lord Shiva, the destroyer of desire. Through one hundred poignant verses, the text explores the transitory nature of worldly life and the inherent suffering linked to material attachments. By contemplating these verses, a seeker develops a spirit of detachment and profound inner stillness. It serves as a powerful spiritual manual for those aspiring to transcend the cycle of worldly cravings and attain true wisdom, mental equanimity, and ultimate liberation through introspective renunciation.

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अन्तःस्फूर्जद्​अपारमोहतिमिरप्राग्भारं उच्चाटयन्
चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ 3.1 ॥
भ्रान्तं देशं अनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ 3.2 ॥
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ 3.3 ॥
खलालापाः सोढाः कथं अपि तद्​आराधनपरैर्निगृह्यान्तर्
बाष्पं हसितं अपि शून्येन मनसा ।
कृतो वित्तस्तम्भप्रतिहतधियां अञ्जलिरपि
त्वं आशे मोघाशे किम अपरं अतो नर्तयसि माम् ॥ 3.4 ॥
अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यद्​आढ्यानां अग्रे द्रविणमदनिःसञ्ज्ञमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकं अपि ॥ 3.5 ॥
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।
ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ 3.6 ॥
भोगा न भुक्ता वयं एव भुक्तास्
तपो न तप्तं वयं एव तप्ताः ।
कालो न यातो वयं एव यातास्तृष्णा
न जीर्णा वयं एव जीर्णाः ॥ 3.7 ॥
बलिभिर्मुखं आक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ 3.8 ॥
विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं
यस्यां भवति मरुतां अप्यधिपतिः ॥ 3.8.1 ॥
निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ 3.9 ॥
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ 3.10 ॥
न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायन्ते व्यसनं इव दातुं विषयिणाम् ॥ 3.11 ॥
अवश्यं यातारश्चिरतरं उषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखं अनन्तं विदधति ॥ 3.12 ॥
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।
सम्प्राप्तान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ 3.13 ॥
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु
जलं पिबन्ति शकुना निःशङ्कं अङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा
काननकेलिकौतुकजुषां आयुः परं क्षीयते ॥ 3.14 ॥
भिक्षाशनं तदपि नीरसं एकवारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखण्डमयी च कन्था
हा हा तथापि विषया न परित्यजन्ति ॥ 3.15 ॥
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ 3.16 ॥
एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ 3.17 ॥
अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितम् ।
विजानन्तोऽप्येते वयं इह विपज्जालजटिलान्
न मुञ्चामः कामान् अहह गहनो मोहमहिमा ॥ 3.18 ॥
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरं आलिङ्गति वधूं
प्रतीकारं व्याधेः सुखं इति विपर्यस्यति जनः ॥ 3.19 ॥
तुङ्गं वेश्म सुताः सतां अभिमताः सङ्ख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः ।
मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे
सन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ 3.20 ॥
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ 3.21 ॥
अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ 3.22 ॥
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ 3.23 ॥
गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ 3.24 ॥
किं कन्दाः कन्दरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि ॥ 3.25 ॥
पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ 3.26 ॥
फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ 3.27 ॥
ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
तेषां अन्तःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ 3.28 ॥
ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसङ्कुलधियस्तेषां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां [कृतः]
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ 3.29 ॥
भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सत्रं अवार्यं अक्षयनिधिं शंसन्ति योगीश्वराः ॥ 3.30 ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ 3.31 ॥
आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥ 3.32 ॥
आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ 3.33 ॥
भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।
तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ 3.34 ॥
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।
लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ 3.35 ॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः
अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ 3.36 ॥
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किञ्चित् ॥ 3.37 ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितं आचरतीति चित्रम् ॥ 3.38 ॥
भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयं अस्मद्वचः ॥ 3.39 ॥
सखे धन्याः केचित्त्रुटितभवबन्धव्यतिकरा
वनान्ते चित्तान्तर्विषमविषयाशीविषगताः ।
शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां
नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः ॥ 3.39.1 ॥
ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एव एकः परमो नित्योदितो जृम्भते
भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ 3.40 ॥
सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ 3.41 ॥
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ 3.42 ॥
आदित्यस्य गतागतैरहरहः सङ्क्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगत् ॥ 3.43 ॥
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनर्​उक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे ॥ 3.44 ॥
न ध्यातं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं
मातुः केवलं एव यौवनवनच्छेदे कुठारा वयम् ॥ 3.45 ॥
नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवत् ॥ 3.46 ॥
विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ 3.47 ॥
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीं एते स्मः प्रतिदिवसं आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ 3.48 ॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तद्​अर्धं गतं
तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ 3.49 ॥
क्षणं बालो भूत्वा क्षणं अपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणं अपि च सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनूर्
नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ 3.50 ॥
त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरं उभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकान्ततो निःस्पृहाः ॥ 3.51 ॥
अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वां धनाढ्या मतिमलहतये मां अपि श्रोतुकामाः ।
मय्यप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था ॥ 3.52 ॥
वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ 3.53 ॥
फलं अलं अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणां
अविनयं अनुमन्तुं नोत्सहे दुर्जनानाम् ॥ 3.54 ॥
अश्नीमहि वयं भिक्षां आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः ॥ 3.55 ॥
न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः ।
नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः ॥ 3.56 ॥
विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ 3.57 ॥
अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर्
भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तद्​अंशस्याप्यंशे तद्​अवयवलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ 3.58 ॥
मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते । [तमेव]
ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रा भृशं
धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ॥ 3.59 ॥
स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितं अलङ्कारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः ॥ 3.60 ॥
परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।
प्रसन्ने त्वय्यन्तःस्वयमुदितचिन्तामणिगणो
विविक्तः सङ्कल्पः किं अभिलषितं पुष्यति न ते ॥ 3.61 ॥
सत्यां एव त्रिलोकीसरिति हरशिरश्चुम्बिनीवच्छटायां
सद्वृत्तिं कल्पयन्त्यां वटविटपभवैर्वल्कलैः सत्फलैश्च ।
कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पाम् ॥ 3.61.1 ॥
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतं अननुस्मरन्नपि च भाव्यसङ्कल्पयन्नतर्कित
समागमाननुभवामि भोगानहम् ॥ 3.62 ॥
एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयश्रेयो
मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् ।
स्वात्मीभावं उपैहि सन्त्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ 3.63 ॥
मोहं मार्जय तां उपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटभुवां आसङ्गं अङ्गीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च प्रत्ययः ॥ 3.64 ॥
चेतश्चिन्तय मा रमां सकृदिमां अस्थायिनीं आस्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या
पङ्क्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे ॥ 3.65 ॥
अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ 3.66 ॥
प्राप्ताः श्रियः सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ 3.67 ॥
भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्ग दोषरहिता विजना वनान्ता
वैराग्यं अस्ति किं इतः परमर्थनीयम् ॥ 3.68 ॥
तस्मादनन्तं अजरं परमं विकासि
तद्ब्रह्म चिन्तय किं एभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः
कृपणलोकमता भवन्ति ॥ 3.69 ॥
पातालं आविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथं आत्मनीनं
न ब्रह्म संस्मरसि निर्वृतिं एषि येन ॥ 3.70 ॥
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेशैर्वणिग्वृत्तिभिः ॥ 3.71 ॥
नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्​अपरुषं निःसीमशर्मप्रदम् ॥ 3.71.1 ॥
यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ 3.72 ॥
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर्
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ 3.73 ॥
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपं इव दूरतरं तरुण्यः ॥ 3.74 ॥
यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ 3.75 ॥
तपस्यन्तः सन्तः किं अधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ 3.76 ॥
दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितं इदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ 3.77 ॥
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूतग्राव
गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥ 3.78 ॥
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यं अनित्यतां उपगते चित्ते न किञ्चित्पुनः ॥ 3.79 ॥
रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किन्तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुरच्छाया
चञ्चलं आकलय्य सकलं सन्तो वनान्तं गताः ॥ 3.80 ॥
आ संसारात्त्रिभुवनं इदं चिन्वतां तात तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा ।
योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तः [विषयकरिणीगाढगूढाभिमानक्षीवस्यान्तः]
करणकरिणः संयमालानलीलाम् ॥ 3.81 ॥
यदेतत्स्वच्छन्दं विहरणं अकार्पण्यं अशनं
सहार्यैः संवासः श्रुतं उपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ 3.82 ॥
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ 3.83 ॥
महेश्वरे वा जगतां अधीश्वरे
जनार्दने वा जगद्​अन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे ॥ 3.84 ॥
स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ 3.85 ॥
महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनं अपि ता एव हरितः ।
सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ 3.85.1 ॥
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास्
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ 3.86 ॥
कदा वाराणस्यां अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् ॥ 3.87 ॥
उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मण्डनम् ।
आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ 3.87.1 ॥
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ 3.88 ॥
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ 3.89 ॥
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा
मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ 3.90 ॥
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ 3.91 ॥
ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ 3.92 ॥
मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि ।
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्
भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥ 3.93 ॥
महाशय्या पृथ्वी विपुलं उपधानं भुजलता
वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ 3.94 ॥
भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ 3.95 ॥
चण्डालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ 3.96 ॥
हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः ।
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तां अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥ 3.97 ॥
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः स्वाङ्गं अङ्गे मदीये ॥ 3.98 ॥
जीर्णा कन्था ततः किं सितं अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ।
भक्तं भुक्तं ततः किं कदशनं अथवा वासरान्ते ततः किं
व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ 3.98.1 ॥
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं
विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वी ।
येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस्ते
धन्याः सन्न्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ 3.99 ॥
त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते
यत्स्वादाद्विरसा भवन्ति विषयास्त्रैलोक्यराज्यादयः ॥ 3.99.1 ॥
मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एष भवतां अन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त
समस्तमोहमहिमा लीये परब्रह्मणि ॥ 3.100 ॥
शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः ।
येषां निर्झरं अम्बुपानं उचितं रत्यै तु विद्याङ्गना
मन्ये ते परमेश्वराः शिरसि यैर् बद्धो न सेवाञ्जलिः ॥ 3.101 ॥
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी
सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः ॥ 3.102 ॥
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ 3.103 ॥

Explore More